मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १६

← सर्गः १५ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओं तस्य राज्ञः तया राज्ञ्या सह क्रीडामाह

भूतलाप्सरसा सार्धमनन्यवनितापतिः ।

अकृत्रिमप्रेमरसं स रेमे कान्तया तया ॥ ३,१६.१ ॥

"स" राजा । "तया" लीलाख्यया । "कान्तया सहाकृत्रिमः प्रेमरसः" यत्र तत्"अकृत्रिमप्रेमरसं" । वक्ष्यमाणेषु स्थानेषु वक्ष्यमाणैः क्रीडाविशेषैः । "रेमे" । "तया" किंरूपया । "भूतलाप्सरसा" । "स" कथम्भूतः । "अनन्यवनितापतिः" नान्यवनितायाः पतिः । तस्यामेव रत इत्यर्थः ॥ ३,१६.१ ॥

 

 

 

क्रीडास्थानान्याह

उद्यानवनगुल्मेषु तमालगहनेषु च ।

पुष्पमण्डपतल्पेषु लतावलयसद्मसु ॥ ३,१६.२ ॥

"उद्यानवनेषु" विहितानि यानि "गुल्मानि" वेश्मानि । तेषु । "पुष्पे"ति । "पुष्पैः" कृतानि यानि "मण्डपतल्पानि" । तेषु । "मण्डपः" जनाश्रयः । "लतावलयसद्मसु" लतामण्डलगृहेषु ॥ ३,१६.२ ॥

 

 

 

पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु ।

वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥ ३,१६.३ ॥

"पुष्पैः" रचिता याः "अन्तःपुरशय्याः" । तासु । "पुष्पे"ति । "पुष्पसम्भारेण" पुष्पसमूहेन युक्ताः "वीथ्यः" मार्गाः । तासु । "वसन्ते"ति । "वसन्ते" रचिताः "उद्यानदोलाः" । तासु ॥ ३,१६.३ ॥

 

 

 

चन्दनद्रुमषण्डेषु सन्तानकतलेषु च ।

कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च ॥ ३,१६.४ ॥

"षण्डाः" समूहाः । "सन्तानकाः" द्रुमविशेषाः । "कदम्बे"ति । "कदम्बनिम्ब"तलेषु रचितानि यानि "गेहानि" । तेषु । "पारिभद्रे"ति । "पारिभद्राः" वृक्षविशेषाः ॥ ३,१६.४ ॥

 

 

 

शैलकन्दरकच्छेषु वातायनपुरेषु च ।

सरित्तटकटप्रेषु वारणोपरिसद्मसु ॥ ३,१६.५ ॥

"शैलकन्दरेषु" स्थिताः ये "कच्छाः" । तेषु । "वातायने"ति । "वातायन"युक्तानि च तानि "पुराणि" गृहोपरिगृहाणि । तेषु । "सरिद्" इति । "सरित्तटानां" ये "कटप्राः" समूहाः । तेषु । "वारणे"ति । "वारणोपरि"कृतेषु "सद्मसु" ॥ ३,१६.५ ॥

 

 

ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च ।

हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु ॥ ३,१६.६ ॥

"तुषारहर्म्येषु" शीतलगृहेषु । "हेमे"ति । "हेममन्दिरो"परिरोपिताः ये "हेममन्दिरवृक्षाः" । तेषु । "मुक्ते"ति । "मुक्तामाणिक्यैः" रचिताः "भित्तयः" येषां गृहाणाम् । तेषु ॥ ३,१६.६ ॥

 

 

विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु ।

वसन्तवनजालेषु कूजत्कोकिलमालिषु  ॥ ३,१६.७ ॥

"वसन्ते" पुष्पितानि यानि "वनजालानि" । तेषु । "विकसद्" इति "कूजद्" इति च विशेषणद्वयं "वसन्तवनजालेष्व्" इत्यस्यैव ॥ ३,१६.७ ॥

 

 

 

नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु ।

निर्झरेषु तरत्तारशीकरासारवर्षिषु ॥ ३,१६.८ ॥

"नाना" च तानि "रत्न"भूतानि "तृणानि" । तेषाम् । "स्थलेषु" कथम्भूतेषु । "मृदुदीप्तिषु" कमलेष्वित्यर्थः । "निर्झरे"ति । "निर्झरेषु" कथम्भूतेषु । "तरद्" इति । "तरन्तः" उत्थितवन्तः ये "ताराः" उद्भटाः । "शीकराः" जलकणाः । तेषाम् "आसारः" धारासाराः । तं "वर्षन्ति" । तादृशेषु ॥ ३,१६.८ ॥

 

 

 

शैलानां हेममाणिक्यशिलाफलहकेषु च ।

देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥ ३,१६.९ ॥

"शैलानां हेममाणिक्यो"त्पत्तिस्थानभूतानि यानि "शिलाफलहकानि" । तेषु ॥ ३,१६.९ ॥

 

 

कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च ।

वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च ॥ ३,१६.१० ॥

"स्मेरासु" फुल्लासु ॥ ३,१६.१० ॥

 

 

 

क्रीडास्थानान्युक्त्वा क्रीडाप्रकारानाह

प्रहेलिकाभिराख्यानैस्तथैवाक्षरमुष्टिभिः ।

अष्टापदैर्बहूद्द्योतैस्तथा गूढचतुर्थकैः ॥ ३,१६.११ ॥

"आख्यानैः" वृत्तान्तकथनैः । "अक्षरमुष्टिभिः" क्रीडाविशेषैः ॥ ३,१६.११ ॥

 

 

नाटकाख्यायिकाभिश्च श्लोकैर्बिन्दुमतीभ्रमैः ।

देशभाषाविभागैश्च नगरग्रामचेष्टितैः ॥ ३,१६.१२ ॥

"नाटकेषू"क्ता या "आख्यायिकाः" । ताभिः । "बिन्दुमतीभ्रमैः" क्रीडाविशेषैः । "देशे"ति । "देशभाषाणां विभागैः" विभागकरणैः । "नगरे"ति । "नगरचेष्टितैः ग्रामचेष्टितैश्" चेति योज्यम् ॥ ३,१६.१२ ॥

 

 

स्रग्दाममाल्यवलनैर्नानाभरणयोजनैः ।

लीलाविलोलचलनैर्विचित्ररसभाजनैः ॥ ३,१६.१३ ॥

"वलनैः" परिवर्तनैः । "नाने"ति । "नानाभरणानां योजनैः" अन्योऽन्यं संयोजनैः । "लीले"ति । "लीलया विलोलानि" यानि "चलनानि" गमनानि । तैः कथम्भूतैः । "विचित्रे"ति । "विचित्राणां" नानाविधानाम् । "रसानां" शृङ्गारादीनाम् । "भाजनैः" पात्रैः ॥ ३,१६.१३ ॥

 

 

 

आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः ।

फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः ॥ ३,१६.१४ ॥

"चर्वणैः" चर्वितैः । "फुल्ले"ति । "फुल्लपुष्पाश्" च ताः "लताः" । तासां यानि "कुञ्जानि" । तेषु । "देहगोपना" शरीरगुप्तिकरणम् । तदर्थं यानि "खर्वणानि" ह्रस्वीभवनानि । तैः ॥ ३,१६.१४ ॥

 

 

 

समालम्भनलीलाभिर्दोलारोहणविभ्रमैः ।

गृहे कुसुमदोलाभिरन्योऽन्यान्दोलनक्रमैः ॥ ३,१६.१५ ॥

"समालम्भनं" अङ्गरागकरणम् । "अन्योऽन्ये"ति । "अन्योऽन्यं" परस्परम् । "आन्दोलनम्" दोलाकम्पनम् । तस्य "क्रमैः" ॥ ३,१६.१५ ॥

 

 

 

नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः ।

जलकेलिविलासेन परस्परसमुक्षणैः ॥ ३,१६.१६ ॥

"नौयानं" च "युग्य"भूतैर्वाहनभूतैः । "हस्त्यश्वदान्तोष्ट्रादिभिः" । "गमागमाश्" च । तैः । "दान्तो" वलीवृन्दः । "परस्परे"ति । "परस्परम्" अन्योऽन्यम् । "समुक्षणानि" सेचनानि । तैः ॥ ३,१६.१६ ॥

 

 

नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः ।

सङ्गीतकैः सङ्कथनैर्वीणामुरजवादनैः ॥ ३,१६.१७ ॥

"नृत्ताद्या" या "उद्भटाः" उद्रिक्ताः । "वृत्तयः" व्यापाराः । ताभिः ॥ ३,१६.१७ ॥

 

 

पुनरपि क्रीडास्थानान्याह

उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु ।

अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा ॥ ३,१६.१८ ॥

"तथा तथा" पूर्वोक्तैः नानाविधैः क्रीडाविशेषैः ॥ ३,१६.१८ ॥

 

 

सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया ।

एकदा चिन्तयामास शुभसङ्कल्पशालिनी ॥ ३,१६.१९ ॥

"तस्य" पद्माख्यस्य राज्ञः । "प्रणयिनी" पत्नी । "सा" लीलाख्या । "बाला" । "एकदा" एकस्मिन् दिने । "चिन्तयामास" चिन्तां कृतवती । कथम्भूता । "सुखसंवृद्धा" । पुनः कथम्भूता । "शुभे"ति । "शुभसङ्कल्पेन" वक्ष्यमाणेन प्रशस्तेन सङ्कल्पेन । "शालिनी" ॥ ३,१६.१९ ॥

 

 

 

किं चिन्तयामासेत्य् । अत्राह

प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः ।

यौवनोल्लासलक्ष्मीवान् कथं स्यादजरामरः ॥ ३,१६.२० ॥

"मम एसः भर्ता अजरामरः" जरामरणाख्यदोषरहितः । "कथं स्यात्" केन हेतुना स्यादित्यन्वयः । "प्राणेभ्यः" जीवेभ्यः ॥ ३,१६.२० ॥

 

 

भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु ।

कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्यहम् ॥ ३,१६.२१ ॥

"अहं कान्तानेन भर्त्रा सहाब्दशतानि कथं रमेय" केनोपायेन वर्षशतानि क्रीडां कुर्यामित्यर्थः ॥ ३,१६.२१ ॥

 

 

तथा यतेय क्रमतस्तपोजपयमेहितैः ।

रजनीशरुची राजा यथा स्यादजरामरः ॥ ३,१६.२२ ॥

अत इत्यध्याहार्यम् । अतोऽहं "तथा तपोजपयमेहितैः" करणभूतैः । अतो यत्नं करोमि । "यथा रजनीशरुचिः" चन्द्रप्रभा । "राजाजरामरः स्यात्" ॥ ३,१६.२२ ॥

 

 

 

ज्ञानवृद्धांस्तपोवृद्धान् विद्यावृद्धानहं द्विजान् ।

पृच्छामि तावन्मरणं कथं न स्यान्नृणामिति ॥ ३,१६.२३ ॥

"अहं ज्ञानवृद्धान् तपोवृद्धान्" तथा "विद्यावृद्धान् द्विजानिति तावत्पृच्छामि इति" । किम् "इति" । "नृणां मरणं कथं न स्यात्" केन हेतुना न स्यात् ॥ ३,१६.२३ ॥

 

 

तस्याः सङ्कल्पमुक्त्वा बाह्यप्रयत्नमाह

अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता ।

अमरत्वं कथं विप्रा भवेदिति पुनः पुनः ॥ ३,१६.२४ ॥

"अथ" सङ्कल्पानन्तरम् । "आनाय्ये"त्यत्र । परिजनैरिति शेषः । "पुनः पुनर्" इति इच्छोद्रेकद्योतनपरम् ॥ ३,१६.२४ ॥

 

 

विप्रा उत्तरं कथयन्ति

तपोजपयमैर्देवि समस्ताः सिद्धसिद्धयः ।

सम्प्राप्यन्तेऽमरत्वं तु न कदाचन लभ्यते ॥ ३,१६.२५ ॥

"सिद्धसिद्धयः" । "सिद्धानां" सिद्धियुक्तानाम् । "सिद्धयः" । "तु" व्यतिरेके ॥ ३,१६.२५ ॥

 

 

द्विजेभ्यः स्वेप्सितासिद्धिं श्रुत्वा पुनरपि तच्चिन्तामाह

इत्याकर्ण्य द्विजमुखाच्चिन्तयामास सा पुनः ।

इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥ ३,१६.२६ ॥

"स्वप्रज्ञयैव" । न तु तदुक्तानुसारेण ॥ ३,१६.२६ ॥

 

 

 

किं चिन्तयामासेत्य् । अत्राह

मरणं भर्तुरग्रे मे यदि दैवाद्भविष्यति ।

तत्सर्वदुःखनिर्मुक्ता संस्थास्ये सुखमात्मनि ॥ ३,१६.२७ ॥

भर्तृमृतिदुःखादर्शनादिति भावः ॥ ३,१६.२७ ॥

 

 

अथ वर्षसहस्रेण भर्तादौ म्रियते यदि ।

तत्करिष्ये तथा येन जीवो गेहान्न यास्यति ॥ ३,१६.२८ ॥

"वर्षसहस्रेणे"ति पदमाशीर्द्योतकम् । "अथ यदि" " भर्तादौ" वर्षसहस्रान्ते "म्रियते तत्" तदा । "तथा" तमुपायम् । "करिष्ये येन जीवः" भर्तृजीवः । "गेहात्न यास्यति" ॥ ३,१६.२८ ॥

 

 

 

ततः किमित्य् । अत्राह

तद्भ्रमाद्भर्तृजीवेऽस्मिन्निजे शुद्धान्तमण्डपे ।

भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम् ॥ ३,१६.२९ ॥

अहं "तद्भ्रमात्" । भर्तावलोकते मामिति भ्रमात् । "नित्यं" सदा । "यथासुखं निवर्त्स्यामि" । कथम्भूताहम् । "अस्मिन् भर्तृजीवे निजे" स्वकीये । "शुद्धान्तमण्डपे" मया साधितेनोपायेन स्थिते सति । "भर्त्रावलोकिता" वीक्षिता ॥ ३,१६.२९ ॥

 

 

 

अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् ।

जपोपवासनियमैरा तोषं पूजयाम्यहम् ॥ ३,१६.३० ॥

"अद्यैव" । न तु श्वः । "एतदर्थं" भर्तृजीवस्य स्वगेहान्निर्गमाभावार्थम् । "ज्ञप्तिं देवीं" स्वप्रतिभां देवीम् । "आ तोषं" प्रसादपर्यन्तम् । ननु ज्ञप्त्याराधनतया कुतः श्रुतम् । ज्ञप्तिप्रसादादेवेति ब्रूमः । सर्वत्र ज्ञप्तिप्रसादस्यैव कारणत्वात् । अग्रे वक्ष्यमाणः ज्ञप्त्युपदेशश्च स्वप्रतिभाकृतः ज्ञेयः । यतः यत्यत्लीलया कृतं श्रुतं वा तत्स्वप्रतिभयैव । यदपि गुर्वादिमुखेन श्रूयते तदपि स्वप्रतिभयैव । सर्वत्र स्वप्रतिभायाः स्थितत्वात् ॥ ३,१६.३० ॥

 

 

चिन्तानन्तरं तत्प्रयत्नं कथयति

इति निश्चित्य सा नाथमनुक्त्वैव वराङ्गना ।

यथाशास्त्रं चचारोग्रं तपो नियममास्थिता ॥ ३,१६.३१ ॥

"नियममास्थिता"श्रिता । तं विना तपसो व्यर्थत्वात् ॥ ३,१६.३१ ॥

 

 

 

तत्तपः विशेषणद्वारेण कथयति

त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा ।

देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥ ३,१६.३२ ॥

"त्रिरात्रस्य त्रिरात्रस्ये"ति वीप्सायां द्वित्वम् ॥ ३,१६.३२ ॥

 

 

 

स्नानदानतपोध्याननित्योद्युक्तशरीरिका ।

सर्वास्तिक्यसदाचारकारिणी क्लेशकारिणी ॥ ३,१६.३३ ॥

"स्नानादिषु नित्यमुद्युक्तं" चेष्टायुक्तम् । शरीरं यस्याः । सा । "सर्वे"ति । "आस्तिक्यः" आस्तिकयोग्यः । "क्लेशः" तपोरूपः ॥ ३,१६.३३ ॥

 

 

 

यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् ।

तोषयामास भर्तारमपरिज्ञाततत्स्थितिम् ॥ ३,१६.३४ ॥

"अपरिज्ञाता" । "तस्या" लीलायाः । त्रयमेतत्तपः करोतीत्येवंरूपा "स्थितिर्" । येन । सः ॥ ३,१६.३४ ॥

 

 

त्रिरात्रशतमेवं सा बाला नियमशालिनी ।

अनारततपोनिष्ठमतिष्ठत्कष्टचेष्टया ॥ ३,१६.३५ ॥

"अनारते"ति । "अनारतं तपसि निष्ठा "यत्र । तत् । क्रियाविशेषणमेतत् । "कष्टचेष्टया" रात्रित्रयानन्तरं पारणादिरूपया दुःखदया चेष्टया ॥ ३,१६.३५ ॥

 

 

अथ ज्ञप्तिप्रसादमाह

त्रिरात्राणां शतेनाथ पूजिता प्रतिमामिता ।

तुष्टा भगवती गौरी वागीशीदमुवाच ताम् ॥ ३,१६.३६ ॥

"अथ" नियमानन्तरम् । "वागीशी" ज्ञप्तिः । "गौरी" शुद्धस्वरूपा । वागीशीत्वमस्याः वाचां मूलकारणत्वेन ज्ञेयम् । "प्रतिमामिता" शिलादिप्रतिमामाश्रिता । स्वया प्रतिभया प्रतिमायामाभासेन तस्याः दर्शनं दत्तवानिति भावः ॥ ३,१६.३६ ॥

 

 

 

ज्ञप्त्या कथ्यमानं वाक्यमाह

निरन्तरेण तपसा भर्तृभक्त्यतिशायिना ।

परितुष्टास्मि ते वत्से गृहाण वरमीप्सितम् ॥ ३,१६.३७ ॥

"निरन्तरेणा"च्छिन्नेन ॥ ३,१६.३७ ॥

 

 

ज्ञप्तिवाक्यं श्रुत्वा राज्ञी तां स्तौति

जय जन्मजराज्वालादाहदोषशशिप्रभे ।

जय हार्दान्धकारौघनिवारणरविप्रभे  ॥ ३,१६.३८ ॥

"शशिप्रभायाः दाहदोष"निवारकत्वं "रविप्रभायाः" च्"आन्धकार"निवर्तकत्वं प्रसिद्धमेव ॥ ३,१६.३८ ॥

 

 

 

अम्ब मां त्रिजगन्मातस्त्रायस्व कृपणामिमाम् ।

इदं वरद्वयं देहि यदिह प्रार्थये शुभम् ॥ ३,१६.३९ ॥

"कृपणां" दीनाम् । "शुभम्" इति "वरद्वय"विशेषणम् ॥ ३,१६.३९ ॥

 

 

वरद्वयमध्ये एकं कथयति

एकं तावद्विदेहस्य भर्तुर्जीवो ममाम्बिके ।

अस्मादेव हि मा यासीन्निजान्तःपुरमण्डपात् ॥ ३,१६.४० ॥

वरद्वयमध्ये "एकम्" इदं वरं देहि । किमित्यपेक्षायामाह "विदेहे"ति । "विदेहस्य" मृतस्य । "मा यासीत्" मा गच्छतु ॥ ३,१६.४० ॥

 

 

द्वितीयं कथयति

द्वितीयं त्वां महादेवि प्रार्थयेऽहं यदा यदा ।

दर्शनाय वरार्थेन तदा मे देहि दर्शनम् ॥ ३,१६.४१ ॥

"द्वितीयम्" इदं देहि । किमित्यपेक्षायामाह "त्वाम्" इति । हे "देवि" । "अहं त्वां यदा दर्शनाय प्रार्थये तदा त्वं वरार्थेन" वरानुरोधेन । "दर्शनं देहि" ॥ ३,१६.४१ ॥