← सर्गः ५ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः ७ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओमेवं परमात्मनः स्वरूपं माहात्म्यं च प्रतिपाद्य श्रीरामं तत्प्राप्तिं प्रति त्वरमाणं ज्ञात्वा सुगमं तत्प्राप्त्युपायं कथयति

अस्य देवातिदेवस्य परस्य परमात्मनः ।

ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानखेददा  ॥ ३,६.१ ॥

"अस्य" प्रोक्तस्वरूपस्य । "देवातिदेवस्य" निरतिशयक्रीडाशीलस्य द्योतनशीलस्य च निरतिशय"परमात्मनः" । "ज्ञानादेव" ज्ञानाख्यादुपायादेव । "सिद्धिः" प्राप्तिरूपा सिद्धिः । भवति । "अस्य सिद्धिः अनुष्ठानखेददा" । "अनुष्ठानेन" यः "खेदः" । तं द"दा"तीति तादृशी । "न" भवति ॥ ३,६.१ ॥

 

 

 

नन्वनुष्ठानं विना कथं युक्तता स्यादित्य् । अत्राह

अत्र ज्ञानमनुष्ठानं न त्वन्यदुपयुज्यते ।

मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत् ॥ ३,६.२ ॥

"अत्र" अस्यामात्मप्राप्तिरूपायां सिद्धौ । "ज्ञानमनुष्ठानं" सिद्धेः कार्यसाधकः प्रयत्नः । भवति । "अन्यत्" ज्ञानाख्यानुष्ठानव्यतिरिक्तं कायव्यापाराख्यम् । "अनुष्ठानं नोपयुज्यते" । "तत्" ज्ञानम् । "मृगतृष्णायां" या "जलभ्रान्तिः" । तस्याः "शान्तिः" । येन । तत् । तादृशं यत्"वेदनम्" । तद्वत्"रूपम्" । अस्यास्तीति तादृशं भवति । सम्यग्ज्ञानरूपं भवतीत्यर्थः ॥ ३,६.२ ॥

 

 

नन्वीदृशोऽसावात्मा कुत्र तिष्ठतीत्य् । अत्राह

न चैष दूरे नाकाशे नालभ्यो विषमो न च ।

स्वानन्दभासरूपोऽसौ स्वदेहादेव लभ्यते ॥ ३,६.३ ॥

"एषः" आत्मा । "दूरे न च" भवति । स्वशरीरान्तर्वर्तित्वात् । एतेन दूरस्थमहातीर्थाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "आकाशे न" भवति । एतेन उपरिस्थभुवनाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "अलभ्यः" लब्धुमशक्यः । "न" भवति । सदा लब्धत्वात् । अन्यथा आत्मत्वायोग्यत्वात् । एतेन दुर्लभत्वशङ्का निवारिता । "एषः" आत्मा । "विषमः" कठिनः । "न च" भवति । परप्रेमास्पदत्वात् । न हि कठिने प्रेमास्पदत्वं युक्तम् । परत्वविशेषितस्य तु प्रेम्नः का कथा । एतेन ऐश्वर्यलेशमदग्रस्तराजादिवत्क्रौर्याशङ्का निवारिता । पुरुषेण "स्वानन्दभासरूपः" भोगादिविषयनिरपेक्षस्वयम्भातानन्दप्रतिभासस्वरूपः । "असौ" आत्मा । "स्वदेहादेव" "लभ्यते" । "स्वानन्दभासरूप" इत्यनेन विषमत्वनिरासः । "स्वदेहाद्" इत्यनेन दूरस्थत्वाकाशस्थत्वयोः निरासः । "लभ्यते" इत्यनेन अलभ्यत्वनिरासः ॥ ३,६.३ ॥

 

 

 

ननु तपःप्रभृतिनापि केचिदात्मप्राप्तिं कथयन्तीत्य् । अत्राह

किञ्चिन्नोपकरोत्यत्र तपोदानव्रतादिकम् ।

स्वभावमात्रविश्रान्तिमृते नात्रास्ति साधनम् ॥ ३,६.४ ॥

"अत्र" अस्यामात्मप्राप्तिरूपायां सिद्धौ । "तपोदानव्रतादिकं किञ्चित्नोपकरोति" लेशेनापि उपकारं न करोति । बाह्याङ्गत्वेन आरादुपकारकत्वात् । तपःप्रभृतिना हि सत्त्वशुद्धिरेव भवति । नात्मप्राप्तिः । "अत्र" अस्यामात्मप्राप्तौ । "स्वभावविश्रान्तिमृते" स्वरूपविश्रान्तिं विहाय । "साधनं न" भवति ॥ ३,६.४ ॥

 

 

 

स्वभावविश्रान्तौ असमर्थान् प्रति उपायं कथयति

शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् ।

साधनं बोधनं मोहजालस्य यदकृत्रिमम् ॥ ३,६.५ ॥

"अत्र" अस्यामात्मप्राप्तौ । "शास्त्रं" च अध्यात्मशास्त्रम् । तच्च "सत्सङ्गसद्योगिनः" च "शास्त्रसत्सङ्गसद्योगिनः" । तत्र "परता" एकनिष्ठत्वम् । "एव" । न तु तपःप्रभृतिकम् । "साधनं" उपायः । भवति । "साधनं" किम् । "यत्मोहजालस्य" जगति जगत्त्वज्ञानाख्यस्य मिथ्याज्ञानप्रपञ्चस्य । लक्षणया जगति जगत्त्वज्ञानाख्यस्य मोहजालयुक्तस्य पुरुषस्य्"आकृत्रिमं" सहजम् । "बोधनं" ब्रह्मैवेदमित्य् । एवंबोधकारि भवति ॥ ३,६.५ ॥

 

 

 

शास्त्रादिपरताफलभूतस्यात्मविश्रान्तिं प्रति साधनभूतस्य मुख्यमुपायत्वं कथयति

अयं स देव इत्येव सम्परिज्ञानमात्रतः ।

जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च ॥ ३,६.६ ॥

"अयम्" अहन्तया इदन्तया च पुरःस्फुरणशीलः अहङ्कारादिकः संसारः । "सः" सर्वेषां परमार्थतः आत्मभावेन स्थितत्वात्प्रसिद्धः । "देवः" द्योतनशीलं क्रीडाशीलं च चित्तत्त्वं भवति । "इत्येव" एतावन्मात्रेणैव । "सम्परिज्ञानमात्रतः" सम्यग्ज्ञानमात्रेण । "जन्तोः दुःखं न जायते" । प्रवाहागतस्य दुःखस्यापि चिन्मात्रत्वज्ञानात् । सः जन्तुः "जीवन्मुक्तत्वं चैति" प्राप्नोति । शरीरसान्निध्येऽपि मुक्तत्वात् ॥ ३,६.६ ॥

 

 

 

साधनभावेन प्रसिद्धस्य तपःप्रभृतिकस्यासाधनत्वमसहमानः आत्मनः सुलभत्वे निकटवर्तित्वे च सन्दिहानश्च श्रीरामः पृच्छति

सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि ।

पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन ॥ ३,६.७ ॥

"आत्मनि" स्वस्मिन् । "सम्परिज्ञातमात्रेण" अहमादिजगदधिष्ठानतया सम्यङ्निश्चितेन । "अनेन आत्मना मरणाद्याः दोषाः न बाधन्ते" । न हि चिन्मात्रतां गतस्य देहगताः "मरणाद्याः" बाधां कर्तुं समर्थाः भवन्ति ॥ ३,६.७ ॥

तर्हि ज्ञातज्ञेयत्वेन मौनमेव कुर्वित्य् । अत्राह

देवदेवो महानेष कुतो दूरादवाप्यते ।

तपसा केन तीव्रेण क्लेशेन कियताथ वा ॥ ३,६.८ ॥

अस्माभिः "एषः देवदेवः कुतः दूरात्" कियतः दूरात् । "अवाप्यते" । तथा "केन तीव्रेण तपसा अवाप्यत अथ वा कियता क्लेशेन" प्राणरोधनादिरूपेण क्लेशेन । "अवाप्यते" । न हि ईदृशस्य देवदेवस्य तपआदिकं प्राणरोधनादिकं च विना प्राप्तिः युज्यते । सर्वेषां तत्प्राप्तिप्रसङ्गात् । न हि सर्वे तत्प्राप्तिभाजः दृश्यन्ते । न चानवाप्तस्य ज्ञानविषयत्वं युक्तम् । प्राप्तस्य घटादेरेव तद्विषयतादर्शनादिति भावः ॥ ३,६.८ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।

स देवो ज्ञायते राम न तपस्स्नानकर्मभिः  ॥ ३,६.९ ॥

हे "राम" । "स्वपौरुषप्रयत्नेन" निजमानसिकपौरुषाख्यप्रयत्नस्वरूपेण । तथा "विकासिना" विकासयुक्तेन विचारेण । कोऽहमिदं जगच्च किमित्येवंरूपेण "विवेकेन" । पुरुषेण "स देवः ज्ञायते" । "तपःस्नानकर्मभिः न ज्ञायते" । चित्तादिशोधनमात्रपरत्वात्तेषाम् । "ज्ञायते" इत्यनेन ज्ञानमात्रमेवात्र साधनीयम् । नावाप्तिः । न हि पुरःस्थायां शुक्तौ रजतभ्रमयुक्तस्य शुक्त्यवाप्तिं काङ्क्षमाणस्यापि शुक्त्यवाप्तिः सधनीया । शुक्तिरेवेयमित्येवंरूपस्य ज्ञानमात्रस्यैव साधनीयत्वातिति द्योतितम् । "कुतो दूराद्" इत्यस्यात्यन्तासङ्गतत्त्वेनोत्तराकथनम् ॥ ३,६.९ ॥

 

 

 

रागादियुक्तस्य तपआदेः स्फुटमेव असाधनत्वम् । तद्रहितस्य तु साधनत्वेऽपि रागादिराहित्यस्यैव साधनत्वं युक्तमित्यभिप्रायेणाह

रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।

विना राम तपोदानं क्लेश एव न वास्तवम् ॥ ३,६.१० ॥

तपश्च दानं च तत्"तपोदानं" । "वास्तवम्" सहजभावकृतम् ॥ ३,६.१० ॥

 

 

रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।

यदर्ज्यते ततो दानाद्यस्यार्थस्तस्य तत्फलम् ॥ ३,६.११ ॥

"ततः" तस्य धनस्य । सार्वविभक्तिकः तसिल् ॥ ३,६.११ ॥

 

 

 

रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।

स दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्न वा ॥ ३,६.१२ ॥

"वा"शब्दः पक्षान्तरे ॥ ३,६.१२ ॥

 

 

फलितं कथयति

तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् ।

सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशने ॥ ३,६.१३ ॥

"आहरेत्" अर्जयेत् । कुर्यादिति यावत् । "संसृतिव्याधिनाशने" संसृत्याख्यव्याधिनाशनार्थम् ॥ ३,६.१३ ॥

 

 

 

अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।

सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते ॥ ३,६.१४ ॥

"अत्रा"स्यामात्मप्राप्तौ । "पौरुषं यत्नम्" सच्छास्त्रविचारादिरूपम् । "गतिः" उपायः । "सर्वदुःखक्षयप्राप्तौ" समस्तदुःखक्षयप्राप्तिरूपायाम् ॥ ३,६.१४ ॥

 

 

ननु तत्पौरुषं कीदृगस्तीत्य् । अत्राह

शृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये ।

येन शाम्यन्त्यशेषेण रागद्वेषविषूचिकाः ॥ ३,६.१५ ॥

त्वं "शृणु" । "कीदृक्" कीदृशम् । "तत्पौरुषमात्मज्ञानस्य लब्धये" भवति । "येन" पौरुषेण । "रागद्वेषविषूचिकाः अशेषेण शाम्यन्ति" । अन्यथा आत्मज्ञानलब्धिहेतुत्वं तस्य न स्यादिति भावः ॥ ३,६.१५ ॥

 

 

प्रतिज्ञातं पौरुषस्वरूपकथनमेव करोति

यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया ।

सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन् ॥ ३,६.१६ ॥

यथासम्भवमुद्योगादनुद्विग्नतया स्वया ।

साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥ ३,६.१७ ॥

"यथासम्भवया" सम्भवानुसरिण्या । न तु प्रयत्नसाधितया । "वृत्त्या" जीविकया । "भोगगर्धं" भोगलोभम् ॥ ३,६.१६१७ ॥

 

 

 

यथाप्राप्तार्थसन्तुष्टो यो गर्हितमुपेक्षते ।

साधुसङ्गमसच्छास्त्ररतः शीघ्रं स मुच्यते ॥ ३,६.१८ ॥

"गर्हितम्" अन्यायागतं धनादिकम् ॥ ३,६.१८ ॥

 

 

ननु कथं "सः शीघ्रं मुच्यते" इत्य् । अत्राह

विचारणापरिज्ञातस्वभावस्य महामतेः ।

अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ ३,६.१९ ॥

"विचारणया" साधुसङ्गादिप्रभावसिद्धेन विचारेण । "परिज्ञातः" देहादिव्यतिरिक्तत्वेन निश्चितः । "स्वभावः" स्वरूपम् । येन । सः । तादृशस्य "महामतेः" बुद्धियुक्तस्य पुरुषस्य । "एते ब्रह्मविष्ण्विन्द्रशङ्कराः अनुकम्प्याः" । कीदृशाः । एषां जगज्जननादिव्यापारपरतारूपा विपदस्तीत्येवंरूपानुकम्पाविषयाः "भवन्ति" । किमु वक्तव्यं तस्य शीघ्रं मोक्षः कथं स्यादिति भावः ॥ ३,६.१९ ॥

 

 

 

ननु प्रथमं तावत्त्वया साधुसङ्गतिरेवोपायत्वेनोक्ता । स साधुरेव कः स्याद्यस्य सङ्गतिः क्रियते इत्य् । अत्राह

भृशं यं सुजनप्रायं लोकाः साधुं प्रचक्षते ।

स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ॥ ३,६.२० ॥

"सुजनप्रायम्" बाहुल्येन सुजनम् । "प्राय"पदेनासाधुत्वेऽपि । प्रयोजनवशाद्बान्धवैः उक्तसुजनत्वे पुरुषे साधुत्वेऽपि परनिन्दैकरसिकखलजनप्रोक्तासाधुजनत्वे पुरुषे साधुत्वासाधुत्वयोः निरासः ॥ ३,६.२० ॥

 

 

साधुनिर्णयं कृत्वा शास्त्रनिर्णयं करोति

अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।

शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारवान् ॥ ३,६.२१ ॥

"विद्यानाम्" समस्तज्ञानानां मध्ये । "अध्यात्मविद्या" आत्मज्ञानम् । "प्रधानं" भवति । अतः पण्डिताः "तत्कथाश्रयम्" अध्यात्मविद्याकथावाचकम् । "शास्त्रं सच्छास्त्रमित्याहुः" । "तद्विचारवान्" प्रोक्तसच्छास्त्रविचारयुक्तः पुरुषः । "मुच्यते" संसारकृतात्बन्धनात्मुक्तो भवति । अतः अध्यात्मशास्त्रमेवात्रोपयुक्तमस्तीति भावः ॥ ३,६.२१ ॥

 

 

 

सच्छास्त्रादेः उत्पन्नस्य विवेकस्य मुख्योपायत्वं सर्गान्तश्लोकेन स्फुटीकृत्य कथयति

सच्छास्त्रसत्सङ्गमजैर्विवेकैस्

तथा विनश्यन्ति बलान्मलानि ।

यथा जलानां कतकानुषङ्गाद्

यथा जडानामभयोपयोगात् ॥ ३,६.२२ ॥

"मलानि" रागादिरूपाणि । जनपक्षे रजोरूपाणि । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः । द्वितीयं दृष्टान्तं कथयति । "यथा जडानाम्" इति । "जडानां" स्वविवेकहीनानाम् । "अभयोपयोगात्" । "अभयेन" केनचिद्दत्तेनाभयेन । कृतः यः "उपयोगः" समाश्वासनाख्यः उपयोगः । तस्मात्"मलानि" रज्जुसर्पादिकृतभयरूपाणि मलानि । "विनश्यन्ति" । तथेत्यर्थः । विवेकिनामभयं स्वविचारेण विनश्यन्तीति "जडानाम्" इत्युक्तम् । इति शिवम् ॥ ३,६.२२ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे षष्ठः सर्गः ॥ ३,६ ॥