मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १२

← सर्गः ११ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः १३ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओम् । "वक्ष्यामी"ति प्रतिज्ञां सम्पादयति

एतस्मात्परमाच्छान्तात्पदात्परमपावनात् ।

यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया ॥ ३,१२.१ ॥

"एतस्मात्" समनन्तरमेव प्रतिपादितस्वरूपात् । "परमात्" सर्वोत्कृष्टात् । "शान्तात्" प्रपञ्चक्षोभरहितात् । "परमपावनात्" पावनानामपि पावकत्वेन निरतिशयपावनात् । "पदात्" परात्मलक्षणात्स्थानात् । "यथा" येन प्रकारेण्"एदम्" अनुभूयमानम् । "विश्वं" जगत् । "उत्थितं" प्रादुर्भूतम् । "तत्" तं प्रकारम् । "उत्तमयो"त्कृष्टया । "धिया" । "शृणु" । एतेनोत्तमधीरेवाधिकारित्वेनोक्तः ॥ ३,१२.१ ॥

 

 

 

तदेव कथयति

सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।

सर्वमेकं च तच्छान्तं तत्र तावत्क्रमं शृणु ॥ ३,१२.२ ॥

"सुषुप्तं" सुषुप्तिः । "स्वप्नवत्" स्वप्न इव । "भाति" स्फुरति । घननिद्रात उत्थितस्य एव स्वप्नप्रादुर्भावात् । "ब्रह्मैव" सर्गभावेन बृंहितं चिन्मात्राख्यं वस्तु एव । "सर्गवत्" सर्ग इव । "भाति" । ननु तर्हि जगदुपादानभूतं ब्रह्म जगद्वदेव जडं स्यात् । कार्यवैगुण्ययुक्तस्य कारणस्यादर्शनातित्य् । अत्राह "सर्वम्" इति । "तत्" ब्रह्म । "सर्वं" भवति । "एकं च" भवति । "शान्तं च" भवति । सर्वथाश्चर्यमेव तदिति भावः । ननु कथमुत्पद्यत इत्य् । अत्राह "तत्रे"ति । "तावच्"छब्दः साकल्ये ॥ ३,१२.२ ॥

 

 

क्रममेव कथयति

तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।

सत्तामात्रात्म कचनं यदजस्रं स्वभावतः ॥ ३,१२.३ ॥

तदात्मनि स्वयं किञ्चिच्चेत्यतामिव गच्छति ।

अगृहीतात्मकं संविदीहामर्षणसूचकम् ॥ ३,१२.४ ॥

"तत्" कचनम् । "किञ्चित्" लेशेन । "चेत्यतामिव गच्छति" परमार्थतो न गच्छतीत्"ईव"शब्दोपादानम् । कथम् । "स्वयं" स्वेनैव । न तु परप्रेरणया । परस्य तत्राभावात् । कस्मिन् । "आत्मनि" स्फुरणाख्यचेतकस्वभावे खरूपे । तद्व्यतिरेकेण तदा कस्याप्यभावात् । "तत्" किम् । "यत्" "कचनं" स्फुरणम् । अहमिति परामर्श इति यावत् । "अजस्रं" सन्ततम् । "स्वभावतः" स्वभावेनैव । भवति । कस्य । "तस्य" सर्वेष्वहमिति भासमानत्वेन प्रसिद्धस्य्"आनन्तप्रकाशात्मरूपस्यानन्तः" अपरिच्छिन्नः । यः "प्रकाशः" तद्"आत्मा" । तदेकमयः स्वभावः "स्वरूपं" यस्य । सः । तस्यानन्तप्रकाशरूपस्येति यावत् । "आततचिन्मणेः" । "आततः" सर्वत्र व्याप्तः यः "चिन्मणिः" । तस्य । कथम्भूतं "कचनं" । "सत्तामात्रात्म" सत्तामात्रस्वरूपम् । स्फुरत्तारूपे कचन एव सत्ताव्यवहारात् । अयं भावः । शुद्ध ...