मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १३

← सर्गः १२ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः १४ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



... मानत्वं च चिद्विषयत्वम् । तच्च चित्सम्बन्धः । चिताथाचिद्रूपस्य सम्बन्धो न युज्यते विरुद्धत्वात् । न हि तेजस्तमसोः सम्बन्धः क्वापि दृष्टः । चितश्च शान्तत्वमुक्तन्यायेन चेत्यासम्भवेनैव सिद्धमिति ॥ ३,१३.५० ॥

 

 

 

ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि ।

चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि ॥ ३,१३.५१ ॥

"इत्थं" जगद्रूपतया । "स्वच्छं" चेत्यमलरहितम् । "आत्मना" स्वयम् । "आत्मनि" भित्तिभूते स्वस्वरूपे । "आत्म" सर्वात्मभूतम् । "ब्रह्मैव कचति" भाति । कुतः । "चित्त्वात्" चिद्भावात् । चेत्यरूपजगत्तयाभाने चित्त्वमेव तस्य न स्यादिति भावः । अत्र दृष्टान्तमाह "द्रवत्वाद्" इति । यथा "सलिलं द्रवत्वातात्मनि" सलिलाख्ये स्वरूपे । "आवर्त"रूपेण स्फुरत्भवति । तथेत्यर्थः ॥ ३,१३.५१ ॥

 

 

 

असदेवेदमाभाति सदिवेहानुभूयते ।

विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा ॥ ३,१३.५२ ॥

"इदं" जगत् । "असदेव भाति" विलसति । अस्माभिः "सदिव" सद्वत् । "इह" परात्मस्वरूपे । "ऽनुभूयते" । "ऽन्ते" संहारे । "असदेव विनश्यति" । अत्र दृष्टान्तमाह "स्वप्न" इति ॥ ३,१३.५२ ॥

 

 

जगदत्यन्ताभावं विस्तरेणोक्त्वा सिद्धान्तभूतं ब्रह्ममयत्वं तस्य कथयति

अथ वाजस्वरूपत्वात्सदैवेदमनामयम् ।

अखण्डितमनाद्यन्तं ज्ञातमात्राम्बरोदरम् ॥ ३,१३.५३ ॥

"अथ वा इदं" जगत् । "सदैवाजस्वरूपत्वात्" जन्मरहितचिन्मात्रस्वरूपत्वात् । "अनामयम्" पूर्वोक्ताधारत्वाधेयत्वादिरोगरहितं भवति । न त्वभावयुक्तम् । तदभावश्च तदाक्रान्तबुद्धीन् सत्यं तद्रूपमपश्यतः प्रत्येवोक्तः । कथम्भूतम् "इदं" । "अखण्डितं" पूर्णस्वरूपम् । "अनाद्यन्तं" आद्यन्तरहितम् । "ज्ञातमात्राम्बरोदरम्" । "ज्ञातमात्रम्" एव । न तु मुद्गरादिप्रहारैः नाशितं सत् । "अम्बरोदरम्" सम्यग्ज्ञानेनालोचितं हि जगतम्बरोदरमेव भवति ॥ ३,१३.५३ ॥

 

 

 

सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति

आकाश एव परमे प्रथमः प्रजेशो

नित्यं स्वयं कचति शून्यतया समानः ।

स ह्यातिवाहिकवपुर्न तु भूतरूपी

पृथ्व्यादि तेन न सदस्ति यदा न जातम् ॥ ३,१३.५४ ॥

"प्रथमः" आद्यः । "प्रजेशः" ब्रह्मा । "परमे" सर्वोत्तीर्णे । "आकाशे" चिदाकाशे । "नित्यं" सदा । "स्वयं" स्वेनैव । "कचति" स्फुरति । तथा च पूर्वोक्ता सर्वा प्रक्रिया सर्गारम्भं विना अतुष्टमनसः प्रत्येवेति भावः । कथम्भूतः । "शून्यतया" शून्यभावेन । "समानः" शुद्धत्वेन तत्समानः । न तु तद्रूपः जडत्वापत्तेः । "हि" निश्चये । "सः" प्रजेशः । "आतिवाहिकवपुः" सूक्ष्मशरीरमयः । भवति । "न तु भूतरूपः" । "तु" विशेषे । सः स्थूलपृथ्व्यादिभूतरूपी न भवति । "तेन" तदभूतरूपिताख्येन हेतुना । "पृथ्व्यादि सत्नास्ति" । ननु प्रजेशस्यापृथ्व्यादिरूपतया कथं न पृथ्व्यादि सतस्तीत्य् । अत्राह "यदे"ति । यत इत्यस्यार्थे । यतः "जातम्" उत्पन्नम् । "ना"स्ति । शुद्धमनोरूपस्य प्रजेशस्य तद्रूपताग्रहणेन पृथ्व्यादेर्जातत्वं स्यान् । न तु पूर्वन्यायेन प्रजेशस्य तद्रूपताग्रहणं सम्भवत्य् । अतः पृथ्व्यादेरपि जातत्वं न सम्भवतीति भावः । इति शिवम् ॥ ३,१३.५४ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे त्रयोदशः सर्गः ॥ ३,१३ ॥