मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः ९
← सर्गः ८ | मोक्षोपायटीका/उत्पत्तिप्रकरणम् भास्करकण्ठः |
सर्गः १० → |
मोक्षोपायटीका/उत्पत्तिप्रकरणम् |
---|
ओं पूर्वसर्गान्तश्लोकार्थमेव स्फुटं कथयति
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तं नित्यं तुष्यन्ति रमयन्ति ये ॥ ३,९.१ ॥
तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारणात् ।
सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या ॥ ३,९.२ ॥
"तच्चित्ताः" । "तस्मिन्" स्वात्मविचारे । "चित्तं" येषाम् । ते । तादृशाः । तथा "तस्मिन्" स्वात्मविचारे । "गताः" निष्ठां गताः । "प्राणाः" बाह्येन्द्रियाणि येषाम् । ते । तादृशाः । तथा "तम्" आत्मविचारम् । "परस्परं बोधयन्तः" । तथा "तं" आत्मविचारम् । "कथयन्तश्" "च ये" साधवः । "तुष्यन्ति" तुष्टियुक्ताः भवन्ति । तथा "रमयन्ति" अन्यान् तुष्टियुक्तान् सम्पादयन्ति । आत्म"ज्ञानैकनिष्ठानां" आत्मविचारैकपराणाम् । "तेषां" पुरुषाणाम् । "आत्मज्ञानविचारणात्सा जीवन्मुक्तता उदेति" प्रादुर्भवति । "या विदेहमुक्ततैव" भवति । निःशेषं देहाभिमानाभावात् ॥ ३,९.१२ ॥
श्रीरामः पृच्छति
ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।
ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥ ३,९.३ ॥
"जीवन्मुक्तस्ये"त्यत्र "च"शब्दोऽध्याहार्यः । "यते" यत्नं करोमि । "लक्षणम्" स्वरूपप्रतिष्ठापकः धर्मः । "धिया" बुद्ध्या । कथम्भूतया । "शास्त्रम्" एव "दृक्" नेत्रे । यस्याः । सा । तादृश्या । शास्त्रानुसारिण्येत्यर्थः ॥ ३,९.३ ॥
श्रीवसिष्ठ उत्तरं कथयति
यथास्थितमिदं यस्य व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ३,९.४ ॥
"व्यवहारवतोऽपि" विश्वपदार्थेषु व्यवहारं कुर्वतोऽपि । "यस्य" पुरुषस्य । "यथास्थितम्" अनेन प्रकारेणैव स्थितम् । न तु केनापि प्रयत्नेन नाशितस्वरूपम् । "इदम्" पुरःस्फुरणशीलं जगत् । "अस्तं" "गतं" नाशं गतम् । अत एव "व्योम" शून्यरूपं भवति । पण्डितैः "स जीवन्मुक्तः उच्यते" । भासमानस्य जगतः शुक्तिकारजतवतसत्यत्वदर्शित्वं जीवन्मुक्तलक्षणमिति भावः ॥ ३,९.४ ॥
बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् ।
य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते ॥ ३,९.५ ॥
"बोधे" दृश्यात्यन्ताभावज्ञानपूर्वके आत्मज्ञाने । "एकं" केवलम् । "निष्ठा" रतिः यस्य । सः "बोधैकनिष्ठः" । तस्य भावः तत्"ता" । ताम् "यातः" गतः । "यः" पुरुषः । "जाग्रत्येव" जाग्रदवस्थायामेव । तत्रापि "व्यवहर्तैव" प्रवाहागतव्यवहारकार्येव । "सुषुप्तवत्" सुषुप्त्याविष्ट इव । "आस्ते" । निरनुसन्धान आस्ते इति यावत् । पण्डितैः "सः जीवन्मुक्तः उच्यते" । दृश्यते च स्त्र्यादिनिष्ठस्य पुरुषस्य जाग्रति व्यवहर्तुरेव सतः सुषुप्तवदवस्थितिरिति नायस्तम् ॥ ३,९.५ ॥
नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितेर्यस्य स जीवन्मुक्त उच्यते ॥ ३,९.६ ॥
"यथाप्राप्तस्थितेः" प्रवाहागतनिष्ठस्य । "यस्य" । "सुखे दुःखे" च "मुखप्रभा नोदेति नास्तमायाति" हर्षामर्षराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ३,९.६ ॥
यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ३,९.७ ॥
"यः" पुरुषः । "जागर्ति" बाह्यपदार्थविषयं बोधं भजति । कथम्भूतः । "सुषुप्ते" सुषुप्तौ इव तिष्ठतीति । तादृशः । एकचिन्मात्रतानिश्चयेन बाह्यप्रपञ्चानुसन्धानरहितत्वात् । तथा "यस्य" पुरुषस्य । "जाग्रत्" लौकिका जाग्रदवस्था । "न विद्यते" तुर्यमयत्वात् । जीवन्मुक्तो हि जाग्रति सर्वं चिन्मात्रमयं पश्यन् तुर्यावस्थाविष्ट एव भवति । तथा "यस्य निर्वासनः" अहंममतारूपवासनारहितः । "बोधः" बाह्यदेहादिपदार्थज्ञानम् । भवति । पण्डितैः "स जीवन्मुक्त उच्यते" ॥ ३,९.७ ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ३,९.८ ॥
"यः" पुरुषः । "रागद्वेषभयादीनामनुरूपं चरनपि" । रागाधारे पुत्रादौ रतिं भजनपि । द्वेषाधारे शत्रौ विमुखो भवनपि । भयकारणात्सिंहादेः चलनपि । "अन्तः" मनसि । "व्योमवतत्यच्छः" अतिनिर्मलः भवति । पुत्रादिविषयस्य रत्यादेः प्रवाहबलेन निरनुसन्धानकरणात् । अनुसन्धान एव हि मनसि मलं भवति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । "आदि"शब्देन देहादिविषयाणामस्मितादीनां ग्रहणम् ॥ ३,९.८ ॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ३,९.९ ॥
"यस्य" पुरुषस्य । "अहङ्कृतः भावः" अहङ्कारमयी चित्तवृत्तिः । "ना"स्ति । सर्वत्र ब्रह्मकर्तृत्वदर्शनात् । तथा "यस्य" पुरुषस्य । "बुद्धिः न लिप्यते" लेपयुक्ता न क्रियते । रागादिरूपैः पापैरिति शेषः । पण्डितैः "सः जीवन्मुक्त उच्यते" । "यस्य" कथम्भूतस्य । "कुर्वतः" शरीरयात्रानिमित्तं प्रवाहागतं वा कर्म कुर्वतः । तथा केनापि कारणेन "अकुर्वतः" वा । तत्र करणकाले निरनुसन्धानकरणातकरणकाले शुद्धचिन्मात्रपरामर्शनिष्ठत्वातहम्भावधीलेपराहित्यं ज्ञेयम् ॥ ३,९.९ ॥
यश्चोन्मेषनिमेषाभ्यां विधेः प्रलयसम्भवौ ।
पश्येत्त्रिलोक्याः खसमः स जीवन्मुक्त उच्यते ॥ ३,९.१० ॥
"खसमः" आकाशसदृशः । "यः" पुरुषः । "त्रिलोक्याः विधेः" भ्वादिबाह्यत्रिलोकीविधानस्य जाग्रदाद्यान्तरत्रिलोकीविधानस्य च । "उन्मेषनिमेषाभ्यां" । अर्थात्परमात्मतया निश्चितस्य चित्तत्त्वस्य "उन्मेषेण" चेत्यानौन्मुख्याख्येन प्रादुर्भावेन । "निमेषेण" चेत्यौन्मुख्याख्येन स्वरूपगोपनेन । "प्रलयसम्भवौ" "पश्यति" संहारोत्पत्ती । तथा तिरोभावाविर्भावौ पश्यति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । अथ वा स्वपरामर्शः "उन्मेषः" । तत्रापि उपेक्षा "निमेषः" । तथा च उन्मेषेण सम्भवः । निमेषेण प्रलयः । इति यथासङ्ख्यं विहायैव सम्बन्धः कार्यः ॥ ३,९.१० ॥
भोक्तैव यो न भोक्तेव शुद्धबोधैकतां गतः ।
बुद्धः सुप्त इवास्तेऽन्तः स जीवन्मुक्त उच्यते ॥ ३,९.११ ॥
"शुद्धबोधैकतां" शुद्धबोधेनैकत्वं "गतः" । "यः" पुरुषः । "बुद्धः" बोधयुक्तः सन् । "अन्तः सुप्तः इव आस्ते" तिष्ठति । निरनुसन्धानत्वात् । "यः" कथम्भूत "इव" । "भोक्ता एव" भुजिक्रियाकर्तृत्वं भजन्नेव । "अभोक्ता इव" स्वस्मिन् शुद्धबोधताज्ञानेन भोक्ताहमित्यभिमानाभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ३,९.११ ॥
नित्यं द्रष्टैव चाद्रष्टा जीवन्नेव मृतोपमः ।
व्यवहर्तैव शैलाभः स जीवन्मुक्त उच्यते ॥ ३,९.१२ ॥
यः "द्रष्टैव" दृशिक्रियाकर्तृत्वं भजन्नेव । न त्वन्धवत्तिष्ठन् । "अद्रष्टा" भवति । तथा यः "जीवन्नेव" जीवनक्रियाकर्तृत्वं भजन्नेव । "मृतोपमः" भवति । मृतसदृशः भवति । मृतवत्भोगादिवाञ्छाभावात् । तथा यः "व्यवहर्ता एव" व्यवहारं कुर्वनेव । "शैलाभः" भवति । तत्त्वतः क्षोभराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ३,९.१२ ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥ ३,९.१३ ॥
"लोकः" सामान्यलोकः । "यस्मात्नोद्विजते" उद्वेगकारणाभावेन उद्वेगं न याति । तथा "यः लोकात्न उद्विजते" निष्प्रयोजनत्वात् । स्वप्रयोजनपरः एव हि येभ्यः स्वप्रयोजनं न पश्यति तेभ्यः उद्विजते । "यः" कथम्भूतः । "हर्षामर्षभयोन्मुक्तः" हर्षामर्षभयरहितः । स्वस्मिन् शुद्धबोधैकताज्ञानात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ३,९.१३ ॥
शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ३,९.१४ ॥
"शान्ता" आत्मनि चिन्मात्रतादर्शनेन लयं गता । "संसारकलना" यस्य । सः । तादृशः । "यः" पुरुषः । "कलावानपि" ज्ञानाख्यकलायुक्तोऽपि । "निष्कलः" कलाभ्यः निष्क्रान्तः भवति । स्वस्य निष्कलचिन्मात्रताज्ञानात् । तथा "यः सचित्तः अपि" शुद्धसत्त्वस्वरूपचित्तयुक्तः अपि । "निश्चित्तः" चित्तान्निष्क्रान्तः भवति । मलिनचित्ताभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ३,९.१४ ॥
यः समस्तार्थजातेषु व्यवहार्यपि शीतलः ।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ३,९.१५ ॥
"पूर्णात्मा" निरपेक्षशान्तचिन्मात्रत्वेन तृप्तात्मा । "यः समस्तार्थजातेषु" प्रवाहागतेषु सकलेषु प्रयोजनसमूहेषु । "शीतलः" किमयं सिध्यति न वेति सन्तापरहितः भवति । केष्व्"इव" । "परार्थेष्विव" । यथा लौकिकः "परार्थेषु शीतलः" भवति । तथेत्यर्थः । पण्डितैः "स जीवन्मुक्तः उच्यते" ॥ ३,९.१५ ॥
जीवन्मुक्तिमुक्त्वा क्रमप्राप्तां विदेहमुक्तिं कथयति
जीवन्मुक्तपदं त्यक्त्वा देहे कालवशात्क्षते ।
चिद्यात्यदेहमुक्तत्वं पवनः स्पन्दनामिव ॥ ३,९.१६ ॥
"चित्" लक्षणया चिद्भावतागतः जीवन्मुक्तः । "देहे" शरीरे । "कालवशात्" नियतिवशेन । "क्षते" नष्टे सति । "जीवन्मुक्तपदम्" जीवन्मुक्तताम् । "त्यक्त्वा" । "अदेहमुक्तत्वं" विदेहमुक्तभावम् । "याति" । क "इव" कां "त्यक्त्वा" । "पवन इव स्पन्दनाम्" । यथा "पवनः स्पन्दनाम्" चेष्टाकरणम् । त्यजति । तथेत्यर्थः । "पवनः स्पन्दतामिवे"ति वा पाठः ॥ ३,९.१६ ॥
जीवन्मुक्तवत्तस्यापि लक्षणानि लेशतः कथयति
विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
न सन्नासन्न दूरस्थं न चाहं न च वेतरत् ॥ ३,९.१७ ॥
"विदेहमुक्तः" अनहम्भावेन गृहीतस्य देहस्याप्यभावेन विदेहमुक्तिं गतः पुरुषः । "न उदेति" सदोदितचिन्मात्रभावेन अवस्थानात् । तथा "अस्तं न एति" । यथा तथा कल्पितस्य तदस्तस्य ततः एवोत्थानात् । अन्यथासम्भवात् । तथा "न शाम्यति" संसारभानाभावप्रसङ्गात् । "न सत्" भवति । बाह्यान्तरकरणागोचरत्वात् । तथा "असत्न" भवति । एतादृक्प्रपञ्चभावेन भानाभावप्रसङ्गात् । न हि शशशृङ्गं केनापि रूपेण भातुं शक्नोति । तथा "दूरस्थं न" भवति । सर्वेषामहन्तासारत्वेन स्थितत्वात् । तथा "अहं न" भवति । परिच्छिन्नः प्रमाता न भवति । अपरिमितप्रमातृत्वेन स्थितत्वात् । तथा "इतरत्" परिमितं प्रमेयम् । "न" भवति । अपरिमितप्रमेयभावेन स्थितत्वात् ॥ ३,९.१७ ॥
विश्वोत्तीर्णतामुक्त्वा विश्वमयतां लेशतः कथयति
सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।
रुद्रः सर्वान् संहरति सर्वान् सृजति पद्मजः ॥ ३,९.१८ ॥
असौ शुद्धचिन्मात्रतां यातः विदेहमुक्तः "सूर्यो भूत्वा" सूर्यभावमासाद्य । "प्रतपति" तापक्रियाकर्तृत्वं भजति । तथा "विष्णुः भूत्वा जगत्त्रयं पाति" रक्षति । एवं सर्वत्र योज्यम् । एषां सूर्यादीनां च बाह्यान्तरत्वेन द्वैविध्यं ज्ञेयम् । बाह्ये हि "सूर्यः" यः व्योम्नि दृश्यते । आन्तरस्तु प्राणः । सूर्यवत्शरीरपाककारित्वात् । तथा "विष्णुः" बुद्धिः । तद्वत्सङ्कल्पस्थितिकारित्वात् । तथा "रुद्रः" अहङ्कारः । तद्वत्सर्वसङ्कल्पानां स्वस्मिन् लयीकरणात् । तथा "पद्मजः" मनः । तद्वत्सङ्कल्पोत्पादकत्वात् । एवं यथासम्भवं सर्वत्र योज्यम् । ननु कथं विदेहमुक्तः सूर्यादिचराचरपदार्थभावमागत्य तद्गताः सर्वाः क्रियाः करोतीति चेत् । सत्यम् । तत्र चराः तावत्स्फुटमेव अन्तर्यामिशुद्धचित्तत्त्वाधिष्ठिताः लक्ष्यन्ते । अन्यथा मरणावस्थां गतेष्वपि तेषु प्राग्वत्क्रियाधारत्वप्रसङ्गात् । ननु तत्क्रियायां प्राण एव प्रेरकः दृश्यते । निष्प्राणानामचरशरीराणां निष्क्रियत्वदर्शनात् । असदेतत् । न हि प्राणो नामात्र प्रेरकत्वे समर्थः कश्चिच्चेतन इव लक्ष्यते । किं त्वन्यस्य कस्यापि स्वतन्त्रस्य चेतनस्य प्रेरणया । देवदत्तप्रेर्यमाणकन्दुकवत्निर्गमप्रवेशकारीव दृश्यते इति शुद्धस्य चिन्मात्रस्यैव चरान्तर्यामित्वेन चरगतक्रियाकर्तृत्वं ज्ञायते । अचरेष्वपि दृश्यमाणा अवस्थितिक्रिया क्रियात्वात्चरगतक्रियावत्तत्कृता एव ज्ञेया । यतः यत्र साक्षाच्चेतनतया भासमानानां चराणां स्वक्रियायामसामर्थ्यमस्ति तत्र साक्षाज्जडत्वेन भासमानानामचराणां
का कथा क्रियाकारित्वे । तेन यथा अधिष्ठातृभूतेन देवदत्तेन क्वचित्स्थापिताः स्तम्भादयः तिष्ठन्ति तथा स्वान्तर्गतेन केनापि तत्त्वेन स्थापिताः अचराः तिष्ठन्तीति ज्ञेयम् । तत्र देवदत्तस्य तेभ्यः बहिःस्थता प्रत्यक्षमेव दृश्यते इति न तत्र तस्य तदन्तर्गतत्वं कल्प्यते । अत्र तु बहिः स्थूलस्य कस्याप्यदर्शनात्तदन्तर्गतत्वं कल्प्यते । बहिर्गतत्वमपि तस्य न विरुध्यते इत्यास्तामेतत् । एवं च शुद्धचिन्मात्रे पर्यवसितं सर्वक्रियाकर्तृत्वं तन्मयतागते तस्मिन्नपि सिद्धमेव । समुद्रे लीनस्य जलबिन्दोः इव समुद्रगुणविशिष्टत्वम् । अवशिष्टं मृतशरीरमपि पक्षाक्षिप्तमेव ज्ञेयम् । ननु तथापि विदेहमुक्तः सर्वाः क्रियाः करोतीत्येतावन्मात्रमेव सिद्धम् । न तु सर्वं भूत्वेत्येतत्सिद्धम् । तत्र का वार्तेति चेत् । सत्यम् । तत्रेयं वार्ता । चराचराः भावाः किम्मयाः इति विचार्यमाणे तत्स्वरूपं हस्तग्राहाभावातनिर्वाच्यतायामेव विश्राम्यति । अनिर्वाच्यता एव च शुद्धचित्तत्त्वस्य स्वरूपमिति शुद्धचिद्रूपतां गतस्य विदेहमुक्तस्य सर्वभावो युक्त एवेति न कोऽपि विरोधः । एतच्च शुद्धचित्तत्त्वस्वरूपमनुभवत्सु प्रत्यक्षसिद्धमेव । तदविद्वदर्थे तु अयं प्रयत्नः कृत इत्यलं प्रपञ्चेन ॥ ३,९.१८ ॥
खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् ।
कुलाचलगणो भूत्वा लोकपालपुरास्पदम् ॥ ३,९.१९ ॥
"सर्क्षसुरासुरान्" नक्षत्रदेवासुरसहितान् । "कुलाचलगणः भूत्वा लोकपालपुरास्पदं" भवतीति सम्बन्धः ॥ ३,९.१९ ॥
भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् ।
तृणगुल्मलता भूत्वा ददाति फलसन्ततिम् ॥ ३,९.२० ॥
स्पष्टम् ॥ ३,९.२० ॥
बिभ्रज्जलानलाकारं ज्वलति भवति द्रुतः ।
चन्द्रोऽमृतं प्रस्रवति मृतिं हालाहलं विषम् ॥ ३,९.२१ ॥
"जलाकारं बिभ्रद्द्रुतः" द्रवगुणयुक्तः । "भवति" । "अनलाकारं बिभ्रत्ज्वलती"त्य्योज्यम् । "चन्द्रो" भूत्वा "हालाहलं" भूत्वेति सम्बन्धनीयम् ॥ ३,९.२१ ॥
तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् ।
शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ॥ ३,९.२२ ॥
"रोधयति" रोधनं करोति ॥ ३,९.२२ ॥
करोति जङ्गमं चित्त्वे स्थावरं स्थावराकृतिः ।
भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥ ३,९.२३ ॥
"चित्त्वे" चिद्भावे स्थित्वा । चिद्भावयुक्तो भूत्वेति यावत् । "जङ्गमं करोति" "स्थावराकृतिः" सन् "स्थावरं करोति" । "अर्णवः भूत्वा भूस्त्रियं" भूरेव स्त्री । ताम् "वलयति" समन्तात्पर्यन्तेषु आवृणोति । को "यथा" । "वलयो यथा" । "यथा वलयः स्त्रियं" । अर्थात्स्त्रीभुजम् । "वलयति" । तथेत्यर्थः ॥ ३,९.२३ ॥
परमार्कवपुर्भूत्वा प्रकाशेऽन्तर्विसारयन् ।
त्रिजगत्त्रसरेण्वोघं शान्तमेवावतिष्ठति ॥ ३,९.२४ ॥
"परमार्कवपुः" चित्सूर्यवपुः । "भूत्वा" । "प्रकाशे" प्रकाशरूपायां स्वभित्तौ । "त्रिजगत्त्रसरेण्वोघं" त्रिजगदाख्यं परमाणुसमूहम् । "विसारयन्" विस्तारयन् । "शान्तमेव" साक्षिभावेन स्थितत्वात्तत्कृतक्षोभरहितमेव्"आवतिष्ठति" । युक्तं चार्कस्य प्रकाशे त्रसरेण्वोघविसारणं शान्तमवस्थानं च ॥ ३,९.२४ ॥
विशेषकलनामशक्यां ज्ञात्वा सामान्येन कथयति
यत्किञ्चिदिदमाभाति भातं वा भामुपैष्यति ।
कालत्रयगतं दृश्यं तदसौ सर्वमेव वा ॥ ३,९.२५ ॥
"वा" पक्षान्तरे । "यत्किञ्चितिदं" जगत् । "भातम्" पूर्वं स्फुरितम् । तथा "आभाति" अद्य स्फुरति । तथा "भाम्" स्फुरणम् । "उपैष्यति" अग्रे आगमिष्यति । "तत्कालत्रयगतं सर्वं दृश्यमसौ" उक्तः विदेहमुक्तः । भवति ॥ ३,९.२५ ॥
अत्र श्रीरामः पृच्छति
कथमेवं वद ब्रह्मन् भूयते विषमा हि मे ।
दृष्टिरेषा तु दुष्प्रापा दुराक्रम्येति निश्चयः ॥ ३,९.२६ ॥
हे "ब्रह्मन्" । त्वं "वद" कथय । पुरुषेण "एवम्" एतादृग्गुणयुक्तेन विदेहमुक्तेन । "कथं भूयते" कथं सम्पद्यते । "हि" यस्मात्कारणात् । "मे निश्चयः" । "इति" एवम् । भवति । "इति" किम् । "इति विषमा" कठिना । "एषा" पूर्वोक्ता । "दृष्टिः" विदेहमुक्तिरूपा दृष्टिः । "दुष्प्रापा दुराक्रम्या" च भवति ॥ ३,९.२६ ॥
श्रीवसिष्ठ उत्तरं कथयति
मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् ।
निर्वाणमेतत्कथितं शृणु सम्प्राप्यते कथम् ॥ ३,९.२७ ॥
हे "राम" । पण्डितैः "एषा" एतत्विदेहमुक्तत्वम् । "मुक्तिः उच्यते" । जीवन्मुक्तत्वस्य सत्त्वरूपचित्ताश्रयत्वेनामुक्तिकल्पत्वात् । पण्डितैः "एतत्" "ब्रह्म समुदाहृतम्" कथितम् । सर्वपदार्थभावेन बृंहणाभाक्त्वात् । पण्डितैः "एतत्निर्वाणं कथितम्" सर्वथा परिमिताहन्तायाः लयीभावात् । त्वं "शृणु एतत्" पुरुषेण "कथं प्राप्यते" ॥ ३,९.२७ ॥
यदिदं दृश्यते दृश्यमहंत्वत्तादिसंयुतम् ।
सतोऽप्यस्याप्यनुत्पत्त्या बुद्ध्या वैतदवाप्यते ॥ ३,९.२८ ॥
अस्माभिः । "अहंत्वत्तादिसंयुतं यदिदं दृश्यं" जगत् । "दृश्यते" अनुभूयते । "सतः अपि" एवमेव स्थितस्यापि । "अस्य" जगतः । "अनुत्पत्त्याः बुद्ध्या" अनुत्पन्नमेवेदमित्येवंरूपस्य अभावस्य ज्ञानेनैव । तज्जगद्विषयानुत्पन्नत्वज्ञानेनेति यावत् । "एतत्" उक्तगुणं विदेहमुक्तत्वम् । "अवाप्यते" प्राप्यते । "अपिवा"शब्दौ एवशब्दार्थे । एतेन दृश्यात्यन्ताभावस्य विदेहमुक्तिं प्रति कारणत्वमुक्तम् ॥ ३,९.२८ ॥
श्रीरामः पुनः पृच्छति
विदेहमुक्तास्त्रैलोक्यं सम्पद्यन्ते यदा तदा ।
मन्ये ते सर्गतामेव गता वेद्यविदां वर ॥ ३,९.२९ ॥
"विदेहमुक्ताः यदा" यदि । "त्रैलोक्यं सम्पद्यन्ते" । हे "वेद्यविदां वर" । अहं "मन्ये" । "तदा ते सर्गतामेव गताः" सर्गभावमेव गताः भवन्ति । सर्गान्तर्गतपदार्थभावेनैव स्फुरणात् ॥ ३,९.२९ ॥
श्रीवसिष्ठ उत्तरं कथयति
विद्यते चेत्त्रिभुवनं तत्तत्तां सम्प्रयान्तु ते ।
यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन ॥ ३,९.३० ॥
तत्र त्रिलोकतां यातं ब्रह्मेत्युक्त्यर्थधीः कुतः ।
तस्मान्नो सम्भवत्यन्या जगच्छब्दार्थकल्पना ॥ ३,९.३१ ॥
"त्रिभुवनं" सर्गः ।"चेद्" यदि । "विद्यते" सत्यं भवति । "तत्" तदा । "ते" विदेहमुक्ताः । "तत्ताम्" त्रिभुवनताम् । "सम्प्रयान्तु" सम्यक्गच्छन्तु । "यत्र" यस्मिन् स्थाने । "कश्चन त्रैलोक्यशब्दार्थः" त्रैलोक्यशब्दयुक्तः अर्थः । "त्रैलोक्यशब्दार्थः" त्रैलोक्याख्यः शब्दः तदर्थश्चेति यावत् । "न सम्भवति" । "तत्र" तस्मिन् स्थाने । "इत्युक्त्यर्थधीः" एवंरूपोक्त्यर्थाकारा धीः । एवंरूपा उक्तिः एवंरूपः अर्थश्चेति यावत् । "कुतः" भवति । त्रैलोक्यशब्दार्थयोरसम्भवात् । न सम्भवतीत्यर्थः । "इति" किम् । "इति" "ब्रह्म" लक्षणया विदेहमुक्तः । "त्रिलोकतां" सर्गताम् । "यातं" भवति । उपसंहारं करोति "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अन्या" ब्रह्मणः अन्या । "जगच्छब्दार्थकल्पना" जगच्छब्दार्थरूपा कल्पना । "न" भवति ॥ ३,९.३०३१ ॥
अनेन प्रसङ्गेन जगद्ब्रह्मणोः ऐक्यमेव पुनः पुनः कथयति
अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् ।
ब्रह्मैव जगदित्येव सत्यं सत्यावबोधिनः ॥ ३,९.३२ ॥
"जगत्" कर्तृ । "अनन्यत्" सर्वरूपत्वेन स्थितत्वात्स्वव्यतिरिक्तवस्तुरहितम् । "शान्तं" स्वरूपे विश्रान्तम् । "आभासमात्रकम्" आभासमात्रस्वरूपम् । "आकाशनिर्मलम्" आकाशवत्स्वच्छम् । "ब्रह्म एव" भवति । "इत्येव" एतदेव । "सत्यावबोधिनः" सत्यज्ञानयुक्तस्य । "सत्यं" भवति ॥ ३,९.३२ ॥
अत्र दृष्टान्तं कथयति
यथा हि हेमकटके विचार्यापि न दृश्यते ।
कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकम् ॥ ३,९.३३ ॥
"यथा ही"ति दृष्टान्तत्वद्योतकम् । अस्माभिः । "हेमकटके" सुवर्णवलये । "विचार्यापि" विचारयित्वापि । "निर्मलहाटकमृते कटकत्वं नाम क्वचित्न दृश्यते" । यथा कटकं हेमैव भवति तथा जगत्ब्रह्मैव भवतीति पूर्वश्लोकदृष्टान्ततया योज्यमुत्तरश्लोकद्वयं च ॥ ३,९.३३ ॥
द्वितीयं दृष्टान्तं कथयति
जलादृते पयोवीचौ नाहं पश्यामि किञ्चन ।
वीचित्वं त्वादृशैर्दृष्टं यत्तु नास्त्येव तत्र हि ॥ ३,९.३४ ॥
"अहं पयोवीचौ" जलतरङ्गे । "जलादृते किञ्चन न पश्यामि" पयोवीचौ "नास्ति" ॥ ३,९.३४ ॥
तृतीयं दृष्टान्तं कथयति
स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् ।
स्पन्द एव सदा वायुर्जगत्तस्मान्न विद्यते ॥ ३,९.३५ ॥
"कदाचन" कुत्रापि काले । "कुत्रचित्" कुत्रापि देशे । "स्पन्दत्वं पवनातन्यत्न" भवति । यतः "वायुः स्पन्द एव" भवति । फलितं कथयति "जगद्" इति । यतः जगतः ब्रह्मत्वे दृष्टान्तत्रयमस्ति "तस्मात्जगत्न विद्यते" । अतश्च विदेहमुक्तस्य सर्गतागमनं कथं भवतीति भावः ॥ ३,९.३५ ॥
पुनरपि पूर्वोक्तमर्थमेव सदृष्टान्तं कथयति
यथा शून्यत्वमाकाशस्ताप एव मरौ जलम् ।
तेज एव यथालोको ब्रह्मैव त्रिजगत्तथा ॥ ३,९.३६ ॥
स्पष्टम् ॥ ३,९.३६ ॥
श्रीरामः पृच्छति
अत्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता ।
ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ॥ ३,९.३७ ॥
हे "मुने" । "जगद्दृश्यस्य" जगद्रूपस्य दृश्यस्य । "यया युक्त्या अत्यन्ताभावसम्पत्त्या" अत्यन्ताभावसम्पादनेन । "मुक्तता उदेति" । त्वम् "मम उत्तमां" निरतिशयाम् । "ताम्" युक्तिम् । "उपदिश" । जगद्विषयस्यात्यन्ताभावस्य मुक्ततासाधने कथं सामर्थ्यमस्तीत्यत्र युक्तिं कथयेति भावः ॥ ३,९.३७ ॥
ननु युक्तिमेव किं पुनः पुनः पृच्छसीत्यत्रोत्तरकथनपूर्वं प्रश्नान्तरं करोति
मिथः सम्पन्नयोर्द्रष्टृदृश्ययोरेकसङ्क्षये ।
द्वयाभावे स्थितिं याते निर्वाणमवशिष्यते ॥ ३,९.३८ ॥
दृश्यस्य जगतस्तस्मादत्यन्तानुद्भवो यथा ।
ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥ ३,९.३९ ॥
उक्तनीत्या "मिथः सम्पन्नयोः" यतः त्वयैवैतदुक्तमिति शेषः । यतः त्वया एव उक्तं "मिथः सम्पन्नयोः" उक्तनीत्या मिथः सिद्धयोः । "द्रष्टृदृश्ययोः" मध्ये । "एकसङ्क्षये" सति । ततः "द्वयाभावे स्थितिं याते" सति । "निर्वाणं" कैवल्यम् । "अवशिष्यते" । "तस्मात्" ततः कारणात् । "दृश्यस्य जगतः" दृश्यस्वरूपस्य जगतः । "अत्यन्तानुद्भवः" अत्यन्ताभावस्वरूपा अत्यन्तानुत्पत्तिः । "यथा" यया युक्त्या । "बुध्यते" ज्ञायते । "तथा ब्रह्म" जगद्भावेन बृंहितं शुद्धचित्तत्त्वम् । "इत्थं" जगद्रूपेण । "स्वभावस्थं" स्वरूपस्थम् । "यथा बुध्यते" । त्वं "तथा च मे वद" कथय ॥ ३,९.३८३९ ॥
रसावेशेनोन्मत्तवत्पुनरपि दृश्यात्यन्ताभावसिद्धियुक्तिं ब्रह्मणः इत्थंस्वभावावस्थितियुक्तिं च पृच्छति
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति । ।
एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते ॥ ३,९.४० ॥
"एतत्" अयं दृश्यात्यन्ताभावः इदं ब्रह्मणः इत्थंस्वभावावस्थानं च । ननु किमर्थमत्र पुनः पुनः प्रश्नान् करोषीत्य् । अत्राह "एतस्मिन्" इति । हे "मुने" । "एतस्मिन् सिद्धे" सति । "साध्यम्" साधनीयम् । "नावशिष्यते" अवशिष्टं न भवति । मुक्तिमात्रस्यैवाकाङ्क्षितत्वात्तस्य चानेनैव सिद्धत्वात् ॥ ३,९.४० ॥
श्रीवसिष्ठः उत्तरं कथयति
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका । ।
नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति ॥ ३,९.४१ ॥
"नूनं" निश्चये । "इयं मिथ्याज्ञानविषूचिका" शुद्धचिन्मात्रे दृश्यमिदमित्येवंरूपो ज्ञानविशेषः । "रूढा" मनसि सत्यत्वेन भाता । युक्तं च "मन्त्रेण" विषूचिकायाः उपशमनम् । "विचारश्" चात्र किंरूपमिदं दृश्यमित्येवंरूपो ज्ञेयः ॥ ३,९.४१ ॥
नन्वस्मिन् समये मया कृत एव लेशतो विचारः । तत्कथमिदं दृश्यं न शान्तमित्य् । अत्राह
न शक्यते झगित्येव समुच्छेदयितुं क्षणात् ।
समप्रयतने ह्यद्रौ समारोहावरोहणे ॥ ३,९.४२ ॥
"समुच्छेदयितुं" नाशयितुम् । उत्तरार्धेनैतत्समर्थयति "समे"ति । यथा कश्चित्पर्वताग्रमारूढः ततश्चावतरितुमिच्छन् "न झगित्येवा"वतरितुं शक्नोति । तथा चिररूढा दृश्यसत्यताप्रतीतिः "न झगिति" दूरीकर्तुं "शक्यते" इति बहुकालं विचारः कर्तव्य इति भावः ॥ ३,९.४२ ॥
युक्तिकथनं फलितत्वेन प्रतिजानीते
तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।
जगद्भ्रान्तिर्यथा शाम्येत्तथेदं कथ्यते शृणु ॥ ३,९.४३ ॥
"तस्मात्" ततो हेतोः । "अभ्यासयोगेन" विचाराभ्यासयुक्त्या । तथा "युक्त्या" स्वबुद्धिकृतया युक्त्या । तथा "न्यायोपपत्तिभिः" न्यायशास्त्रेषूक्ताभिः युक्तिभिः । "जगद्भ्रान्तिः" दृश्यस्वरूपजगद्भ्रमः । "यथा" येन प्रकारेण । "शाम्येत्" । "तथा" तेन प्रकारेण । "इदम्" वक्ष्यमाणं वाग्जालम् । मया "कथ्यते" । त्वं तत्"शृणु" श्रवणविषयं कुरु ॥ ३,९.४३ ॥
ननु तच्छ्रवणेन मम किं सेत्स्यतीत्य् । अत्राह
वदाम्याख्यायिकां राम यामिमां बोधसिद्धये ।
तां चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ॥ ३,९.४४ ॥
स्पष्टम् ॥ ३,९.४४ ॥
समनन्तरकृतां प्रतिज्ञां सम्पादयन् प्रकरणारम्भे प्रतिज्ञातं सविस्तरकथनं प्रस्तौति
अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते । ।
यः किलोत्पद्यते राम तेन मुक्तेन भूयते ॥ ३,९.४५ ॥
"अथ"शब्दः आनन्तर्यार्थः सङ्क्षेपकथनानन्तरतां द्योतयति । किमर्थमुत्पत्तिप्रकरणमेव प्रथमं कथ्यते इत्य् । अत्राह "यः किले"ति । अतः मुक्तिकथने प्रवृत्तैरस्माभिः उत्पत्तिप्रकरणकथनमेव कार्यम् । अन्यथा निराधारायाः मुक्तेः कथनमयुक्तं स्यादिति भावः ॥ ३,९.४५ ॥
विस्तरेण कथयिष्यमाणेऽस्मिन्नुत्पत्तिप्रकरणे त्वं किं कथयसीत्य् । अत्राह
इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका ।
इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना ॥ ३,९.४६ ॥
"इयम्" पुरःस्फुरणशीला । "जगद्भ्रान्तिः" जगदाकारः भ्रमः । "इत्थं" अनया युक्त्या । "अजाता एव" अनुत्पन्ना एव । अतः "खात्मिका" आकाशस्वरूपा सती । "भाति" स्फुरति । "इति" एतत् । "मया अधुना" "अस्मिनुत्पत्तिप्रकरणे कथ्यते" ॥ ३,९.४६ ॥
उत्पत्तिप्रकरणमेव कथयिष्यन् स्थूणानिखननन्यायेनोत्पत्तिमूलकारणभूतशुद्धचिन्मात्रप्रकटनार्थमादौ तदावरकप्रपञ्चलयं तावत्कथयति
यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् । ।
सर्वं सर्वप्रकाराढ्यं ससुरासुरकिंनरम् ॥ ३,९.४७ ॥
तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।
भवत्यसददृश्यं च क्वापि याति विनश्यति ॥ ३,९.४८ ॥
"किञ्चित्" अनिर्वाच्यस्वरूपम् । "सर्वप्रकाराढ्यं" समस्तभावाभावादिप्रकारयुक्तम् । "महाप्रलये" तुर्याख्ये अवस्थाविशेषे महाकल्पान्तसमये च । "रुद्रादिपरिणामिनि" रुद्रादिलययुक्ते । रुद्रोऽत्र अहङ्कारः संहाराधिकारी श्रीमहादेवो ज्ञेयः । "आदि"शब्देन बुद्ध्यादेः सृष्टिस्थित्यधिकारिणः विष्ण्वादेश्च ग्रहणम् । "अदृश्यम्" बाह्येन्द्रियागोचरम् । ननु कथम् "अदृश्यं च" "भवती"त्य् । अत्राह "क्वापी"ति । "क्वापि याति" अनिर्वाच्ये कस्मिन् चित्तत्त्वे एकतां याति । अन्यतया स्फुरतीति यावत् । अत एव "विनश्यति" अदर्शनं गच्छति । न हि भासमानस्य सर्वथा विनाशो युक्तः । शुक्तिकारजतस्यापि सर्वथा विनाशप्रसङ्गात् । न हि शुक्तिकारजतं सर्वथा विनश्यति । किं तु शुक्तिभावेन स्फुरति ॥ ३,९.४७४८ ॥
ननु भासमानस्यैतस्य जगतः नाशे किं शिष्यते । भासमानस्य शुक्तिकारजतस्य नाशे हि शुक्तिका शिष्यते इत्य् । अत्राह
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥ ३,९.४९ ॥
"ततः" दृश्यनाशानन्तरम् । "किञ्चित्" अर्थात्दृश्यविनाशसाक्षिस्वरूपं किमपि अनिर्वाच्यं वस्तु । "शिष्यते" शिष्टं भवति । अन्यथा भासमानस्य इयतः जगतः कुत्रावस्थानं स्यान् । न हि भासमानस्य विनाशो घटस्वरूपनाशवत्युक्तः । शुक्तिकारजतनाशवदन्यरूपतया स्फुरणमात्ररूपत्वात् । अन्यरूपतया स्फुरणं प्राधान्यं विना नोपपद्यत इति । "किञ्चित्" कथम्भूतम् । "स्तिमितगम्भीरम्" । "स्तिमितम्" चेत्यौन्मुख्याख्यस्पन्दरहितम् । "गम्भीरम्" स्वविषयावगाहित्रभावेनावगाहनक्रियाविषयत्वाभावेन च अवगाहितुमशक्यम् । तादृशं च तत्तादृशं चेति । पुनः कथम्भूतम् । "न तेजः" शुद्धचिन्मात्ररूपत्वेन जीवादिस्वरूपलौकिकचेतनव्यतिरिक्तमित्यर्थः । तथा "न तमः" जडपदार्थव्यतिरिक्तमित्यर्थः । अथ वा चिन्मात्ररूपत्वेन चेत्यस्वरूपबाह्यतेजस्तमोव्यतिरिक्तमिति ज्ञेयम् । पुनः कथम्भूतम् । सर्वत्रानुस्यूतम् । पुनः कथम्भूतम् । "अनाख्यम्" आख्याकर्तृत्वेनावस्थानाताख्याविषयत्वाभावाच्चाख्यातुमशक्यमित्यर्थः । पुनः कथम्भूतम् । "अनभिव्यक्तम्" बाह्यान्तःकरणागोचरत्वेन अप्रकटस्वरूपम् । कृतश्च पूर्वमेषां विशेषणानां हेतुहेतुमद्भावेन शृङ्खलाबन्ध इति न पुनरायस्तम् ॥ ३,९.४९ ॥
अवशिष्टतया प्रोक्तं वस्तु पुनरपि विस्तरेण विशिनष्टि
न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् ।
न च भूतपदार्थौघो यदनन्ततया स्थितम् ॥ ३,९.५० ॥
"अनन्ततया" अनन्तभावेन । "स्थितं यत्" वस्तु । "शून्यं न" भवति । तत्त्वे हि जगदधिष्ठानत्वमयुक्तं स्यात् । न हि शून्यं कस्यापि अधिष्ठानं दृष्टम् । तत्र भासमानस्य पिच्छिकादेः नायनरश्म्यधिष्ठानत्वात् । तथा "यत्" वस्तु । "आकाशं न" भवति । प्रोक्तन्यायेन शून्यव्यतिरिक्तत्वात् । आकाशस्य च शून्यैकमयत्वात् । "यत्दृश्यं न" भवति । केवलद्रष्टृस्वरूपत्वात् । "यत्" वस्तु । "दर्शनं न" भवति । द्रष्टृदृश्यानपेक्षसिद्धिकत्वात् । "यत्भूतपदार्थौघः न" भवति । तत्त्वे हि जडं स्यात् ॥ ३,९.५० ॥
किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति ।
न सन्नासन्न सदसन्नाभावो भवनं न च ॥ ३,९.५१ ॥
"पूर्णात्" पूर्णत्वेनाभिमताताकाशादेः । "पूर्णतराकृति" पूर्णतराकारम् । यत्वस्तु । "किमप्यव्यपदेशात्म" किमप्यनिर्वाच्यस्वरूपं भवति । तथा यत्"सत्न" भवति । [...] जगदधिष्ठानत्वायोगात् । तथा यत्"सदसत्न" भवति । उभयदोषप्रसङ्गात् । तथा यत्"अभावः न" भवति । तद्विरुद्धाभावतयाप्यवस्थानात् ॥ ३,९.५१ ॥
चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् ।
अनादिमध्यपर्यन्तं यदनाधि निरामयम् ॥ ३,९.५२ ॥
"यत्" एवंविधं भवति । एवंविधं कीदृगित्यपेक्षायामाह "चिन्मात्रम्" इत्यादि । "चिन्मात्रम्" केवलं चित्स्वरूपम् । अत एव "चेत्यरहितम्" चेत्यारूषितम् । "अनन्तम्" स्वान्तस्यापि साक्षित्वेन स्थितत्वात् । तत्र हि "अनादिमध्यपर्यन्तम्" आदिमध्यपर्यन्तव्यवस्थाकारिदेशकालभासकत्वातादिमध्यपर्यन्तरहितम् । "अनाधि" चित्ताभावेन तदाश्रिताधिरहितम् । "निरामयम्" भावाभावादिस्वरूपरोगरहितम् ॥ ३,९.५२ ॥
यस्मिञ्जगत्प्रस्फुरति दृष्टिमौक्तिकहंसवत् ।
यश्चेदं यश्च नैवेदं देवः सदसदात्मकः ॥ ३,९.५३ ॥
"यस्मिन्" वस्तुनि । "जगत्प्रस्फुरति" अधिष्ठेयतया विलसति । कथम् । "दृष्टिमौक्तिकहंसवत्" । दृष्टौ स्फुरितौ मौक्तिकहंसौ "दृष्टिमौक्तिकहंसौ" । ताविव तद्"वत्" । रोगवशेन हि दृष्ट्यवयवभूताः रश्मयः मौक्तिकभावेन हंसभावेन चाकाशे स्फुरन्ति । "सदसदात्मकः" सदसत्स्वरूपः । अनिर्वाच्य इति यावत् । "यः देवः" । "यः" क्रीडाशीलः द्योतनशीलश्"च" । "इदं" इदन्तया विषयीकृतं भावजातं भवति । सारभावेन स्थितत्वात् । "यः देवः इदं न" भवति । अहन्तासारत्वेन स्थितत्वात् ॥ ३,९.५३ ॥
अकर्णजिह्वोऽनासात्वङ्नेत्रः सर्वत्र सर्वदा ।
यः शृणोत्यास्वादयति जिघ्रन् स्पृशति पश्यति ॥ ३,९.५४ ॥
"अकर्णजिह्वः" श्रोत्रेन्द्रियरसनेन्द्रियरहितः । तथा "अनासात्वङ्नेत्रः" घ्राणेन्द्रियत्वगिन्द्रियनेत्रेन्द्रियरहितः । "यः सर्वत्र" सर्वदेशेषु । "सर्वदा" सर्वकालेषु । "शृणोति" समस्तशब्दश्रवणक्रियां करोति । "आस्वादयति" समस्तास्वादास्वादनक्रियां करोति । "जिघ्रन्" भवति । समस्तगन्धशिङ्घणक्रियां कुर्वन् भवति । "स्पृशति" सम्स्तस्पर्शस्पर्शनक्रियां करोति । "पश्यति" समस्तरूपदर्शनक्रियां करोति । समस्तदेशकालगतसमस्तप्रसादसमस्तेन्द्रियसारत्वेन स्थितत्वात्श्रवणादिक्रियाकर्तृत्वाभिमानग्रस्तसमस्तदेशकालगतसमस्तप्रमातृभावेन वा स्थितत्वात् । न चेन्द्रियसारत्वेन स्थितस्यास्यान्येन्द्रियापेक्षा युक्ता । इन्द्रियाणामिन्द्रियान्तरनैरपेक्ष्येण तत्सारस्यापि तद्वत्तदपेक्षायाः अयुक्तवात् । कल्प्यमानानामपि तेषामेतत्सारत्वं विना नकिञ्चिद्रूपत्वापत्तेः । एतत्सारत्वे तु एतस्यैव तद्भावेनापि स्थितत्वात् । सर्वप्रमातृभावेन स्थितत्वे अपि नेन्द्रियान्तरापेक्षा । तदिन्द्रियैरेवेन्द्रियमत्त्वेन इन्द्रियान्तराणामनुपयोगित्वात् ॥ ३,९.५४ ॥
स एव सदसद्रूपं येनालोकेन लक्ष्यते ।
सर्गचित्रमनाद्यन्तं खरूपं चाप्यरञ्जनम् ॥ ३,९.५५ ॥
"स एव" चिन्मात्रस्वरूपः सन् द्रष्टृतामापन्नः स एव । न त्वन्यः कश्चित् । "येनालोकेन" यत्स्वरूपेण । "सर्गचित्रं" जगद्रूपं चित्रम् । चित्प्रकाशेन "लक्ष्यते" दृश्यते । चिदालोकं विना द्रष्टुः जगद्दर्शनासम्भवात् । कथम्भूतं "सर्गचित्रं" । "सदसद्रूपं" । फलतः सदसद्भ्यामनिर्वचनीयम् । पुनः कथम्भूतम् । "अनाद्यन्तम्" अनाद्यन्तचिन्मात्रसारत्वेनाद्यन्तरहितमित्यर्थः । पुनः कथम्भूतं "च" । "खरूपं च" । आभासमात्ररूपत्वेन स्वप्नवताकाशरूपं चेत्यर्थः । पुनः कथम्भूतम् । "अरञ्जनम्" भासमानाभिः भावाभावरञ्जनाभिः शुद्धत्वेन परमार्थतो मुक्तमित्यर्थः । "अपि"शब्दः पादपूरणार्थः ॥ ३,९.५५ ॥
अर्धोन्मीलितदृग्भ्रूभूमध्यतारकवज्जगत् ।
व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ॥ ३,९.५६ ॥
"यः स्वरूपं" चिन्मात्राख्यं स्वभावम् । "जगत्" नश्वरचेत्यरूपम् । "पश्यति" स्वगोचरीकरोति । कथम्भूतम् "जगत्" । "व्योमात्मैव" परमार्थतो जगद्रूपताभावात्नकिञ्चिद्रूपमेव । पुनः कथम्भूतम् । "सदाभासं" सदिवाभासत इति "सदाभासम्" । परमार्थतो न सदित्यर्थः । कथं "पश्यति" । "अर्धोन्मीलितदृग्भ्रूभूमध्यतारकवत्" । अर्धमुन्मीलिता दृक्येन । सः "अर्धोन्मीलितदृक्" । "भ्रुवौ" एव "भूः" स्थानम् । तस्या मध्यं "भ्रूभूमध्यं" । अर्धोन्मीलितदृशः भ्रूभूमध्ये भासमाना या "तारका" । तद्"वत्" । अर्धोन्मीलितनेत्रः पुरुषः स्वभ्रूमध्ये स्वदृष्टिरश्मिमेव तारकाकारां यथा पश्यति । तथेत्यर्थः । अभिनयगम्यश्चार्थः ॥ ३,९.५६ ॥
यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् ।
यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः ॥ ३,९.५७ ॥
"यस्य विभोः कारणं ना"स्तीत्यर्थः । ननु कथं नास्य कारणमस्ति । सत्यम् । तत्कारणं चिद्रूपमचिद्रूपं वा । नान्त्यः चिद्रूपं प्रति अचिद्रूपकारणत्वायोगात् । आद्ये तु स एव चिद्रूपः चिद्रूपस्य स्वस्य कारणं कथं स्यात् । इति सर्वस्य जगतः तत्कार्यत्वं कथयति "यस्येदम्" इति । जगतः चिन्मात्रकार्यत्वं स्वप्नजगद्वज्ज्ञेयम् ॥ ३,९.५७ ॥
ज्वलतः सर्वतोऽजस्रं चित्तस्थालीषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥ ३,९.५८ ॥
"यस्य चिन्मात्रदीपस्य" । दीपत्वं चास्य प्रकाशकत्वेन ज्ञेयम् । "भासा" इन्द्रियद्वारनिर्गतया चित्प्रभया । "जगत्त्रयम्" अवस्थात्रये भासमानं प्रपञ्चत्रयम् । "भाति" स्फुरति । कथम्भूतस्य । "सर्वतः" सर्वत्र । "ज्वलतः" सर्वं प्रकटयितुं समर्थस्येत्यर्थः । पुनः कथम्भूतस्य । "चित्तस्थालीषु" चित्तरूपेषु पात्रेषु । "तिष्ठतः" सारभावेन स्थितवतः । युक्तं च दीपस्य पात्रेष्ववस्थानम् । यद्यपि सुषुप्तौ चित्तं लीयत एव तथापि बीजत्वेनात्रास्यावस्थानातेवमुक्तम् । बहिरपि भूर्भुवस्स्वराख्यं जगत्त्रयं चित्तेनैव भाति ॥ ३,९.५८ ॥
यं विनार्कादयोऽप्येते प्रकाशास्तिमिरोपमाः ।
सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥ ३,९.५९ ॥
"यं विना" चक्षुरिन्द्रियसारभावेन स्थितं यं विना । "एते" दृश्यमानाः । "अर्कादयोऽपि तिमिरोपमा" अन्धकारसदृशाः । भवन्ति । चक्षुषा अप्रकाशिताः सूर्यादयो हि स्फुटमेवान्धकारसदृशा एव । "सती"ति । यथा सूर्यसन्निधाने "मृगतृष्णिकाः प्रवर्तन्ते" । तथा यत्सन्निधाने "त्रिजगद्" इत्यर्थः ॥ ३,९.५९ ॥
सस्पन्दे समुदेतीव निःस्पन्देऽन्तर्गतेव च ।
इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ॥ ३,९.६० ॥
"यस्मिन् सस्पन्दे" दृश्यौन्मुख्याख्यस्पन्दयुक्ते सति । "जगल्लक्ष्मीः समुदेतीव" । "निःस्पन्दे" सति । "अन्तर्गतेव" तदन्तर्गतेव "च" भवति । परमार्थतो नोदेति नान्तर्गच्छतीति "इव"शब्दोपादानम् । कस्मिन्न् "इवालात इव" । यथ्"आलाते सस्पन्दे" भ्रामिते सति । "चक्रता" चक्राकारत्वम् । "उदेति" । "अस्पन्दे" सति । अलात्"आन्तर्गतेव" भवति । तथेत्यर्थः ॥ ३,९.६० ॥
जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥ ३,९.६१ ॥
"जगन्निर्माणविलयविलासः" जगत्सृष्टिसंहारविलासः । "यस्याक्षयः" नाशरहितः । "निर्मलः" भेदमालिन्यादूषितः । "महान्" महत्त्वयुक्त । अत एव "व्यापकः" । "स्वभावः" स्वरूपमेव । भवति । न त्वन्यत् । कथम् । सृष्टिसंहारविलासः चेत्यमानोऽचेत्यमानो वा इत्येतस्यासत्कल्पत्वादलं तच्चिन्तयाद्ये चिद्विषयतया चिदन्तर्गतत्वात्तद्रूप एवेति न विरोधः । कथम्भूतः । "स्पन्दास्पन्दात्मकः" स्पन्दास्पन्दस्वरूपः । तत्र सृष्टिविलासः स्पन्दमयः । अस्पन्दमयः संहारविलासः ॥ ३,९.६१ ॥
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ॥ ३,९.६२ ॥
"यस्य स्पन्दास्पन्दमयी सत्ता" । चेत्यौन्मुख्ययुक्ता सत्ता स्पन्दमयी । तद्रहित्"आस्पन्दमयी" । "व्यवहारान्नाम्नैव" व्यवहारार्थं कृतेन नाम्ना एव । "भिन्ना इव" । कथम्भूता । "सर्वगा" विश्वे तदुत्तीर्णे च स्वरूपे गता । कस्य्"एव" । "पवनस्येव" । "पवनस्य" स्पन्दमयी सत्ता यया वृक्षादयः कम्पन्ते ।ऽस्पन्दमयी आकाशस्वरूपा । ननु कथं स्पन्दास्पन्दमय्याः सत्ताया एकत्वम् । सत्यम् । सस्पन्दस्य निःस्पन्दस्य च जलस्यैकत्वं यथा निपुणैर्निश्चीयते तथात्रापीति न विरोधः ॥ ३,९.६२ ॥
सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।
न प्रसुप्तो न बुद्धश्च यः सर्वत्रैव सर्वदा ॥ ३,९.६३ ॥
"यः सर्वदैव" सर्वासु दशास्वेव । "प्रबुद्धः" साक्षितयावस्थानात्प्रकृष्टज्ञानयुक्त एव । "यः सर्वदा एव सुप्तश्" च । तत्परामर्शरहितत्वात्सुप्तिं गतश्च भवति । "यः सर्वत्रैव" सर्वदेशेषु एव । "सर्वदा" सर्वावस्थाविशेषेषु । "प्रसुप्तो न" भवति । नित्यं बोधरूपत्वात् । "बुद्धश्च न" भवति । उपेक्षया स्वपरामर्शेऽपि विमुखत्वात् ॥ ३,९.६३ ॥
यदस्पन्दः शिवं शान्तं यत्स्पन्दस्त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥ ३,९.६४ ॥
इति । "यदस्पन्दः" यच्चेत्यौन्मुख्यराहित्यम् । "शान्तं" क्षोभरहितम् । "शिवम्" आनन्दः । भवति । "यत्स्पन्दः" यच्चेत्यौन्मुख्यम् । "त्रिजगत्स्थितिः" त्रिजगत्सत्ता । भवति । "यः एकः स्पन्दास्पन्दविलासात्मा" चेत्यौन्मुख्यतायुक्ततद्रहितस्वरूपः । भवति । कथम्भूतः । "भरिताकृतिः" । "भरिता" सर्वमयी । "आकृतिः" स्वरूपं यस्य । तादृशः । एकस्य युगपत्स्पन्दमयत्वं वैचित्र्यावहम् ॥ ३,९.६४ ॥
आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटेष्विव ॥ ३,९.६५ ॥
यः "विनाशिषु" पदार्थेषु । "न नश्यति" तन्नाशेऽपि तदुपादानतया सूक्ष्मत्वेनावस्थानात् । न हि घटे नष्टेऽपि तदपेक्षया सूक्ष्ममुपादानभूतं मृत्स्वरूपं नश्यति । क "इवामोद इव" । यथा "पुष्पे" नष्टेऽपि तदामोदः आकाशे भ्राम्यन् किञ्चित्कालं "न नश्यति" । तथेत्यर्थः । यः "अग्राह्यः" केनापि बाह्येनान्तरेण वेन्द्रियेण ग्रहीतुं शक्यो न भवति । कथम्भूतो "ऽपि" । "प्रत्यक्षस्थोऽपि" प्रत्यक्षे वर्तमानोऽपि । न हि कस्यचित्स्वात्माप्रत्यक्षः नाहमत्रास्मीति । किम् "इव" । "शौक्ल्यमिव" । यथा पटे वर्तमानं शुक्लत्वं प्रत्यक्षमपि न हस्तेन ग्राह्यं भवति । तथेत्यर्थः ॥ ३,९.६५ ॥
मूकोपमोऽपि यो वक्ता मन्ता योऽप्युपलोपमः ।
यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिञ्चन ॥ ३,९.६६ ॥
"यः वक्ता" भवति । सर्ववक्तृरूपतया स्थितत्वात् । कथम्भूतो "ऽपि" । "मूकोपमोऽपि" मूकोपमत्वं चास्य निर्विकल्पत्वात् । "यः मन्तापि" ज्ञाता । न हि तं विना कोऽप्यन्यो मन्ता नाम स्यात् । "उपलोपमः" भवति । चिन्मात्रस्वरूपत्वेन मन्तृत्वलेपरहितत्वात् । "यः नित्यतृप्तोऽपि" परानन्दरूपत्वेन सर्वदैव स्वेनैव तृप्तोऽपि । "भोक्ता" भवति । भोक्तुः तद्रूपतानपायात् । "यः कर्तापि" सर्वकर्तॄणां सामर्थ्यापादकत्वेन कर्तृत्वमापन्नोऽपि । "अकिञ्चन" भवति । किञ्चनात्र कर्ता ज्ञेयः । कर्तातो न भवतीत्यर्थः । अकर्तृत्वं चास्य नकिञ्चनत्वेनैव ज्ञेयम् । कर्तृत्वस्य किञ्चिद्रूपत्वात् ॥ ३,९.६६ ॥
योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।
न किञ्चित्संस्थितेनापि येन व्याप्तमिदं जगत् ॥ ३,९.६७ ॥
"यः अनङ्गोऽपि" शुद्धचिन्मात्रत्वेनाङ्गरहितोऽपि । "समस्ताङ्गो" भवति । "यः" कथम्भूतः । "सहस्रकरलोचनः" । "सहस्र"पदमत्रानन्ततावाचकम् । तेन अनन्तकरलोचन इत्यर्थः । अनन्तकरलोचनत्वं चास्यानन्तदेहे स्वात्मभूततया ज्ञेयम् । "सहस्रे"ति विशेषणद्वारेण हेतुः । तथा "येन" सर्वम् "इदं व्याप्तम्" । अन्यथा किंमयमेतत्स्यादिति भावः । "येन" कथम्भूतेन्"आपि" । "न संस्थितेनापि" कुत्रापि न वर्तमानेनापि । कथम् । "किञ्चित्" लेशेनापीत्यर्थः । नसंस्थितत्वं वास्य ग्रहीतुमशक्यत्वात् ॥ ३,९.६७ ॥
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मनसोऽप्येता मनोनिर्माणरीतयः ॥ ३,९.६८ ॥
"यस्याशेषेन्द्रियक्रियाः" भवन्ति । कथम्भूतस्य्"आपि" । "निरिन्द्रियबलस्यापि" । अशेषेन्द्रियक्रियत्वमस्येन्द्रियसाररूपतया । "यस्य निर्मनसोऽपि" निर्विकल्पचिन्मात्रतया मनोरूपस्यापि । "मनोनिर्माणरीतयः" भवन्ति । अन्यथा येन तेन रूपेण भासमानानामासां कुत उत्थानं स्यात् ॥ ३,९.६८ ॥
यदनालोचनाद्भान्ति संसारोरगभीतयः ।
यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः ॥ ३,९.६९ ॥
"यदनालोचनात्" यद्विषयसम्यग्ज्ञानाभावात् । "संसारोरगभीतयः" संसाराख्यसर्पोद्भवानि भयानि । "भान्ति" विलसन्ति । यथा रज्जुसम्यग्ज्ञानाभावातुरगभीतयः स्फुरन्तीत्य्"उरग"पदाभिप्रायः । परमात्माज्ञानादेव हि तस्मिन् संसारः तद्भीतयश्च "भान्ति" । "यस्मिन्" परमात्मनि । "दृष्टे" स्वरूपत्वेनानुभूते सति । "सर्वथा" सर्वप्रकारेण वर्तमाना । "ईतयः" बाधाः । "सर्वदा" सर्वकालेषु । "पलायन्ते" दूरे गच्छन्ति । ईतीनां पलायनमीतिरूपताविपर्ययेण परमात्मरूपताज्ञानमेव । तासामपि परमार्थतः तद्रूपत्वात् ॥ ३,९.६९ ॥
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन् प्रवर्तन्ते चित्रेहाः स्पन्दपूर्विकाः ॥ ३,९.७० ॥
"साक्षिणि" सर्वासां स्तैमित्यस्पन्दावस्थानां ग्राहकत्वेन साक्षिभूते । "स्फारे" व्यापके । "आभासे" स्फुरत्तैकसारे । "ध्रुवे" उदासीने । "यस्मिन् सति" सन्निधिमात्रं भजति सति । "चित्रेहाः" नानाविधाः मनोव्यापाराः । कथम्भूताः । "स्पन्दपूर्विकाः" शरीरचेष्टाः । "प्रवर्तन्ते" । तत्सहिता इत्यर्थः । असति आन्तरे कस्मिन् चित्तत्त्वे विकल्पानां शरीरचेष्टानां चोत्थानं युक्तं न स्यादिति भावः । का "इव" । "क्रिया इव" लोकक्रिया इव । यथा "दीपे" सन्निधिमात्रं भजति लोकक्रिया स्वयमेव प्रवर्तन्ते । तथेत्यर्थः ॥ ३,९.७० ॥
यस्माद्घटपटाकारपदार्थशतपङ्क्तयः ।
तरङ्गकणकल्लोलवीचयो वारिधेरिव ॥ ३,९.७१ ॥
"यस्माद्" उपादानभूतात् । यतः "घटपटाकारपदार्थशतपङ्क्तयः" घटपटस्वरूपाः पदार्थशतसमूहाः । भवन्ति । यद्यपि परमाण्वादेरेवोपादानत्वमन्यैरुक्तं तथापि चेतनान् प्रति तस्योपादानत्वाभावात्किमपि चेतनाचेतनस्वरूपमुपादानं कल्प्यमिति न विवादः । का "इव" । "तरङ्गकणकल्लोलवीचय इव" । यथा ताः अम्बुधेः भवन्ति । तथेत्यर्थः ॥ ३,९.७१ ॥
स एवान्यतयोदेति यः पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥ ३,९.७२ ॥
"स एव" चिदाख्योऽपूर्वरूपेण वर्तमान एव्"आन्यतया"न्यस्वरूपेण्"ओदेति" उदयं यात्य् । अन्यस्वरूपतामिव भजत इत्यर्थः । कैः कृत्वा । "पदार्थशतभ्रमैः" पदार्थशतरूपाः भ्रमाः । तैः । पदार्थशतैरित्यर्थः । "शत"पदं चात्रानन्ततापरम् । किम् "इव" । "काञ्चनमिव" । यथा "काञ्चनं" । तदेव "कटकाङ्गदकेयूरनूपुरैर्" उदेति । तथेत्यर्थः ॥ ३,९.७२ ॥
यस्त्वमेकावभासात्मा योऽहमेते जनाश्च ये ।
यश्च न त्वमबुद्धात्मन्नाहं नैते जनाश्च यः ॥ ३,९.७३ ॥
हे "अबुद्धात्मन्" अद्य तावतज्ञातपरमात्मतत्त्व । "एकावभासात्मा" केवलज्ञानस्वरूपः । "यः त्वम्" उपदेश्यभूतः अस्ति । त्वत्तया भातीत्यर्थः । "यः अहम्" उपदेशकभूतः अस्ति । मत्तया भातीत्यर्थः । "यश्च य एते जनाः" अस्ति । तत्तया भातीत्यर्थः । सर्वत्र सारतया स्थितत्वात् । ननु परिच्छिन्न एव तर्ह्यसौ नेत्याह "यश्चे"ति । त्वत्तादिविकल्परहितशुद्धचिन्मात्ररूपेण परमार्थतः स्थितत्वादित्यर्थः ॥ ३,९.७३ ॥
अन्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः ॥ ३,९.७४ ॥
"भङ्गुरा" नश्वरस्वभावा । "दृश्यभूः" । "दृश्यं" दृशिक्रियाविषयो भावजातम् । तदेव "भूः" नानारचनाधारत्वात्भूमिः । "सा यस्मिन्न्" आधारभूते । "स्फुरति" विलसति । चित्स्वरूपस्य दृश्याधारत्वं स्वप्नदृष्टान्तेन ज्ञेयम् । कथम्भूत्"ऐवाव्यतिरिक्तैव" ततो व्यतिरेकमनापन्नैव । "अन्येवा"न्यवत् । भासमानेत्यर्थः । अव्यतिरिक्तस्यान्यताभासनं वैचित्र्यावहम् । व्यतिरेकाभावेऽपि जातिव्यक्त्योरिव ऐक्याभावमाशङ्क्य तन्मयतां कथयति "सैवे"ति । "सैव" न तु लेशेनाप्यतद्रूपतामती । "असेव" अतद्वद्भासमाना । क्"एव" । "तरङ्गालीव" । तरङ्गाल्याः च "पयसि" तद्रूपतायामप्यतद्रूपतयेव भासनं सर्वप्रतीतिसिद्धमेव ॥ ३,९.७४ ॥
यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन येन भासां विभासनम् ॥ ३,९.७५ ॥
"कालस्य" वर्तमानाद्युपाध्यसहितस्य वस्तुनः । "यतः कलना" कल्पना भवति । न ह्यान्तरं कल्पयितारं विना कालस्य कल्पना युक्तेति भावः । "यतः दृश्यस्य दृश्यता" भवति । न हि द्रष्टारं विना दृश्यस्य दृश्यत्वमुपपद्यते । "येन मानसी कलना" भवति । न हि साक्षिणं विना मनोऽपि सिध्यति । "येन भासां" घटादिज्ञानानाम् । "विभासनं" स्फुरणम् । भवति । न हि ज्ञातारं विना ज्ञानान्युत्पद्यन्ते ॥ ३,९.७५ ॥
क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् ।
यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥ ३,९.७६ ॥
"क्रियाम्" इत्यनेन "वेत्सी"त्यस्य स्थाने करोषीत्येतत्सम्बन्धनीयम् । तेनायमर्थः । त्वम् । "क्रियां यत्" करोषि । "तत्" करणम् । "अपि असौ" पूर्वोक्तः । "देवः" क्रीडाकारी । भवति । "येन" कर्मेन्द्रियेण करोषि । "तत्" कर्मेन्द्रियम् । "अप्यसौ देवः" भवति । तथा "रूपं रसं गन्धं स्पर्शं शब्दं यद्वेत्सि तद्" वेदनम् । "असौ देवः" भवति । "येन" धीन्द्रियपञ्चकेन "वेत्सि तदप्यसौ देवः" भवति । तथा "चेतनम्" सङ्कल्पादिकम् । "यद्वेत्सि तदसौ देवः" भवति । "येना"न्तःकरणेन । "वेत्सि तदप्यसौ देवः" भवति । एतेन क्रियाफलस्य तत्करणस्य च तन्मयता कथिता । कर्तुस्तु सा निर्विवादसिद्धैव ॥ ३,९.७६ ॥
एवं विशेषणद्वारेण तत्स्वरूपमुक्त्वा तत्प्रवेशोपायमाह
द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् ।
साधो तदवधानेन स्वात्मानमवबुध्यसे ॥ ३,९.७७ ॥
हे "साधो" परमात्मबोधार्ह । त्वं "तदवधानेन" तत्रावधानदानेन । "स्वात्मानं" स्वरूपभूतं परमात्मानम् । "अवबुध्यसे" जानासि । तत्र कुत्र । "द्रष्टृदर्शनदृश्यानां" त्रयाणाम् । "मध्ये" । "यद्दर्शनं स्थितं" भवति । अयमत्र निर्णयः । सर्वो व्यवहारः तावत्त्रिपुट्यामेव सम्पद्यते । तत्र "द्रष्टा" कर्ता । "दर्शनं" क्रिया । "दृश्यम्" आलम्बनभूतं कर्म । यद्विषया क्रियोत्पद्यते । करणं त्वसाधारणकारणरूपमेतेभ्यो न व्यतिरिच्यते । सामग्र्या एव करणत्वात् । तत्राहं द्रष्टेत्यभिमानग्रस्ताद्द्रष्टुः ग्राह्यैकरूपदृश्यविषयं दर्शनमुत्पद्यते ।ऽन्यथा तयोः द्रष्टृदृश्यतायोगात् । द्रष्टाभिमानग्रस्तत्वान्न झगिति शुद्धीकर्तुं शक्यते । दृश्यं त्वत्यन्तजडतया तत्तुल्ययोगक्षेममेवातः तौ हित्वा दर्शन एवावधानं विहितम् । ननु दर्शनमप्याश्रयविषयदोषेण दूषितम् । नतरां शुद्धीकर्तुं शक्यते । सत्यम् । द्रष्टरि स्थिताया अहन्तायाः दृश्यस्थायाः जडतायाश्च निवारणमशक्यमेव । लेशत उभयस्पर्शदूषितस्य दर्शनस्य तु अंशभावेन स्थितदोषद्वयनिवारणं सुशकमेव । तत्रेयं रीतिः । दर्शनं मद्रूपं नास्ति । स्फुटं मद्व्यतिरिक्तत्वात् । मद्व्यतिरिक्तत्वं चास्य द्रष्टृत्वाभावात्दृश्यरूपमपि नास्ति । ग्राहकत्वात् । अतः ताभ्यां व्यतिरिक्तं किमपि ग्रहीतुमशक्यमव्यपदेश्यं दर्शनं नामास्तीति सिद्धा दर्शनस्य परमात्मरूपता । ततो द्रष्टृदृश्ययोश्च सा सिद्धतरैव । न हि दर्शनसम्बन्धविलये
द्रष्टृदृश्ययोः स्थितिः सम्भवति । दर्शनाश्रयत्वेनैव द्रष्टुर्द्रष्टृत्वात् । तद्विषयत्वेन च दृश्यस्य दृश्यत्वात् । अथवा "दर्शनम्" अत्र दर्शनेच्छाकालीनं ज्ञेयम् । तद्धि तदा आश्रयविषयोपरागाभावेन शुद्धतयैव स्फुरति । पश्चात्तु स्थूलतां याति ॥ ३,९.७७ ॥
पूर्वोक्तं सर्गान्तश्लोकेन सङ्गृह्णाति
अजमजरमजाड्यं शाश्वतं ब्रह्म नित्यं
शिवममलमनाद्यं वन्ध्यवेद्यैरनिन्द्यम् ।
सकलकलनशून्यं कारणं कारणानाम्
अनुभवनमवेद्यं वेदनं वित्त्वमन्तः ॥ ३,९.७८ ॥
"वित्त्वं" वेत्तीति यावत् । "अन्तः" भवति । सर्वस्य दृश्यजातस्य पर्यवसानरूपं भवति । महाप्रलये शिष्यते इति यावत् । कथम्भूतम् । "अजम्" सर्वदैव वर्तमानत्वात् । "अजरं" शरीरव्यतिरिक्तत्वात् । "अजाड्यं" मनोव्यतिरिक्तत्वात् । "शाश्वतं" विश्वात्मकत्वेऽपि स्वरूपादच्युतत्वात् । "ब्रह्म" जगद्रूपेण बृंहणात् । "नित्यं" कालत्रयानपायित्वात् । "शिवं" सुखैकरूपत्वात् । "अमलं" भेदमालिन्यरहितत्वात् । "अनाद्यं" कस्यापि तदाद्यत्वेनावर्तमानत्वात् । "वन्ध्यवेद्यैः" व्यर्थवेद्यैर् । "अनिन्द्यम्" अकदर्थितम् । तत्स्थैर्भावाभावैरदूषितत्वात् । "सकलकलनशून्यं" निर्विकल्पस्वरूपत्वात् । "कारणानां" कारणत्वेनाभिमतानां ब्रह्मादीनाम् । "कारणं" । तेषामप्याकृतिमत्त्वेन सकारणत्वात् । "अनुभवनम्" अनुभवस्वरूपम् । अनुभव एव पूर्वोक्तविशेषाणां सम्भवात् । अनुभवस्वरूपत्वेऽपि वेद्यमालिन्यमाशङ्क्याह्"आवेद्यम्" इति । "अवेद्यं" वेद्यस्पर्शादूषितम् । "वेदनम्" । अचेत्यचिद्रूपमिति यावत् । इति शिवम् ॥ ३,९.७८ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे नवमः सर्गः ॥ ३,९ ॥