मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १४

← सर्गः १३ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः १५ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओम् । एवं जगतोऽत्यन्ताभावं परमात्मैकमयतां च पुनः पुनः उक्त्वा तावन्मात्रमेव साधनीयं ज्ञात्वा पुनरपि तदेव कथयति

इत्थं जगदहन्तादि दृश्यं जातं न किञ्चन ।

अजातत्वाच्च नास्त्येव यच्चास्ति परमेव तत् ॥ ३,१४.१ ॥

"अहन्तादि" अहन्ताप्रभृति । "दृश्यं जगतित्थं" पूर्वप्रकारेण । "किञ्चन" लेशेनापि । "न जातं" भवति । ततः किमित्य् । अत्राह "अजाते"ति । जगत्"अजातत्वात्" । "च"शब्दः पादपूरणार्थः । "नास्त्येव" । ननु कथमजातत्वेन जगतोऽसत्त्वं साधयसि भासमानत्वेन सत्त्वादित्य् । अत्राह "यच्चे"ति । "तत्परमेव" उत्तीर्णं चिन्मात्रमेव । भवति । न तु जगत् । "तत्" किम् । "यतस्ति" यत्भासमानत्वेन निराकर्तुं न शक्यत इत्यर्थः ॥ ३,१४.१ ॥

 

 

 

ननु तर्हि पूर्वं साधिता जीवता कथमस्तीत्य् । अत्राह

परमाकाश एवासौ जीवतां चेतति स्वयम् ।

निःस्पन्दाम्भोधिजठरे सलिलं स्पन्दतामिव ॥ ३,१४.२ ॥

"असौ" पूर्वोक्तः । "परमाकाश एव" चिन्मात्राकाश एव । "स्वयं" स्वेन । "जीवतां" जीवभावम् । "चेतति" अनुभवति । किम् "इव" । "सलिलमिव" । यथा "निःस्पन्दाम्भोधिजठरे" निःस्पन्दसमुद्रमध्ये । स्थितं जलं "स्पन्दतां" । "स्पन्द"शब्देनात्र स्पन्दयुक्तो लक्ष्यते । स्पन्दयुक्तताम् । "चेतति" । चेतनं चात्र तद्योग्यतामात्रमेव । न हि तत्र सलिलस्य सस्पन्दता केनाप्यंशेन युक्ता । एवं ब्रह्मण्यपि जीवतायोग्यत्वमात्रमेव । न तु तत्र जीवता नाम काचिदस्ति । सलिलेऽग्रे सस्पन्दतायुक्तत्वात्योग्यताज्ञानम् । ब्रह्मणि जीवरूपतया भासनेनेति विशेषः ॥ ३,१४.२ ॥

 

 

 

एतदेव नानाभङ्गीभिः प्रतिपादयति

आकाशरूपमजहदेव वेत्तीव दृश्यताम् ।

स्वप्नसङ्कल्पशैलादाविव चिद्वृत्तिरान्तरी ॥ ३,१४.३ ॥

असौ परमाकाशः "दृश्यताम्" दृश्यभावम् । "वेत्ति इव" अनुभवति इव । कथम्भूत "एव" । "आकाशरूपं" चिन्मात्राकाशाख्यं रूपम् । "अजहदेव" । तत्त्यागे तु वेदनमस्य न स्यादिति भावः । क्"एवान्तरी" अहम्परामर्शस्य सारभूतान्तःकरणोपहिता । "चिद्वृत्तिरिव" सा यथा । "स्वप्नसङ्कल्पशैलादौ" स्वप्ने सङ्कल्पे च स्वविषयीकृते स्वस्वरूपपर्वतादौ स्थिताम् । "दृश्यतां वेत्ति" । शैलोऽयमिति । तथेत्यर्थः ॥ ३,१४.३ ॥

 

 

 

पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् ।

आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥ ३,१४.४ ॥

"पृथ्व्यादिरहितः" स्थूलपृथ्व्यादिस्पर्शादूषितः । "विराडात्मनः" विराट्स्वरूपतया स्थितस्य परमात्मनः । "महान्" व्यापकः । "यो देहो"ऽस्ति । सः "आतिवाहिक एव" सूक्ष्म एव । भवति । अत्र हेतुत्वेन विशेषणमाह "चिन्मात्रे"ति । यतः चिन्मात्राख्यनिर्मलाकाशस्वरूपः । चिन्मात्रमयस्य शरीरस्यातिवाहिकत्वं स्वप्ने दृष्टमिति नायस्तम् ॥ ३,१४.४ ॥

 

 

अक्षयस्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।

चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः ॥ ३,१४.५ ॥

अनिखातमहास्तम्भपुत्रिकौघसमोपमः  ।

ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे सालभञ्जकः  ॥ ३,१४.६ ॥

आद्यः प्रजापतिः पूर्वं स्वयम्भूरिति विश्रुतः  ।

प्राक्तनानां स्वकार्याणामभावादपकारणः ॥ ३,१४.७ ॥

"आद्यः" कारणभूतः । "स्वयम्भूरिति विश्रुतः" । स्वयम्भूरिति नाम्ना प्रसिद्धः । "प्रजापतिः" । "पूर्वं" सर्गारम्भे । "अपकारणः" कारणरहितः । भवति । कुतः । "प्राक्तनानां स्वकार्याणां" पूर्वकल्पकृतकर्मणाम् । "अभावात्" । कर्मणां च जन्महेतुत्वं सर्वशास्त्रेषु प्रसिद्धमेव । कार्याणामभावश्चास्य चिन्मात्रतः सद्य उत्थितत्वेन ज्ञेयः । किंरूपोऽसौ । "अक्षय" इत्यादि । "अक्षयः" इतरस्वप्नशैलवत्क्षणिकत्वदोषरहितः यः स्वप्नशैलः । तद्वदाभा यस्य । स "अक्षयस्वप्नशैलाभः" । "स्थिरस्वप्नपुरोपमः" । इतरस्वप्नपुरवैलक्ष्येण "स्थिरं" स्थिराकारम् । यत्"स्वप्नपुरं" । तस्य्"ओपमा" यस्य । सः । एतेन विशेषणद्वयेनातिवाहिकतायामप्यस्य स्थिरतोक्ता । चित्रकृति स्थितं चित्तं "चित्रकृत्स्थितचित्तं" । तत्र"स्थं" यत्"चित्रसैन्यम्" अग्रे प्रकटीभवदालेख्यसैन्यम् । तेन "समाकृतिः" स्वरूपं यस्य । सः "चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः" । "अनिखातो"ऽनुत्कीर्णः । यः "महास्तम्भपुत्रिकौघः" । तेन "समा उपमा" यस्य । सः "अनिखातमहास्तम्भपुत्रिकौघसमोपमः" । "ब्रह्माकाशे सुस्तम्भे" "अनिखातात्मा" अनुत्कीर्णस्वरूपः । "सालभञ्जकः" महती पुत्रिका । "अनिखाते"ति विशेषणस्यैवेयं व्याख्या । एतेन विशेषणद्वयेन ब्रह्मैकमयतास्योक्ता ॥ ३,१४.५७ ॥

 

 

 

महाप्रलयपर्यन्तेष्वाद्याः किल पितामहाः ।

मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥ ३,१४.८ ॥

"सर्वे एव आद्याः पितामहाः महाप्रलयपर्यन्तेषु" । "पर्यन्त"शब्देनात्र उद्रेकता विवक्षिता । "मुच्यन्ते" चिन्मात्राख्ये स्वरूपे लयीभवन्ति । फलितमाह्"आतः" इति । "अतो" हेतोः । "तेषु" सर्वेषु आद्येषु पितामहेषु । "प्राक्तनं कर्म किं" भवति । न किञ्चिदपीत्यर्थः । तथा च । सर्वेऽपि तेऽपकारणा एवेति भावः ॥ ३,१४.८ ॥

 

 

मोक्तव्य एव कुड्यात्मा दृश्योऽदृश्यश्च संस्थितः ।

न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥ ३,१४.९ ॥

प्रतिच्छन्दः पदार्थानां सर्वेषामेष एव सः ।

अस्मादुदेति जीवाली दीपाली दीपकादिव ॥ ३,१४.१० ॥

"एष स एव" पूर्वोक्तः प्रजापतिरेव । "सर्वेषां पदार्थानां प्रतिच्छन्दः" समष्टिरूपः आभासः । भवति । सर्वेषामाभासानामेतत्स्वरूपत्वात् । कथम्भूतोऽसौ । "मोक्तव्य एव" मोक्तुं मध्ये गन्तुं शक्य एव । "कुड्यात्मा" । "कुड्यं" हि रोधकत्वेन मध्ये गन्तुं न शक्यते ।ऽयं तु अपूर्वमेव कुड्यः । मोक्तव्यत्वमस्य सर्वेषां दृश्यसञ्चाराणां प्रवेशनिर्गममहत्त्वात् । कुड्यत्वं तु सर्वाधारत्वेन । पुनः कथम्भूतः । "दृश्यः संस्थितः" दृश्यरूपेणास्थितः । "अदृश्यश्च स्थितः" द्रष्टृरूपेण च स्थितः । चिन्मात्राभासशुद्धमनोरूपप्रजापतिरूपत्वाद्द्रष्टृदृश्ययोः । पुनः किम् । "न दृश्यं न च द्रष्टा न स्रष्टा" न सृजिक्रियाकर्ता सर्वोत्तीर्णरूपत्वात् । पुनः किम् । "सर्वमेव च" । ननु कथमयं प्रतिच्छन्दः अस्तीत्य् । अत्राह "अस्माद्" इति । यतः "अस्मात्" प्रजापतेः । "जीवाली उदेति" प्रादुर्भवति । ननु मृदो घटाली रज्जुसमूहात्वा सर्पालीन्यं तथा उदेति । न तयोः तत्प्रतिच्छन्दत्वं दृश्यते इत्य् । अत्राह "दीपाली"ति । विवर्तपरिणामाभ्यामन्य एव प्रतिच्छन्द्यप्रतिच्छन्दकरूपः प्रकारः अत्रास्तीति भावः ॥ ३,१४.९१० ॥

 

 

 

सङ्कल्प एव सङ्कल्पात्किलैति क्ष्मादिवर्जितः ।

क्ष्मादिमानिव निष्कुड्यः स्वप्नात्स्वप्नान्तरं यथा ॥ ३,१४.११ ॥

"किले"ति निश्चये । "क्ष्मादिवर्जितः" आभासरूपत्वेन स्थूलपृथ्व्यादिरहितः । "क्ष्मादिमानिव" भासमानत्वेन तत्सहित इव भासमानः । "निष्कुड्यः" भासमानैः कुड्यरूपैः पर्वतादिभिः हीनः । "सङ्कल्पः" जगदाख्यः सङ्कल्पः । "सङ्कल्पात्" शुद्धमनोरूपाद्ब्रह्मणः । "एति" प्रादुर्भवति । अत्र दृष्टान्तमाह "स्वप्नाद्" इति । "स्वप्नात्" सङ्कल्परूपात् । "स्वप्नान्तरं" सङ्कल्परूपमन्यस्वप्नम् । यथैति । तथेत्यर्थः ॥ ३,१४.११ ॥

 

 

अस्मादेव प्रतिच्छन्दाज्जीवाः सम्प्रसरन्त्यमी ।

सहकारिकारणानामभावाच्च स एव ते ॥ ३,१४.१२ ॥

"अस्मात्" प्रजापतिनाम्नः । "प्रतिच्छन्दात्" आभासात् । "अमी" प्रत्यक्सं स्फुरमाणाः । "जीवाः" । "सम्प्रसरन्ति" सञ्चारं यान्ति । तर्हि तत उत्पन्नत्वेन ततो भिन्ना एव स्युरित्य् । अत्राह "सहकारी"ति । "ते" जीवाः । "स एव" भवन्ति । न तु ततो भिन्नाः । कुतः । "सहकारिकारणानाम्" प्राक्तनकर्मरूपाणां सहकारिकारणानाम् । "अभावात्" । सहकारिकारणाभावे कार्यं कारणरूपमेवेति हि प्रसिद्धिः ॥ ३,१४.१२ ॥

 

 

 

सहकारिकारणानामभावे कार्यकारणम् ।

एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ॥ ३,१४.१३ ॥

कार्यं च तत्कारणं च "कार्यकारणं" । "परस्मात्" दृश्यापेक्षया उत्कृष्टात्प्रजापतेः । "सर्गविभ्रमः" सर्गविलासः ॥ ३,१४.१३ ॥

 

 

ब्रह्मैवाद्यो विराडात्मा विराडात्मैव सर्गता ।

जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ॥ ३,१४.१४ ॥

"ब्रह्म एव" ब्रह्मतत्त्वमेव्"आद्यः विराडात्मा" विराट्स्वरूपो परमात्मा । भवति । "विराडात्मा एव सर्गता" सर्गः । भवति । पादपूरणार्थो भावप्रत्ययः । उपसंहारं करोति "जीवे"ति । "स" पूर्वोक्तः । "जीवाकाश" "एव" चेत्यत्वादितन्मात्रान्तवलितचिन्मात्राख्यः "जीवाकाश एव" । "इत्थं" प्रजापत्यादिसर्गरूपेण । "स्थितो" भवति । अत्र हेतुमाह "पृथ्व्यादी"ति । "यतः" यस्मात्कारणात् । "पृथ्व्यादि असत्" भवति ॥ ३,१४.१४ ॥

 

 

 

जीवाकाश इति श्रुत्वा किञ्चित्संशयमापन्नः श्रीरामः पृच्छति

किं स्यात्परिमितो जीवराशिराहो अनन्तकः ।

आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ॥ ३,१४.१५ ॥

"जीवराशिः" जीवाकाशत्वेनोक्तः जीवपुञ्जः । "परिमितः किं स्याताहो अनन्तकः" अपरिमितः स्यात् । "आहोस्वितनन्तात्मा जीवपिण्डः अचलोपमः" पर्वतप्रख्यः । "अस्ति" । "राशिः" भिन्नत्वेन वर्तमानानां समूहः । "पिण्डः" मृत्पिण्डवतेक एव कश्चिज्जीवमयः पिण्ड इति भेदः ॥ ३,१४.१५ ॥

 

 

 

ननु किं तव राशिपिण्डत्वयोः प्रश्नेनेत्याशङ्क्याह

धाराः पयोमुच इव शीकरा इव वारिधेः ।

कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ॥ ३,१४.१६ ॥

"धारा" जलधाराः । "शीकराः" जलकणाः । "तप्तायसः" वह्न्यभिज्वलितातयसः । "कणाः" वह्निमयाः लेशाः । "कस्माद्" इति । जीवराशेः जीवपिण्डस्य वानङ्गीकारे एतेषां निर्याणं न सम्भवतीति भावः ॥ ३,१४.१६ ॥

 

 

 

प्रश्नमुपसंहरति

इति मे भगवन् ब्रूहि जीवजालविनिर्णयम् ।

ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ॥ ३,१४.१७ ॥

हे "भगवन्" त्वम् । "इति" पृष्टम् । "जीवजालविनिर्णयं मे ब्रूहि" । एतावदुक्त्वा त्वया किं न श्रुतमित्य् । अत्राह "ज्ञातम्" इति । "मया एतत्प्रायः" बाहुल्येन । "ज्ञातम्" । न त्वशेषेणातः "तदेव प्रकटीकुरु" येनाशेषेण जानामीति भावः ॥ ३,१४.१७ ॥

 

 

 

श्रीवसिष्ठ उत्तरमाह

एक एव न जीवोऽस्ति राशीनां सम्भवः कुतः ।

शशशृङ्गं समुड्डीय प्रयातीतीव ते वचः ॥ ३,१४.१८ ॥

परमार्थतः "एक एव जीवो नास्ति" । त्वत्पृष्टानां "राशीनां सम्भवः कुतः" स्यात् । एतत्प्रश्नस्यासम्बद्धार्थत्वं कथयति "शशे"ति । "शशशृङ्गं समुड्डीय प्रयाति इति" एतद्वचनसदृशम् । "ते वचः" अस्ति । आदौ शशशृङ्गमेव नास्ति । का कथा तदुड्डयनस्य । तथा जीव एव नास्ति । का कथा तद्राश्यादेरिति भावः ॥ ३,१४.१८ ॥

 

 

 

सर्वमेतत्पृष्टं निराकरोति

न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।

न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥ ३,१४.१९ ॥

परमार्थतः सर्वस्य शुद्धचिन्मात्रैकमयत्वात्"जीवो नास्ति" । हे "राघव" । "जीवानां" " राशयो न सन्ति" । "न च एकः कश्चन पर्वतप्रख्यः जीवपिण्डोऽस्ति" । अतश्च त्वत्प्रश्नोऽयं न युक्त इति भावः ॥ ३,१४.१९ ॥

 

 

आशीःप्रकारेण निश्चयमस्य कर्तव्यत्वेन कथयति

जीवशब्दार्थकलनाः समस्तकलनान्विताः ।

न च काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥ ३,१४.२० ॥

"तवेति निश्चयः" अयं निश्चयः । "अचलः" स्थिरो । "ऽस्तु" । "इति" किम् । "इति जीवशब्दार्थकलनाः" । ताः "समस्तकलनान्विताः" समस्ताभिः अहम्भावादिकलनाभिः अन्विताः । "न सन्ति" ॥ ३,१४.२० ॥

 

 

 

ननु जीवादीनां प्रत्यक्षेण स्फुरणात्कथमयं निश्चयः युक्तः स्यादित्य् । अत्राह

शुद्धं चिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।

तद्यथा सर्वशक्तित्वाद्विन्दते यां स्वयं कलाम् ॥ ३,१४.२१ ॥

चिन्मात्रानुक्रमेणैव सम्प्रफुल्लां लतामिव ।

ननु मूर्ताममूर्तां वा तामेवाशु प्रपश्यति ॥ ३,१४.२२ ॥

 

 

 

"हि" निश्चये । "शुद्धं चिन्मात्रं" शुद्धचिन्मात्रस्वरूपम् । अत एव्"आमलं ब्रह्मास्ति" । कथम्भूतम् । "सर्वगम्" समस्तदेशकालव्यापकम् । ततः किमित्य् । अत्राह "तद्" इति । "तत्" ब्रह्म । "सर्वशक्तित्वात्" यतः सर्वशक्तिरस्ति । ततः "यां" जीवादिमयीम् । "कलां" कलनाम् । "यथा" येन प्रकारेण । "स्वयं" स्वेन । न तु पारतन्त्र्येण । "विन्दते" स्वोपलब्धिविषयं करोति । कथम्भूतां "कलां" । "चिन्मात्रानुक्रमेण" चिन्मात्रपरिपाट्या । "लतामिव" लतावत् । "सम्प्रफुल्लां" विकसिताम् । चिन्मात्रस्यैव हीयं परिपाटी यत्कलनाः विकासयति । "ननु" निश्चये । "तां" कलनाम् । "मूर्ताममूर्तां वा" स्थूलां सूक्ष्मां व्"आशु" तस्मिन्नेव क्षणे । "प्रपश्यति" सम्पन्नामेव पश्यति । तथा च । जीवः परमार्थतः स्वयं सिद्धो नास्ति । कस्य राशिता पिण्डता वा भवेदिति भावः ॥ ३,१४.२१२२ ॥

 

 

 

ननु यदि ब्रह्म जीवादि पश्यति तदा तद्भिन्नमेवैतत्स्यात् । स्वभिन्नस्यैव दृष्टिगोचरत्वादित्य् । अत्राह

जीवो बुद्धिः क्रियास्पन्दो मनो द्वित्वैक्यमित्यपि ।

स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥ ३,१४.२३ ॥

तत्ब्रह्म । "तां" प्रसिद्धाम् । "स्वसत्तां" स्वस्फुरत्ताम् । "वेदने नियोजयति" वेदनविषयां करोति । पश्यतीति यावत् । "स्वसत्तां" कथम्भूताम् । "जीवः बुद्धिः क्रियास्पन्दः" हिताहितप्राप्तिपरिहारार्थाश्चेष्टाः । "मनः" । द्वित्वं च ततैक्यं च "द्वित्वैक्यम्" । "इत्यपि" एतद्रूपेण । "कचन्तीं" स्फुरन्तीम् । तथा च । दृष्टिगोचरत्वेऽपि न जीवादेर्भिन्नत्वं युक्तमिति भावः ॥ ३,१४.२३ ॥

 

 

 

ननु ब्रह्मसत्ता कथं जीवादिभावेन स्फुरतीत्य् । अत्राह

साबुद्धैवं भवत्येव भवेद्ब्रह्मैव बोधतः ।

अबोधः प्रेक्षया याति नाशं न तु स बुध्यते ॥ ३,१४.२४ ॥

"सा" ब्रह्मसत्त्"आबुद्धा" ब्रह्मसत्ताभावेनाज्ञाता सती । "एवं भवति एव" जीवादिरूपतया भासत एव । "बोधतः" ब्रह्मसत्ताभावेन ज्ञानात् । "ब्रह्मैव भवेत्" । सत्तातद्वतोः भेदाभावात् । ननु जीवादेः ब्रह्मसत्ताभावेन ब्रह्ममयत्वेऽपि ब्रह्मसत्ताविषयस्तु यः अबोध आसीत्सः अबोधत्वेन ज्ञातः सन् घटादिवत्तथैव तिष्ठति । तथा च न ब्रह्मैकमयता सिध्यति इत्य् । अत्राह "अबोध" इति । "अबोधः प्रेक्षया" बोधेन । "नाशं याति" । "तु" पक्षान्तरे । "सः" अबोधः । "न बुध्यते" बोधविषयो न सम्पद्यते विरुद्धत्वात्तदुद्बोधकाले एव नष्टत्वात् । न हि तमः तेजोविषयो भवतीति भावः ॥ ३,१४.२४ ॥

 

 

 

एतदेव दृष्टान्तेन दृढीकरोति

यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।

न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ॥ ३,१४.२५ ॥

"यथान्धकारः दीपेन प्रेक्ष्यमाणः" द्रष्टुमारब्धः । "प्रणश्यति" । "अस्या"न्धकारस्य । "तत्त्वं" स्वरूपम् । "न च ज्ञायते" । पुरुषेणेति शेषः । दार्ष्टान्तिके योजयति "अबोधस्ये"ति । "हि" निश्चये । "ऽबोधस्या"ज्ञानस्य्"ऐवमेव तत्त्वं न ज्ञायते" इत्यर्थः ॥ ३,१४.२५ ॥

 

 

जीवस्य ब्रह्मत्वमुपसंहरति

एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।

सर्वशक्तिरनाद्यन्तो महाचित्साररूपधृत् ॥ ३,१४.२६ ॥

"एवं" पूर्वोक्तप्रकारेण । "जीवात्मा ब्रह्मैव" भवति । ब्रह्मत्वापादकान्यस्य विशेषणान्याह "निर्विभाग" इति । "निर्विभागः" विभागरहितः । न हि जीवस्वरूपे कश्चिद्विभागोऽस्ति निरवयवत्वात् । "निरन्तरः" प्रकाशनिर्भरितत्वेन मध्येऽवकाशहीनः । "सर्वशक्तिः" सर्वशक्तित्वं चास्य स्वप्नादौ प्रत्यक्षदृष्टमेव । "अनाद्यन्तः" आद्यन्तरहितत्वं चास्याद्यन्तपरिच्छेदकत्वेनैव सिद्धम् । न हि परिच्छेद्यः परिच्छेदकस्य परिच्छेदं कर्तुं शक्नोति । "महाचित्साररूपधृत्" । "महाचित्" विमर्शशक्तिः । तस्याः "सारः" प्रकाशः । तस्य रूपं धारयति "महाचित्साररूपधृत्" । प्रकाशस्वरूप इत्यर्थः ॥ ३,१४.२६ ॥

 

 

 

सर्वथैव भेदकलनां निराकरोति

सर्वानन्ततया त्वस्य न काचिद्भेदकल्पना ।

विद्यते या हि कलना सा तदेवानुभूतितः ॥ ३,१४.२७ ॥

"तु" विशेषे । "ऽस्य" ब्रह्मणः । "सर्वानन्ततया" सर्वश्चासावनन्तश्च "सर्वानन्तः" । तस्य भावः "सर्वानन्तता" । तया । "काचिद्भेदकलना" भेदाकारा कलना । भेद इति यावत् । "ना"स्ति । सर्वरूपस्यानन्तस्य च भेदायोगात् । न हि घटाद्यपेक्षयानन्तस्य घटशरावादिसर्वरूपस्य मृदादेः घटभेदो युक्तः । ननु सर्वत्वमनन्तत्वं च असर्वात्सान्ताच्च भेदकमेव । तथा च ताभ्यामेव तस्य भेदः सम्पद्यत इत्य् । अत्राह "विद्यत" इति । "हि" यस्मादर्थे । "या कलना" भेदकलना । "विद्यते" । "सा तदेव" ब्रह्मैव । भवति । कुतो । "ऽनुभूतितः" अनुभूतिस्वरूपतः । अयं भावः । या काचित्कलनास्ति सानुभूता न वा । न चेत्सा स्वयमसिद्धा ब्रह्मणि भेदं कथं कुर्यात् । अनुभूता चेत्तर्हि अनुभवरूपैवानुभवस्य च चिद्रूपत्वेन ब्रह्मत्वं सिद्धमेवेति । ब्रह्मैव सा भवेदिति ॥ ३,१४.२७ ॥

 

 

 

अत्र श्रीरामः पृच्छति

एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।

जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥ ३,१४.२८ ॥

हे "ब्रह्मन्" । "एतत्" त्वयोक्तम् । "एवं" भवति । सत्यमेव भवतीत्यर्थः । सर्वेषां जीवानां तत्रैकजीवेच्छानुवर्तित्वमाशङ्कते । "कथम्" इति । "अखिलाः जगज्जीवाः" । जगति स्थिता जीवाः "जगज्जीवाः" । "महाजीवैकतावशात्" । "महाजीवेन" चेत्यत्वादितन्मात्रान्तप्रपञ्चवलितचिन्मात्राख्यमहाजीवेन । या "एकता" ऐक्यम् । तस्याः "वशात्" वशेन । "एकजीवेच्छया" एकस्य कस्यापि सामान्यजीवस्येच्छया । "कथं न युज्यन्ते" । अयं भावः । सर्वेषां जीवानां प्रोक्तस्वरूपमहाजीवैकमयत्वे एकस्मिन् जीवे उदितयेच्छया सर्वेषां जीवानां योगो युक्तः ॥ ३,१४.२८ ॥

 

 

 

श्रीवसिष्ठ उत्तरमाह

महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।

स्थितं यथेच्छमेवेह निर्विभागं निरन्तरम् ॥ ३,१४.२९ ॥

"महाजीवात्म" महाजीवः । "तत्ब्रह्म इह यथेच्छं" स्वेच्छासदृशम् । "स्थितं" भवति । "तत्ब्रह्म" कथम्भूतम् । "सर्वशक्तिमयात्मकम्" । "सर्वशक्तिमयः" सर्वशक्तिनिर्भरः । "आत्मा" यस्य । तत् । तादृशम् । सर्वशक्तिमयात्मकत्वं च ब्रह्मणः सर्वशक्तीनां तत एवोत्थानात् । पुनः कथम्भूतम् । "निर्विभागं" अखण्डस्वरूपत्वेन विभागान्निष्क्रान्तम् । पुनः कथम्भूतम् । "निरन्तरम्" प्रकाशाख्यसारभरितम् ॥ ३,१४.२९ ॥

 

 

 

ननु ब्रह्म यथेच्छं स्थितं भवतु । ततः किमित्य् । अत्राह

यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।

पूर्वं तु नश्यतीच्छा चिदतो द्वित्वमुदेति तत् ॥ ३,१४.३० ॥

तत्ब्रह्म । "यदेवेच्छति" इच्छाविषयं करोति । "तद्" एव । न त्वन्यत् । "तस्य महात्मनः" व्यापकस्वरूपस्य ब्रह्मणः । "आशु" इच्छाक्षणे एव । "भवति" सम्पद्यते । एकतेच्छानाशेन द्वित्वोत्पत्तिमस्मात्कथयति "पूर्वम्" इति । "चित्" इच्छा । नीलमुत्पलमितिवत्चिद्विशेषितेच्छा ज्ञेया । चिद्विशेषितत्वं चात्र चिद्विषयत्वं ज्ञेयम् । यत इत्यध्याहार्यम् । तेनायमर्थः । यतः "चित्" इच्छा । चिद्रूप एव भवामीत्येवंरूपा एकतेच्छा । "पूर्वं" प्रथमसर्गारम्भे । "ऽतः" सप्तम्यर्थे तसिलस्मिन् ब्रह्मणि । "तु"शब्दः इवार्थे । "नश्यति तु" सुस्फूर्त्यविषयतारूपं नाशं यातीव । परमार्थतः तु न नश्यति तस्याः सर्वत्रानुगमात् । इति "तु"शब्दोपादानम् । चिद्विषयेच्छानाशश्च चेत्यविषयेच्छोद्भूतेरेव ज्ञेयः । "तत्" तस्मात्कारणात् । "द्वित्वं" चेत्यस्वरूपजीवादिरूपेण स्थितो द्विधाभावः । "उदेति" प्रादुर्भवति । एकतेच्छानाशहेतुभूततया द्वित्वेच्छया एव द्वित्वमुदेतीति भावः ॥ ३,१४.३० ॥

 

 

 

द्वित्वोदयानन्तरं शक्तिक्रियाक्रमकरणं कथयति

पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।

अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥ ३,१४.३१ ॥

"पश्चात्" । "तेन" ब्रह्मणा । "द्वित्वविभक्तानां" । "द्वित्वेन" द्विधाभावेन । "विभक्तानां" विभागेन स्थापितानाम् । "स्वशक्तीनां" । "इत्येवं" इति प्रकारेण । "क्रियाक्रमः" "कल्पितः" । "हि" निश्चये । "इत्य्" "एवं" कथम् । "अनेन" सम्पद्यते ॥ ३,१४.३१ ॥

 

 

 

सम्पन्नं स्वेष्टं कथयति

शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः ।

तं विना नोदयोऽन्यासां प्रधानेच्छैव रोहति ॥ ३,१४.३२ ॥

"तया" प्रसिद्धय्"आद्यया" मूलकारणभूतया । "ब्राह्म्या" ब्रह्मसम्बन्धिन्या । "शक्त्या" । "यः नियमः" स्वेच्छासदृशी नियतिः । "प्रकल्पितः" । "तं" नियमम् । "विना" ऋते । "ऽन्यासां" जीवस्थानानाम् । "उदयो न" स्यात् । अत इत्यध्याहार्यम् । अतः "प्रधानेच्छैव रोहति" । "प्रधानस्य" महाजीवात्मभूतस्य ब्रह्मणः । "इच्छैव रोहति" जीवेच्छारूपेण परिणमते । तथा च प्रधानेच्छानुवर्तित्वमेव । न सा नियमकारित्वमुक्तम् । इह तु तच्छक्तेरिति चेन् । न । शक्तितद्वतोरभेदात् ॥ ३,१४.३२ ॥

 

 

 

एतदेव नानारचनाभिः कथयति

यस्या जीवाभिधानायाः शक्त्या येच्छा फलत्यसौ ।

प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥ ३,१४.३३ ॥

"यस्याः जीवाभिधानायाः शक्त्याः" शक्तिरूपस्य यस्य जीवस्य । "या इच्छा फलति" फलयुक्ता भवति । तस्या इत्यध्याहार्यम् । तस्याः शक्तेः "असौ" इच्छा । "प्रधानशक्तिनियमानुष्ठानेन विना" । "प्रधानशक्तेः" ब्रह्मशक्तेः । यत्"नियमानुष्ठानं" नियमकरणम् । तद्"विना न" भवति । स्वरूपमेव न लभते । का कथा तत्फलस्येति भावः ॥ ३,१४.३३ ॥

 

 

 

प्रधानशक्तिनियमः सुप्रतिष्ठो भवेन्न चेत् ।

तत्फलं शक्त्यशक्तत्वान्नेहितानां क्वचिद्भवेत् ॥ ३,१४.३४ ॥

"प्रधानशक्तेः" ब्रह्मशक्तेः । नियमः "प्रधानशक्तिनियमः" । "सुप्रतिष्ठः" सुस्थिरः । "न चेद्भवेत्" यदि न स्यात् । "तत्" तदा । रोहितानां "क्वचित्" कुत्रापि देशे काले वा । "फलं न" स्यात् । कुतः । "शक्त्यशक्तत्वात्" । "शक्त्या" ब्रह्मशक्त्या । लक्षणया तन्नियमेन । यत्"शक्तत्वं" फलं प्रति सामर्थ्यम् । तदभावः "अशक्तत्वं" । तस्मात्"शक्त्यशक्तत्वात्" । यतः रोहितानां नानाविधानां क्रियाणां फलं विद्यतेऽतः अनुमीयते कोऽपि नियमोऽस्ति येन क्रियाणां फलोत्पादनं प्रति सामर्थ्यमस्तीति भावः ॥ ३,१४.३४ ॥

 

 

प्रकृतमनुसरति

एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः  ।

जीवत्कोटिमहाकोटी भवत्यथ न किञ्चन ॥ ३,१४.३५ ॥

"एवं" पूर्वोक्तप्रकारेण । "ब्रह्मान्तादिवर्जितः" अन्तमध्यादिरहितः । "महाजीवः" "विद्यते" । "कुतो निर्यान्ति जीवका" इति पूर्वतरोक्तस्य प्रश्नस्योत्तरमाह "जीवत्कोटी"ति । तत्ब्रह्म । "जीवत्कोटिमहाकोटी" । "जीवतां" जीवनक्रियाकर्तृकाणाम् । "कोटिमहाकोटी" कोटिमहाकोटिसङ्ख्ये । "भवति" स्वयमेव तद्रूपो भवति । न तु ततो जीवाः निर्यान्तीति भावः । "अथ" तथापि । "न किञ्चन" "भवति" । चिन्मये स्वरूपे तथैव स्थितत्वात् ॥ ३,१४.३५ ॥

 

 

 

ननु ब्रह्म केन जीवतां यातीत्य् । अत्राह

चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।

तदसंवेदनाद्रूपं शममायाति संसृतेः ॥ ३,१४.३६ ॥

"चेत्यसंवेदनात्" चिद्विषयभूतभावजातपरामर्शात् । ब्रह्म "जीवो भवति" । ततः "संसृतिं याति" सुखदुःखलेपस्वरूपसंसारभाक्भवति । ननु कदाचित्संसृतिरस्य निवर्तते न वेत्य् । अत्राह "तद्" इति । "तदसंवेदनात्" चेत्यापरामर्शात् । अस्येत्यध्याहार्यम् । अस्य जीवस्य । "संसृतेः" संसारस्य । "रूपं शमं" शान्तिम् । "याति" ॥ ३,१४.३६ ॥

 

 

 

ननु संसृत्युपशमेन जीवस्य किं सम्पद्यत इत्य् । अत्राह

एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः ।

समुदेत्याद्यजीवत्वं ताम्राणामिव हेमता ॥ ३,१४.३७ ॥

"एवं "सति संसृत्युपशमे सति । "ज्येष्ठजीवस्य" ब्रह्मणः । क्रियाक्रमैः "ज्येष्ठजीवक्रियाक्रमैः" । "कनिष्ठजीवानामाद्यजीवत्वं" ब्रह्मत्वम् । "समुदेति" प्रादुर्भवति । "ज्येष्ठजीवक्रियाक्रमा" अत्र ब्रह्मकृताः क्रियाक्रमा ज्ञातव्याः । ब्रह्मकृतक्रियाक्रमस्यैव जीवानां ब्रह्मत्वापादने समर्थत्वात् । अत्र दृष्टान्तमाह "ताम्राणाम्" इति । स्वर्णकारक्रियाक्रमैः "ताम्राणां" यथा "हेमत्वं" समुदेति । तथेत्यर्थः ॥ ३,१४.३७ ॥

 

 

 

पूर्वतरोक्तं स्मरति

अत्रानन्ते पराकाशे इत्थमेष गणोऽप्यसन् ।

खात्मैव सन्निवोदेति चिच्चमत्करणात्मकः  ॥ ३,१४.३८ ॥

"इत्थं" पूर्वोक्तक्रमेण्"आत्रानन्ते पराकाशे" प्रसिद्धेऽपरिमेये चिदाकाशे । "एषः" पूर्वोक्तः । "गणः" चेत्यत्वादिरूपः प्रपञ्चः । "असन्नपि" "सन्निवोदेति" । कथम्भूतः । "खात्मैव" नकिञ्चिद्रूप एव । पुनः कथम्भूतः । "चिच्चमत्करणात्मकः" । "चितः" यत्"चमत्करणं" स्वशक्त्यास्वादकरणम् । तत्"आत्मा" स्वरूपं यस्य । सः "चिच्चमत्करणात्मकः" । "चमत्करणं" विना स्वतन्त्रायाः चितेः चेत्योन्मुखतायोगात् ॥ ३,१४.३८ ॥

 

 

 

ननु चमत्करणार्थमन्यापेक्षाया अवश्यम्भावात्कुतोऽस्याः स्वतन्त्रादीत्य् । अत्राह

स्वयमेव चमत्कारो यः समागम्यते चिता ।

भविष्यन्नामदेहादि तदहम्भावनं विदुः ॥ ३,१४.३९ ॥

"यः चमत्कारः चिता" सह "स्वयं" चिदाश्रयेण स्वविषयेन च यत्नेन विना । "समागम्यते" स्वयं समागमविषयतां भजति । पण्डिताः "तदहम्भावनम्" अहङ्कारम् । "विदुः" । अहङ्कारोऽपि चिच्चमत्कार एव । का कथा जीवस्येति अहम्भावग्रहणाभिप्रायः । कथम्भूतम् । "भविष्यन्नामदेहादि" । "भविष्यत्नाम" च "देहादि" च यस्य । तत् । "नामा"हङ्कारेत्यभिधा । "देहः" स्थूलसूक्ष्मरूपः । चिन्नैरपेक्ष्यद्योतनाय "समागम्यत" इति कर्मकर्तृव्यपदेशः ॥ ३,१४.३९ ॥

 

 

 

प्रकृतं चिदैक्यं बहुविस्तरेण कथयति

चितो यः स्याच्चिदालोकस्तन्मयत्वादनन्तकः ।

स एष भुवनाभोग इति तस्याः प्रबिम्बति ॥ ३,१४.४० ॥

"चितः" अनन्तस्वभावस्य चित्प्रकाशस्य । "यः आलोकः" भावप्रकटनहेतुः स्वभावविशेषः । "स्याद्" अस्ति । कथम्भूतः । "तन्मयत्वात्" चिन्मयत्वाद् । "अनन्तकः" चिद्वदपरिमेयः । अपरिमेयत्वं च चितः परिमातुरभावेन स्वयं स्वस्मिन् परिमातृतासम्भवाच्च ज्ञेयम् । "स एषः" पूर्वोक्तः विषयस्य स्वव्यतिरिक्तस्य चिदालोकः । "तस्याः" चितः । "भुवनाभोग इति" भुवनविस्तारोऽयमिति । "प्र"ति"बिम्बति" मालिन्यानादायकत्वेन प्रतिबिम्बभावेन स्फुरति ॥ ३,१४.४० ॥

 

 

 

परिणामविकारादिशब्दैः सैव चिदव्यया ।

तादृग्रूप्यादभेद्यापि स्वशक्त्यैव विबुध्यते ॥ ३,१४.४१ ॥

"स्वशक्त्या एव" प्रमातृभावेन स्फुरन्त्या निजशक्त्या एव कर्त्र्य्"आव्यया" नाशरहिता । "सैव चित्परिणामविकारादिशब्दैः" "विबुध्यते" विज्ञायते । शब्दस्यार्थबोधं प्रति कारणत्वं सुप्रसिद्धमेवेति नायस्तम् । कथम्भूत्"आपि" । "तादृग्रूप्यात्" चिद्रूपतायाः । "अभेद्यापि" भिन्नीकर्तुमयोग्यापि । ननु स्वरूपादभिन्नत्वे कथं परिणामादिशब्दवाच्यत्वमस्या इति चेत् । सत्यम् । यथा तोयं स्वरूपादभिन्नमपि तरङ्गतामासाद्य तोयपरिणामशब्देन तद्विकारशब्देन च कथ्यते तथेयमपीति न विरोधः ॥ ३,१४.४१ ॥

 

 

 

अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।

अचेत्यस्य प्रकाशस्य जगदित्येव तत्स्थितम् ॥ ३,१४.४२ ॥

"अचेत्यस्य प्रकाशस्य" चेत्यलेपरहितप्रकाशरूपायाः "चितः" । "स्वयम्" अयत्नेन । "यत्स्वदनं" स्वशक्त्यास्वादः भवति । कथम्भूतम् । "अविच्छिन्नविलासात्म" । "अविच्छिनविलासः" छेदरहितस्फुरणयुक्तः । "आत्मा" यस्य । तत्"अविच्छिन्नविलासात्म" । तत्"स्वदनं जगदित्येव" जगत्स्वरूपेण । "स्थितं" भवति ॥ ३,१४.४२ ॥

 

 

आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।

सा स्वभावत एवैनामहन्तां परिपश्यति ॥ ३,१४.४३ ॥

"या एषा आकाशादपि सूक्ष्मा"परिच्छेद्या । "वितता" सर्वत्र व्याप्ता । "चितः शक्तिः" सामर्थ्यमस्ति । "सा" चित् । "स्वभावत एव" स्वसत्तयैव । न तु यत्नादिना । "एनां" प्रोक्तविशेषणाम् । "अहन्तां परिपश्यति" अहङ्कारभावेन चेतति ॥ ३,१४.४३ ॥

 

 

 

आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।

जगदन्तमहन्ताणुं तदेवासौ प्रपश्यति ॥ ३,१४.४४ ॥

"अस्याः" चितः । "आत्मा" स्फुरत्ताख्यं स्वरूपम् । "आत्मनि" स्फुरत्ताख्ये स्वरूपे स्वस्वरूपे । "आत्मना" स्वभावेन । न तु यत्नेन । "यत्स्फुरति" विलसति । कथम् । "वारिवत्" जलवत् । "तदेव" स्फुरणमेव्"आसौ" चिद् । "अहन्ताणुं प्रपश्यति" परिमिताहन्तारूपतया परामृशति । कीदृशम् "अहन्ताणुं" । "जगदन्तम्" जगत्पर्यन्तम् ॥ ३,१४.४४ ॥

 

 

 

चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।

इयं स्वात्मनि तस्यैव जगन्नाम कृतं ततम् ॥ ३,१४.४५ ॥

"चमत्कारकरी" चमत्कारकरण[  ]"स्यैव" । "ततं" विस्तीर्णम् । "जगन्नाम" जगदिति नाम । "कृतं" । तयैवेति शेषः ॥ ३,१४.४५ ॥

 

 

 

चितश्चित्त्वमहङ्कारः सैव राघव कल्पना ।

तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते  ॥ ३,१४.४६ ॥

"चितः चित्त्वमहङ्कारः" भवति । अहङ्कारतया चित्त्वस्यैव परिणामादित्यर्थः । हे "राघव" । "सैवा"हङ्कार एव । "कल्पना" भवति । "कल्पना"पदापेक्षं स्त्रीत्वम् । "अतः तन्मात्रादि" अहङ्कारोत्पन्नं तन्मात्रादिकम् । "चिदेव" भवति । तन्मात्रकारणस्याहङ्कारस्य चित्त्वात् । "द्वित्वैकत्वे क्व संस्थिते" भवतः । न स्त इति भावः । ननु द्वित्वं मा भवतु । एकत्वं कथं नास्तीति चेन् । मैवम् । स्वप्रतिपक्षं द्वित्वं विनैकत्वस्याप्यसिद्धेः । न हि छायां विना प्रकाशः प्रकाशो भवति अनिर्वाच्यत्वात् ॥ ३,१४.४६ ॥

 

 

 

एवं चिदेकमयत्वं सर्वस्य प्रसाध्य भेदत्यागं शिष्यं प्रति अनुष्ठेयत्वेन विदधाति

जीवहेतावसन्त्यागे त्वं चाहं चेति सन्त्यज ।

शेषं सदसतोर्मध्ये भवेत्यर्थात्मको भवेत् ॥ ३,१४.४७ ॥

पुरुषः । "इत्यर्थात्मकः" । "इति"शब्दाक्षिप्तगुरूपदेशवाक्य्"आर्थात्मकः" । तत्पर इति यावत् । "भवेत्" । "इति"शब्दाक्षिप्तं गुरूपदेशमाह "त्वं चाहं चेति त्यज" । येन जीवता दूरे गच्छतीति भावः । पुनः किंरूपः तिष्ठामीत्य् । अत्राह "शेषम्" इति । "सदसतोः मध्ये" स्थितं सत्त्वासत्त्वाभ्यामनिर्वचनार्हम् । "शेषं" सर्वप्रपञ्चबाधेऽपि साक्षितया शुद्धं चिन्मात्रम् । "भव" ॥ ३,१४.४७ ॥

 

 

 

एवं शिष्यं प्रति अभेदं विधेयत्वेनोक्त्वा तत्कृपया पुनरप्यभेदमेव कथयति

चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।

अभिन्ना दृश्यते व्योम्नः सत्तासत्तेऽथ वेद्म्यहम् ॥ ३,१४.४८ ॥

"चितादौ" सर्गारम्भे । "स्वसत्ता" स्फुरामीतिरूपा निजा सत्ता । "यथा" येन जीवादिरूपेण । "कलिता" । अस्या इत्यध्याहार्यम् । अस्याः चितः "सा" सत्ता । "तथा" तेन रूपेण्"ओदिता" प्रादुर्भूता सती । चिदाकाशात्"अभिन्ना दृश्यते" । ज्ञानिभिरिति शेषः । "अहम्" इत्यनेन सत्तासामान्यप्रमाता कथितः । "अथाहं सत्तासत्ते वेद्मि" जानामि । न तु तथास्तीति भावः ॥ ३,१४.४८ ॥

 

 

 

चित्खं खं जगदीहाः खं खमब्धिविबुधाचलाः ।

खाकारचिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥ ३,१४.४९ ॥

"चित्खं" "खम्" आकाशं भवति । "जगदीहाः" । "जगतां" हिताहितप्राप्तिपरिहारार्थाः चेष्टाः । "खं" भवन्ति । "अब्धिश्" च "विबुधाश्" च्"आचलाश्" च । ते अपि "खम्" एव भवन्ति । अत्र हेतुत्वेनोत्तरार्धमाह "खाकारे"ति । "हि" यस्मादर्थे । "खाकारः" यः "चिच्चमत्कारः" । स एव "रूपं" यस्य । सः । तस्य भावः तत्"त्वं" । तस्मात्"खाकारचिच्चमत्काररूपत्वात्" । "अन्यत्नास्ति" । यतः सर्वं खरूपं चिच्चमत्कारमात्ररूपं भवतीत्यर्थः ॥ ३,१४.४९ ॥

 

 

 

यो यद्विलासस्तस्मात्स न कदाचन भिद्यते  ।

अपि सावयवात्तत्त्वात्कैवानवयवे कथा ॥ ३,१४.५० ॥

"यः यद्विलासः" यस्य स्फुरणं भवति । "सः सावयवात्" "तत्त्वादपि तस्मात्कदा न" जातु न । "भिद्यते" । न हि कश्चित्तरङ्गं तोयात्भिन्नं वदतीति भावः । "अनवयवे" अवयवरहिते । स्वप्नेऽपि तद्वाच्यमिति भावः ॥ ३,१४.५० ॥

 

 

 

ननु चितः जगद्रूपत्वेऽपि तद्ग्राहिण्या अन्यस्याश्चितः सद्भावात्नाभेदमयतेत्य् । अत्राह

चितेर्नित्यमचेत्यायाश्चिन्नास्त्यवितताकृतेः ।

यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥ ३,१४.५१ ॥

"नित्यमचेत्यायाः" चेतितुमयोग्यायाः । "चितेः चित्" स्वग्राहिणी चित् । "नास्ति" चिद्रूपत्वहानेरिति भावः । "चितेः" कथम्भूतायाः । "अवितताकृतेः" । सूक्ष्मतय्"आवितता" कुत्रापि न स्थित्"आकृतिः "रूपं यस्याः । सा । तस्याः । ननु एतदसिद्धम् । स्फुरामीतिरूपेण युक्तत्वादित्य् । अत्राह "यद्रूपम्" इति । "यद्रूपं" । "यत्" स्फुरामीत्यादिकम् । "रूपं" भवति । तदित्यध्याहार्यम् । तत्"जगत" एव "रूपम्" । न तु चितेः । मुख्यतः चितित्वं हि स्फुरामीत्यस्य ग्राहिकायाः चितेरेव । स्फुरामीति ग्राह्यरूपायास्तु गौणं चितित्वं भवदपि न जगत्त्वं व्यभिचरति । कथम्भूतस्य "जगतः" । "तत्तत्स्फुरणरूपिणः" । "तत्तत्स्फुरणानि" स्फुरामीत्यादीनि । "रूपं" यस्य । तत् । तस्य "तत्तत्स्फुरणरूपिणः" । यत्किञ्चिच्चेत्यतामायाति तत्सर्वं जगदेवेत्यर्थः ॥ ३,१४.५१ ॥

 

 

 

मनो बुद्धिरहङ्कारो भूतानि गिरयो दिशः ।

इति पर्यायरचना चितस्तत्त्वाज्जगत्स्थितेः ॥ ३,१४.५२ ॥

"मनो बुद्धिर्" इत्यादिरूपेणोक्ता शब्दसन्ततिः । "चितः पर्यायरचना" भवति । कुतः । "जगत्स्थितेः" मनोबुद्ध्यादिरूपायाः जगत्स्थितेः । "तत्त्वात्" चिद्रूपत्वात् । सर्वे शब्दाः चिद्वाचका एवेति भावः ॥ ३,१४.५२ ॥

 

 

चितश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।

अजगत्त्वादचिच्चित्स्याद्भावाभेदाज्जगत्कुतः ॥ ३,१४.५३ ॥

"चितः" सम्बन्धि "चित्त्वं" चिद्भावम् । येन सा चिदिति नामयोग्या भवति स कोऽपि धर्मः । तमिति यावत् । "जगत्विद्धि" जानीहि । अत्र हेतुमाह "ने"ति । "हि" यस्मात्कारणात् । "चित्त्वमजगत्" जगतो व्यतिरिक्तम् । "नास्ति" । चेत्यरूपजगदभावेऽनिर्वाच्यायाः चितः स्फुटं चित्त्वायोग्यत्वात् । अवान्तरं फलितमाह "अजगद्" इति । अत इत्यध्याहार्यम् । अतो हेतोः । "चितजगत्त्वाद्" धेतोर् । "अचित्स्यात्" चिन्नामयोग्या न स्यात् । यदि जगन्न स्यादनिर्वाच्यायाः चितेरपि चित्त्वं न स्यादिति भावः । परमं फलितमाह "भावाभेदाद्" इति । "भावाभेदात्" पूर्वन्यायसिद्धेन चिज्जगतोरभेदेन सिद्धात्पदार्थाभेदात् । "जगत्कुतः" कथम् । स्यात् । चित्त्वजगतोरभेदे सति चित्त्वस्य चिदेकमयतया चित एव सर्वथा स्थितत्वात्जगन्नास्तीति भावः ॥ ३,१४.५३ ॥

 

 

 

चितेर्मरिचबीजस्य निजा यान्तश्चमत्कृतिः ।

सैवैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥ ३,१४.५४ ॥

"चितेः" चिन्नाम्नः । "मरिचबीजस्यान्तः" मध्ये । "या चमत्कृतिः" अर्थात्तीक्ष्णतास्थानीयः स्वशक्त्यास्वादाख्यः चमत्कारः । भवति । "सैवैषा जगदिति" जगद्रूपेण । "स्थिता" भवति । कथम्भूतं "जगत्" । "जीवतन्मात्रमात्रं" केवलं जीवपञ्चतन्मात्रस्वरूपम् । न तु स्थूलभूतमयम् । स्वप्नन्यायेन स्थूलताया असत्यत्वात् ॥ ३,१४.५४ ॥

 

 

चित्त्वात्स्वशक्तिकचनं यदहम्भावनं चितेः ।

जीवः स्पन्दात्मकर्मात्मा भविष्यदभिधो ह्यसौ ॥ ३,१४.५५ ॥

"चितेः" "स्वशक्तिकचनं" स्वशक्तिस्फुरणरूपम् । "अहम्भावनं यद्" अस्ति । कुतः । "चित्त्वात्" चिद्भावाख्याथेतोः । "हि" निश्चये । "असौ" स्वशक्तिस्फुरणम् । "जीवः" भवति । "जीवा"पेक्षया पुंलिङ्गता । कथम्भूतो "जीवः" । "स्पन्दात्म" किञ्चित्स्फुरणरूपम् । यत्"कर्म" । तत्"आत्मा" स्वरूपम् । यस्य । "स्पन्दात्मकर्मात्मा" चित्स्पन्दरूप एवेत्यर्थः । पुनः कथम्भूतः । "भविष्यदभिधः" वैखरीप्रादुर्भाव इत्यर्थः ॥ ३,१४.५५ ॥

 

 

यच्चिच्चित्त्वेन कलनं सुसम्पाद्याभिधार्थदिक् ।

व्यवच्छेदविकारैस्तद्भिद्यतेऽतो न विद्यते ॥ ३,१४.५६ ॥

"चित्" आर्षः षष्ठीलोपः चितः । "यत्चित्त्वेन" चिद्भावेन । "कलनं" परिच्छेदः । भवति । कथम्भूतम् । "सुसम्पाद्या" सुखेन "सम्पादयितुं" शक्य्"आभिधार्थदिक्" नामार्थलेशः येन । तत्"सुसम्पाद्याभिधार्थदिक्" । परिच्छिन्नस्यैव हि वस्तुनः नाम तद्वाच्यत्वं च कर्तुं शक्यम् । "तत्भिद्यते" चितः भिन्नत्वेन स्थीयते । कैः । "व्यवच्छेदविकारैः" । चित्तं न स्पृशतीति यावत् । भवन्तु जडेभ्यः भिन्नतापादनानि । त एव विकाराः । तैः । तद्युक्तत्वादिति यावत् । चितो भिन्नम् । का हानिरित्य् । अत्राह्"आत" इति । "अतः" चितो भिन्नत्वात् । "न विद्यते" । चिद्भिन्नस्य चेत्यमानतायोगात् । तदयोगे च सतोऽपि । तस्यासङ्कल्पत्वात् । चिद्रूपत्वेन कलनाभावेन व्यर्थस्य चित्त्वस्याप्यभावः । चित्त्वाभावे च जगतोऽभावः । तदभावे च शुद्धस्य चिन्मात्रस्यैव साम्राज्यमिति भावः ॥ ३,१४.५६ ॥

 

 

 

ननु भवतु चिदेकमयत्वं सर्वस्य । तदंशभूतयोः कर्तृकर्मणोस्तु परस्परं भेदो दुर्निवार इत्य् । अत्राह

चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।

स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥ ३,१४.५७ ॥

"चित्स्पन्दरूपिणोः" चित्स्फूर्त्याख्यरूपयुक्तयोः । "कर्तृकर्मणोः भेदः नास्ति" । कथमेतदित्य् । अत्राह "स्पन्दे"ति । "स्पन्दमात्रं कर्म भवेत्" । बहिःस्पन्दस्यैव कर्मत्वदर्शनात् । "स एव पुरुषः स्मृतः" । पण्डितैरिति शेषः । अयं भावः । अन्तः विचार्यमाणं ज्ञानं विना न किञ्चिल्लभ्यते । घटपटादिश्च बहिर्भूतः । अतः ज्ञानस्य तैः सह कोऽपि सम्बन्धो नास्तीति शुद्धं ज्ञानं शिष्टम् । स एव च चितः स्फुरणाख्यः स्पन्दः । तदेव कर्म । बहिःस्थितस्य शरीरचलनादिरूपस्य कर्मणोऽपि तत्पूर्वकत्वात् । तत्तत्त्वमेव । स एव च पुरुषः । अन्तरन्यस्यानुपलम्भात्बहिःशरीरस्य मृत्पिण्डरूपस्य पुरुषत्वायोगातिति सिद्धं कर्मणः पुरुषत्वम् ॥ ३,१४.५७ ॥

 

 

 

सर्वस्य जीवादेर्वर्गस्यैकत्वं साधयति

जीवश्चित्त्वे परिस्पन्दः पुंसां चित्तं स एव च ।

मनस्त्विन्द्रियरूपं सन्नानानानैव गच्छति ॥ ३,१४.५८ ॥

"जीवः चित्त्वे" चिद्भावे । चित्स्वरूप इति यावत् । "परिस्पन्दः" भवति । "पुंसां स एव" कर्मापरपर्यायं "चित्तं" भवति । परिस्पन्द "एव च" । चित्स्पन्दत्वव्यतिरिक्तस्य जीवस्य चित्तस्य वाभावात् । "तु" विशेषे । "मन" एव चित्स्पन्दरूपं चित्तम् । "इन्द्रियरूपं सत्" । "नानानाना"त्वं "गच्छति" । "चित्तं" कथम्भूतम् "एव" । "अनानैव" । परमार्थतः एकत्वात्नानात्वरहितम् । इदमत्र तात्पर्यम् । "जीवस्" तावत्चित्स्पन्द एव । तच्चित्तमपि विकल्पात्मकं तथैव । तदेव च चित्तमिन्द्रियरूपेण परिणमते । ततश्च स्वपरिणामभूतेन्द्रियद्वारेण बहिर्निर्गत्य रूपादिपञ्चकस्वरूपविषयरूपतामापद्यते । ततश्च तदाधारभूतपञ्चकतामासाद्यते । ततश्च तत्कार्यभावेन परिणमते इति चित्स्पन्द एव स्थूलसूक्ष्मभावरूपेण स्थितः । स च चिदव्यतिरिक्त इति सर्वं चिद्रूपमेव स्थितमिति ॥ ३,१४.५८ ॥

 

 

 

शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।

कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥ ३,१४.५९ ॥

"हि" यस्मातर्थे ।ऽशेषं समस्तं "जगत्चित्प्रकाशच्छटा" चित्प्रकाशे सिद्धपदार्थपङ्क्तिमयत्वात्चित्प्रकाशपङ्क्तिः । भवति । कथम्भूतम् । "शान्ताशेषविशेषं" । "शान्ताः" चिन्मात्रे प्रलीनाः । "अशेषाः" समस्ताः । "विशेषाः" भावाः यस्य । तत् । "तस्मात्" ततो हेतोः । "कार्यकारणकादित्वमन्यत्" चिन्मात्रात्पृथक् । "न विद्यते" । कार्यकारणत्वादेरपि जगत्त्वेन चित्प्रकाशच्छटात्वानपायात् ॥ ३,१४.५९ ॥

 

 

 

अच्छेद्योऽहमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सततगः स्थाणुरचलोऽहमिति स्थितम् ॥ ३,१४.६० ॥

सर्वस्य जीवादेर्जगतः चित्प्रकाशमयत्वे सति "इति स्थितम्" भवति । अयं निश्चय एव प्रतिष्ठितो भवति इति । किम् "इति" । "अहं" चित्प्रकाशरूपः अहम् । "अच्छेद्यः" अशरीरवत्छेदयोग्यो नास्मि । एवम् "अदाह्योऽयम्" इत्यादावपि सम्बन्धनीयम् । "अहं नित्यो"ऽस्मि । नित्यत्वे विशेषणद्वारेण हेतुमाह "सततग" इति । सर्वकालग इत्यर्थः । पुनः कथम्भूतः । "स्थाणुः" स्वस्वरूपे दृढं स्थितः । अत्रापि हेतुं विशेषणत्वेनाह्"आचल" इति । यतः निष्कम्प इत्यर्थः ॥ ३,१४.६० ॥

 

 

 

ननु चिदेकमयत्वे सति वादिनः किमर्थं विवदन्ति इत्य् । अत्राह

विवदन्ते यथा ह्यत्र विवदन्ते तथा भ्रमैः ।

भ्रमन्तो न वयं त्वेते जाता विगतविभ्रमाः ॥ ३,१४.६१ ॥

वादिन इति शेषः । वादिनः तार्किकादयः । "अत्र" चित्प्रकाशे । "यथा" येन प्रकारेण । "विवदन्ते" विवादं कुर्वन्ति । "तथा भ्रमैः" मिथ्याज्ञानैः । "विवदन्ते" । ज्ञाततत्त्वानां विवादाभावात् । तथा हि । तार्किकाः आत्मानं ज्ञानगुणं संसारिणं च कथयन्ति । साङ्ख्याः उदासीनं ज्ञानरूपमपि परमाणुरूपम् । चार्वाका भूतरूपम् । बौद्धाः शून्यरूपम् । वेदान्तिनः शान्तस्वरूपम् । एवमन्येऽप्यन्यत्किञ्चित् । यद्यपि एतेऽधिकारिकृपयैव विवदन्ते तथापि अधिकारिणां तत्तत्पदनिष्ठानामधःस्थं पदं परित्यज्योर्ध्वपदगमनार्थं वादिनां भ्रमः उक्तः । यदि वादिनः भ्रमेण विवदन्ते तर्हि यूयं कथं स्थिताः इत्य् । अत्राह "भ्रमन्त" इति । "तु" व्यतिरेके । "एते वयं विगतभ्रमाः" वाद्युक्तनानागुणोत्तीर्णशुद्धचिन्मात्राङ्गीकारात्दूरीभूतमिथ्याज्ञानाः । "जाताः" । कथम्भूताः । "न भ्रमन्त" इत्यर्थः । ननु श्रीवसिष्ठेन तन्मतनिरासपरेण विवाद एव कृतः । मैवम् । बोधनार्थतन्मतनिरासेऽपि चिन्मात्राङ्गीकारेणैव सर्वमताङ्गीकारात् । चिन्मात्रं हि सर्वेऽङ्गीकुर्वन्त्येव । किं तु तद्विशेषेषु विवदन्ते ॥ ३,१४.६१ ॥

 

 

पुनरपि चिदेकमयत्वमेव कथयति

दृश्ये मूर्तेऽज्ञसंरूढे विकारादि पृथग्भवेत् ।

नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥ ३,१४.६२ ॥

"मूर्ते" स्थूले । "दृश्ये" दृशिक्रियाविषये भावजाते । कथम्भूते । "ऽज्ञसंरूढे" । "अज्ञेषु" मूर्खेषु । "संरूढे" दृढीभूते । मूर्खज्ञाते इति यावत् । "विकारादि" । "आदि"शब्दात्परिणामादेर्ग्रहणम् । "पृथक्भवेत्" । स्थूलस्य दृश्यस्य विकारादिधर्माधिकरणत्वे योग्यतास्तीति भावः । "अमूर्ते" सूक्ष्मे । "तज्ज्ञकचिते" तत्त्वज्ञेषु स्फुरिते । "चित्खे" चिदाकाशे । विकारादि पृथक्"न" भवेत् । कथम्भूते "चित्खे" । "सदसदात्मनि" सदसत्स्वरूपे । विकारादि यदि सत्तदापि तन्मयमेव । यद्यसत्तदापि तथैवेति भावः ॥ ३,१४.६२ ॥

 

 

 

चित्तत्त्वं चेत्यरसतः शक्तीः कालादिनामिकाः ।

तनोत्याकाशविशदाश्चिन्मधुश्रीः स्वमञ्जरीः ॥ ३,१४.६३ ॥

"चिन्मधुश्रीः" चिदाख्यावसन्तलक्ष्मीः । "कालादिनामिकाः" कालदेशादिनामयुक्ताः । "शक्तीः स्वमञ्जरीः तनोति" विस्तारयति । कुतः । "चेत्यरसतः" चेत्यास्वादेन युक्तम् । युक्तं च वसन्तलक्ष्म्याः रसेन मञ्जरीतननम् । "शक्तीः" किम् । "चित्तत्त्वम्" चिन्मात्ररूपिण्य एव । शक्तितद्वतोरभेदात् । पुनः कथम्भूताः । "आकाशविशदाः" । न तु भासमानस्थूलरूपयुक्ताः ॥ ३,१४.६३ ॥

 

 

 

स्वभावेन चिन्मात्रस्य चेत्यरूपतया स्फुरणं कथयति

स्वयं विचित्रं स्फुरति चित्कञ्चुकमनाहतम् ।

स्वयं विचित्रं कचति चिद्रत्नमपकारणम् ॥ ३,१४.६४ ॥

"चित्कञ्चुकम्" । "कञ्चुकं" लक्षणया पटः । चिदाख्यः पटः । "स्वयं" स्वभावेन । "विचित्रं स्फुरति" चित्रपटवत्विचित्रतायुक्तं भवतीत्यर्थः । विचित्रता चार्थचेत्यकृता ज्ञेया । तथा "चिद्रत्नं स्वयं विचित्रं कचति" । रत्नस्य च कचनं युक्तमेव । "स्वयम्" इत्यस्यार्थं स्वयमेवाह्"आपकारणं" इति ॥ ३,१४.६४ ॥

 

 

स्वयं विलक्षणस्पन्दश्चिद्वायुरजडात्मकः ।

स्वयं विचित्रवलनं चिद्वारि न निखातगम् ॥ ३,१४.६५ ॥

"विलक्षणस्पन्दः" बाह्यवायोः व्यतिरिक्तस्पन्दयुक्तः । अत्र हेतुत्वेन विशेषणमाह "अजडात्मक" इति । जडाजडयोः स्पन्दोऽवश्यं विलक्षण एव स्यादिति भावः । "वारि निखातगं" सत् । "विचित्रवलनं" विचित्रस्फुरणं भवति । "चिद्वारि" तु "निखातगं" सत् । "विचित्रवलनं" "न" भवति ॥ ३,१४.६५ ॥

 

 

 

स्वयं विचित्रधातूच्चैश्चिच्छृङ्गमपनिर्मितम् ।

स्वयं चित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ॥ ३,१४.६६ ॥

"उच्चैः" "चिच्छृङ्गमपनिर्मितम्" निर्माणरहितम् । "विचित्रधातु" । "विचित्रा" नानाविधाः । "धातवः" भूताख्यानि कारणद्रव्याणि । यस्मिन् । तत् । भवति । शृङ्गमपि विचित्रधातु विचित्रगैरिकादिधातुयुक्तं भवति । किं तु निर्मितम् । "स्वयं चिज्ज्योत्स्ना" "चित्ररसोल्लासा" नानाविधचेत्यरसोल्लासयुक्ता । तया "सततोदिता" भवति । बाह्यज्योत्स्नापि विचित्रामृतरसोल्लासयुक्ता भवति । किं तु शुक्लपक्ष एवोदिता भवति ॥ ३,१४.६६ ॥

 

 

 

स्वयं सदैव प्रकटश्चिदालोकोऽमलात्मकः ।

स्वयमस्तङ्गतेवाज्ञे ज्ञे ज्ञानादुदिता चितिः ॥ ३,१४.६७ ॥

आलोकस्य प्रकटतागुणयुक्तत्वातिति भावः । "स्वयम्" इति । "चितिः स्वयमज्ञे" मूर्खे । "ऽस्तङ्गतेव" भवति । अस्तङ्गतत्वं च अस्याः स्थितायाः अपि ज्ञानाविषयीभाव एवात "इव"शब्दोपादानम् । "चितिः स्वयं ज्ञे" ज्ञानयुक्ते । "ज्ञानादुदिता" भवति । यथाकाशे ज्वलन्नपि सूर्योऽन्धं प्रत्यनुदितः । नेत्रसहितं प्रति तूदितः । एवमियमपीति भावः ॥ ३,१४.६७ ॥

 

 

 

स्वयं जडेषु जाड्येन पदं सौषुप्तमागता ।

स्वयं स्पन्दि तथास्पन्दि चित्त्वाच्चितिमहानभः ॥ ३,१४.६८ ॥

चितिः "जडेषु" स्थावरादिषु । "जाड्येन" जडभावेन । "स्वयं सौषुप्तपदं" सुषुप्तिस्थानम् । "आगता" भवति । "चितिमहानभः" चिदाख्यो महाकाशः । "स्वयं स्पन्दि" स्फुरत्तायुक्तं भवति । "तथा" तेन प्रकारेण्"आस्पन्दि" शान्ततायुक्तो भवति । बाह्याकाशस्य तु वातरूपेण सस्पन्दत्वं स्वरूपेणास्पन्दत्वम् ॥ ३,१४.६८ ॥

 

 

 

गुणिनि गुणवत्चिति जगतः सदसत्त्वं कथयति

चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च ।

चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ॥ ३,१४.६९ ॥

"हि" निश्चये । "चित्प्रकाशप्रकाशः" । "चित्प्रकाशस्य" चिदाख्यस्य तेजसः । "प्रकाशः" आलोकाख्यगुणभूतः । "जगतस्ति च नास्ति च" । "च"कारः स्वयमस्तित्वनास्तित्वयोः समप्रधानत्वं द्योतयति । अयं भावः । यथा तेजोरूपे गुणिनि आलोकाख्यो गुणः भेदेन भासमानत्वातस्ति । ततो व्यतिरेकेण लब्धुमशक्यत्वान्नास्ति । तथा जगदपि चिदाख्ये आधारभूते गुणिनि भासमानत्वादस्ति । तद्व्यतिरेकेण लब्धुमशक्यत्वान्नास्तीति । एवमग्रेऽपि योज्यम् । "चिदाकाशे"ति । चिदाकाशस्यैकं "शून्यत्वं" शून्यत्वाख्यो गुणः । "चिदाकाशैकशून्यत्वम्" ॥ ३,१४.६९ ॥

 

 

 

चिदालोकमहारूपं जगदस्ति च नास्ति च ।

चिन्मारुतघनस्पन्दो जगदस्ति च नास्ति च ॥ ३,१४.७० ॥

"महारूपं" भासुरः शुक्लाख्यगुणः । "चिन्मारुते"ति । स्पन्दस्य च वायुगुणत्वं प्रसिद्धमेव ॥ ३,१४.७० ॥

 

 

 

चिद्घनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च ।

चिदर्कालोकदिवसो जगदस्ति च नास्ति च ॥ ३,१४.७१ ॥

"ध्वान्तस्य" च "कृष्णत्वं" गुणः । "चिदर्के"ति । दिवसस्यार्कालोकानुविधायित्वात्तद्गुणत्वम् ॥ ३,१४.७१ ॥

 

 

पूर्वोक्तं दृढयितुं सर्वथा चिद्गुणत्वमेव जगतः कथयति

चित्कज्जलरजःशैलपरमाणुर्जगद्भ्रमः ।

चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ॥ ३,१४.७२ ॥

"चित्" एव "कज्जलरजःशैलः" अञ्जनाद्रिः । तस्य "परमाणुः" । परमाणोः पर्वतगुणत्वं तदाश्रितत्वेनोपचाराज्ज्ञेयम् । जगदाकारः "जगद्भ्रमः" । जगदिति यावत् । "जगल्लेखा" जगत्पङ्क्तिः ॥ ३,१४.७२ ॥

 

 

 

जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् ।

जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ॥ ३,१४.७३ ॥

"जगत्चिच्छैलस्य जठरम्" अन्तःस्थः साररूपः भागः । भवति । "द्रवता" द्रवत्वम् । "स्निग्धता" स्नेहाख्यो गुणः ॥ ३,१४.७३ ॥

 

 

 

जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ।

जगच्चित्सर्पिषि स्नेहो वीचिश्चित्सरितो जगत् ॥ ३,१४.७४ ॥

"चिज्ज्वाला" चिदाख्याग्निशिखा । तस्या "ज्वलनं" ज्वलनक्रिया । "वीचेः" रचनारूपत्वात्जलगुणत्वम् ॥ ३,१४.७४ ॥

 

 

 

जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम् ।

जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ॥ ३,१४.७५ ॥

रूपत्वेन गुणत्वम् । फलस्य लतागुणत्वं तदाश्रितत्वेनोपचारात् ॥ ३,१४.७५ ॥

 

 

फलितमाह

चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ।

अत्र भेदविकारादि न खे मलमिव स्थितम् ॥ ३,१४.७६ ॥

अतः "चित्सत्तैव जगत्सत्ता" भवति । "जगत्सत्तैव चिद्वपुर्" भवति । न हि गुणसत्ता गुणिनो भिन्ना गुणिसत्ता च गुणाद्भिन्ना भवतीति भावः । "अत्र" चिज्जगतोः । "भेदविकारादि" । "आदि"शब्देन परिणामादेर्ग्रहणम् । "स्थितं न" भवति । किम् "इव" । "खे" आकाशे । "मलमिव" ॥ ३,१४.७६ ॥

 

 

जगतः सदसन्मयतामुपसंहरति

इतीदं सन्मयत्वेन सदसद्भुवनत्रयम् ।

अविकल्प्यतदात्मत्वात्सत्तासत्ते तदेव वा ॥ ३,१४.७७ ॥

"इति" पूर्वोक्तप्रकारेण । "भुवनत्रयं" भूर्भुवःस्वराख्यं जाग्रदादिकं वा भुवनत्रितयम् । "सन्मयत्वेन" सत्स्वरूपचिद्विकारत्वेन । "सदसद्" भवति । मूलकारणायाः चितः सदसदसत्त्वे सत्तासत्ताधारत्वकृतं भेदमाशङ्क्याह "अविकल्प्ये"ति । "वा"शब्दः पक्षान्तरद्योतकः । "तदेव" त्रिभुवनमेव । "सत्तासत्ते" भवति । कुतः । "अविकल्प्यतदात्मत्वात्" । "अविकल्प्यः" सत्त्वासत्त्वविकल्पायोग्यः । यः "तदात्मा" चिदात्मा । तस्य भावः तत्"त्वं"। तस्मात् । अयं भावः । सदसदिति पदद्वयमस्तिनास्तिक्रियाकर्तारं कथयति । तथा च कर्तृकर्मविकल्पः दुर्निवारः । सत्तासत्ते तु शुद्धनिरालम्बास्तिनास्तिक्रियावाचकेऽविकल्प्यं चित्स्वरूपमेव कथयतः । तदभिन्नस्य त्रिभुवनस्यापि सत्तासत्तात्वमेव युक्तम् । न सदसत्त्वमिति ॥ ३,१४.७७ ॥

 

 

 

ननु जगद्ब्रह्मणोरवयवावयविभावोऽस्तु इत्य् । अत्राह

अवयवावयविताशब्दार्थौ शशशृङ्गवत् ।

अनुभूत्यपलापाय कल्पितौ यैर्धिगस्तु तान् ॥ ३,१४.७८ ॥

"यैः" जडैः । "अनुभूत्यपलापाय" जगच्चिदैक्याख्यमनुभवमपलपितुम् । "अवयवावयविताशब्दः" अवयवावयविभावाख्यः शब्दः । "अर्थः" तद्वाच्यः सम्बन्धविशेषः । तौ "अवयवावयविताशब्दार्थौ" । "कल्पितौ" स्वविकल्पेन सम्भावितौ । कथं "कल्पितौ" । "शशशृङ्गवत्" । यथा कश्चिद्बहिरसदपि शशशृङ्गं कल्पयति । तथेत्यर्थः । "तान् धिगस्तु" ते धिक्कारविषया एवेत्यर्थः । धिक्कारविषयत्वं च तेषामवयवाभिन्नस्यावयविनः भेदेन ज्ञानात् । न ह्यवयवभिन्नोऽवयवी नाम कश्चिदस्तीति भावः ॥ ३,१४.७८ ॥

 

 

 

न विद्यते जगद्यत्र साद्रिद्यूर्वीनदीश्वरम् ।

चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमे ॥ ३,१४.७९ ॥

"यत्र" यस्मिन् चिद्रूपाख्ये स्थाने । "साद्रिद्यूर्वीनदीश्वरम्" पर्वताकाशभूमिसमुद्रसहितम् । "जगत्" । "चिदेकत्वात्" चिदैक्यात् । "न विद्यते" । "तत्रेतरविभ्रमे" षष्ठ्यर्थे सप्तमी । "इतरस्य" तत्कार्यरूपस्य "भ्रमस्य" । "कः प्रसङ्गः" ॥ ३,१४.७९ ॥

 

 

 

चितः सर्वमयत्वं शिलादृष्टान्तेन कथयति

शिलाहृदयपीनापि स्वाकाशविशदैव चित् ।

धत्तेऽन्तरखिलं शान्तं सन्निवेषं यथा शिला ॥ ३,१४.८० ॥

"चित्शान्तं" परमार्थतो भावाभावादिक्षोभरहितम् । "अखिलं" समस्तम् । "सन्निवेशं" चेत्याख्यं रचनाविशेषम् । "अन्तः" स्वमध्य एव । "धत्ते" । कथम्भूत्"ऐव" । "शिलाहृदयपीनापि" । प्रकाशाख्यसारभरितत्वेन शिलाहृदयवत्"पीनापि" सती । "स्वाकाशविशदैव" । "सु"ष्ठु "आकाश"वत्"विशदा" निर्मला "एव" । न तु जगदन्तर्धारणे योग्या । अत्र दृष्टान्तमाह "यथे"ति । "शिला यथा" सारेण पूरितापि लेखौघाख्यं "सन्निवेशमन्तर्धत्ते" । तथेत्यर्थः ॥ ३,१४.८० ॥

 

 

ननु तथाप्यहं प्रष्टा भिन्न एवास्म्य् । अन्यथा प्रश्नायोगादित्य् । अत्राह

पदार्थनिकराकाशे त्वमाकाशलवोपमः  ।

त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखा न सन्ति ते ॥ ३,१४.८१ ॥

"पदार्थनिकराकाशे" । "पदार्थानां निकरः" समूहः । स एव नकिञ्चिद्रूपत्वेन्"आवकाशः" । तस्मिन् । तन्मध्य इत्यर्थः । "त्वं" प्रष्टा । "आकाशलवोपमः" असि । फलितमाह "त्वत्ते"ति । अतः "ते" तव प्रष्टुः । "त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखाः" । "त्वत्तामत्तात्मतया" त्वद्भावमद्भावरूपत्वेन । स्थिताः उल्लेखाः । "त्वत्तामत्तोल्लेखाः" त्वद्भावमद्भावविकल्पाः । त्वद्भावरूपत्वेन स्थिताः त्वत्ताविकल्पाः । मद्भावरूपत्वेन स्थिता मत्ताविकल्पाः । "न सन्ति" । आकाशरूपत्वात् ॥ ३,१४.८१ ॥

 

 

 

पल्लवदृष्टान्तेन प्रकृतं चितः सर्वमयत्वं कथयति

पल्लवान्तरलेखौघसन्निवेशवदाततम् ।

अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ॥ ३,१४.८२ ॥

"चित्" । "इदं" चेत्यम् । "अन्तः" स्वमध्ये । "धत्ते" । कुतः । "स्वभावतः" । ननु कयापि प्रयोजनापेक्षया कथम्भूतम् । "अन्यानन्यात्मकम्" । "अन्यः" स्वतः भिन्नः । "अनन्यः" स्वतोऽभिन्नः । "आत्मा" यस्य । तत्"अन्यानन्यात्मकम्" । पुनः कथम्भूतम् । "आततं" विस्तारयुक्तम् । कथं "धत्ते" । "पल्लवान्तरे" पल्लवमध्ये स्थितः । लेखौघसन्निवेशः इव "पल्लवान्तरलेखौघसन्निवेशवत्" । पल्लवे लेखौघस्य च भासमानत्वेन भिन्नत्वं पृथक्कृत्य लब्धुमशक्यत्वादभिन्नत्वं च स्फुटं स्थितमेवेत्युपमानम् ॥ ३,१४.८२ ॥

 

 

 

समस्तकारणौघानां कारणादिपितामहम् ।

स्वभावतोऽकारणात्म चित्त्वं विद्ध्यनुभूतितः ॥ ३,१४.८३ ॥

त्वम् । "चित्त्वं" चिद्भावम् । "स्वभावतः" स्वरूपेण्"आनुभूतितः" स्वानुभवेन । न तु मत्कथनमात्रेण्"आकारणात्म" अकारणः । कारणरहितः "आत्मा" स्वरूपं यस्य । तत् । तादृशम् । "विद्धि" जानीहि । कथम्भूतम् । कारणनाम्न्"आदि"भूतः यः "पितामहः" । तत्स्वरूपं "कारणादिपितामहं" । केषां "कारणानां" । "समस्तकारणौघानां" । "समस्तस्य" दृश्यस्य । ये "कारणौघाः" । तेषाम् । अयं भावः । सर्वस्य दृश्यस्य कारणानि पञ्चतन्मात्राणि । तेषां कारणमहङ्कारः । तत्कारणं "चित्त्वम्" इति ॥ ३,१४.८३ ॥

 

 

 

ननु जगद्वत्चिदपि असत्यैव भवत्वित्य् । अत्राह

न चासत्त्वमचेत्यायाश्चितो वाचापि सिध्यति ।

यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरम् ॥ ३,१४.८४ ॥

"अचेत्यायाः" चेत्यमलादूषितायाः । "चितः असत्त्वं वाचापि न सिध्यति" वक्तुमपीदं न योग्यमित्यर्थः । अत्र हेतुत्वेनोत्तरार्धमाह "यद्" इति । यतः "यदस्ति तदुदेति" अन्यतया प्रादुर्भवति । "इति दृष्टम्" अस्माभिरिति शेषः । अत्र दृष्टान्तमाह "बीजाद्" इति । अयं भावः । यथा बीजभावेन स्थितम् "अङ्कुरं बीजात्" उदेति । तथा चिन्मात्रस्वरूपेण स्थितं चेत्यमपि । तथा च चेत्यान्यथानुपपत्त्या चिन्मात्रस्यासत्यत्वं न युक्तमिति ॥ ३,१४.८४ ॥

 

 

सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति

गगनमिव सुशून्यभेदमस्ति

त्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।

परमपदमयं समस्तदृश्यं त्व्

इदमिति निश्चयवान् भवानुभूतेः ॥ ३,१४.८५ ॥

हे "अङ्ग" । "त्रिभुवनमस्याः महाचितः" चिन्मात्रस्य्"आन्तः" मध्ये । "सुशून्यभेदम्" । "सुशून्यः" अतिशयेन नकिञ्चिद्रूपः । "भेदो" यस्य । तत् । सर्वथा स्वरूपभेदरहितमित्यर्थः । "अस्ति" । किम् "इव" । "गगनमिव" । यथा गगनं भेदरहितमस्ति । तथेत्यर्थः । फलितमाह "परमे"ति । अतः त्वं "इति निश्चयवान्" एवं निश्चययुक्तो । "भव" । कुतो । "ऽनुभूतितः" स्वानुभवेन । न तु मदुक्त्या कृतेन श्रद्धामात्रेण इति । किम् "इति" । "समस्तदृश्यं परमपदमयं" सर्वोत्तीर्णचित्स्वरूपमेव । भवति ॥ ३,१४.८५ ॥

 

 

 

श्रीवाल्मीकिर्भरद्वाजं प्रति तत्रत्यं सर्गान्तश्लोकेन दिनावसानं कथयति

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायन्तनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम ॥ ३,१४.८६ ॥

"इति" पूर्वोक्तम् । "मुनौ" श्रीवसिष्ठे । "उक्तवति" कथयति सति । "अथ" पूर्वश्लोकोक्तोपदेशानन्तरम् । "दिवसः" दिनम् । "जगाम" गतः । अत्र हेतुमाह "अस्तम्" इति । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" श्रोतॄणां सभा । "सायन्तनविधये" सायन्तनाग्निहोत्राद्यर्थम् । "स्नातुं जगाम" । स्नानं विना कुत्रापि विधावधिकाराभावात् । सा सभा "श्यामाक्षये" रात्र्यवसाने । दिनादाविति यावत् । "रविकरैः" सूर्यकिरणैः । "सह" । पुनः "आजगामा"गता । श्रवणार्थमिति शेषः । इति शिवम् ॥ ३,१४.८६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे चतुर्दशः सर्गः ॥ ३,१४ ॥