मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १५

← सर्गः १४ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः १६ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओं श्रीवसिष्ठः पूर्वदिने कथ्यमानमुपस्तौति

जगदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् ।

विमले भाति खात्मैव जगच्चिद्गगने तथा ॥ ३,१५.१ ॥

"इदम्" अनुभूयमानम् । "जगत्" । "आकाशमेव" भवति । अत्र हेतुत्वेन दृष्टान्तयुक्तं वाक्यमाह "यथा ही"ति । "हि" यस्मादर्थे । यस्मात्"जगत्विमले चिद्गगने" चिदाकाशे । "तथा" "भाति" । कथम्भूतम् "एव" । "खात्मैव" चिदाकाशस्वरूपमेव । "तथा" कथम् । "यथा व्योम्नि" भूताकाशे । "मौक्तिकं" मुक्तासमूहो । "भाति" । अयं भावः । यथा गगने भ्रमदृष्ट्या दृश्यमानं मौक्तिकमाकाशमेव तथा चिद्गगने दृश्यमानं जगदपि चिद्गगनमेवेति ॥ ३,१५.१ ॥

 

 

 

अनुत्कीर्णैव भातीव त्रिजगत्सालभञ्जिका ।

चित्स्तम्भे न च सोत्कीर्णा न चोत्कर्तात्र विद्यते ॥ ३,१५.२ ॥

"चित्स्तम्भे" चिदाख्ये स्तम्भे । "त्रिजगत्सालभञ्जिका" त्रिजगदाख्या पुत्रिक्"आनुत्कीर्णैव" सती । "भातीव" । परमार्थतस्तु न भातीत्"ईव"शब्दोपादानम् । ननु किमर्थं नोत्कीर्णास्तीत्य् । अत्राह "न चे"ति । "सा" जगदाख्या पुत्रिका । "न चोत्कीर्णा" । अर्हप्रत्ययार्थोऽत्र स्वयं बोद्धव्यः । उत्कर्तुं योग्या न भवति । नकिञ्चिद्रूपत्वात् । "न चात्रोत्कर्ता" उत्करणकर्ता । "विद्यते" । द्वैताभावात् ॥ ३,१५.२ ॥

 

 

समुद्रेऽन्तर्जलास्पन्दाः स्वभावादच्युता अपि ।

विदि वेद्या भवन्तीव परे दृश्यविदस्तथा ॥ ३,१५.३ ॥

यथेत्यध्याहार्यम् । "समुद्रेऽन्तः" समुद्रान्तर्भागे स्थिताः । "जलास्पन्दाः" तरङ्गाः । "स्वभावादच्युता अपि" जलाख्यात्स्वरूपादभ्रष्टा अपि । यथा "विदि" ज्ञाने विषये । "वेद्याः" वीचितया वेदितुं योग्या । "भवन्तीव" । परमार्थतस्तु न भवन्तीति "इव"शब्दोपादानम् । "तथा परे" उत्तीर्णे चित्स्वरूपे । "दृश्यविदः" दृश्यरूपा विदः । दृश्यानीति यावत् । "भवन्तीव" ॥ ३,१५.३ ॥

 

 

जलान्तर्गतसूर्याभाजालकारचनान्यपि ।

जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः ॥ ३,१५.४ ॥

जलस्यान्तर्गता सूर्याभा "जलान्तर्गतसूर्याभा" । तस्याः जालकारचनानि "जलान्तर्गतसूर्याभाजालकारचनान्यपि" । स्वभावश्चायं जलान्तर्गता सूर्याभा जालकरूपा सम्पद्यते । तानि "जगद्भानं प्रति" तथा "स्थूलानि" भवन्ति । "यथाचलाः" पर्वताः । "अणुं प्रति" स्थूलाः भवन्ति ॥ ३,१५.४ ॥

 

 

 

उक्तं दृष्टान्तस्थूलत्वं दृढयति

जगद्भानमभानाभं ब्रह्मणोऽव्यतिरेकतः ।

जलसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥ ३,१५.५ ॥

"जगद्भानमभानाभं" भवति । कुतः । "ब्रह्मणः अव्यतिरेकतः" ब्रह्मरूपत्वादित्यर्थः । "तु" व्यतिरेके । "जलसूर्यांशुजालं व्यतिरेकानुभूतिदम्" भेदप्रथाकारि भवति । अतोऽत्र स्थूलत्वं युक्तमिति भावः ॥ ३,१५.५ ॥

 

 

 

अनुभूतान्यपीमानि जगति व्योमरूपिणि ।

पृथ्व्यादीनि न सन्त्येव स्वप्नसङ्कल्पयोरिव ॥ ३,१५.६ ॥

"व्योमरूपिणि" चिन्मात्राकाशस्वरूपे । "जगति" । कयोर्"इव" । "स्वप्नसङ्कल्पयोरिव" । स्वप्ने सङ्कल्पे च "अनुभूतान्यपि पृथ्व्यादीनि" । यथा "न सन्ति" । तथेत्यर्थः ॥ ३,१५.६ ॥

 

 

पिण्डग्राहः सदित्यस्मिन् विज्ञानाकाशरूपिणि ।

मरुनद्यां जलमिव न सम्भवति कुत्रचित् ॥ ३,१५.७ ॥

ग्रहणं "ग्राहः" । पिण्डवत्ग्राहः "पिण्डग्राहः" । "सदिति" "पिण्डग्राहः" सद्व्यवहारहेतुः पिण्डग्राहः । "विज्ञानाकाशरूपिणि अस्मिन्न्" अनुभूयमाने । भवति । "कुत्रचित्" कुत्रापि । लेशेन "सम्भवति" । अत्र दृष्टान्तमाह "मरुनद्याम्" इति ॥ ३,१५.७ ॥

 

 

 

नन्वसत्स्वरूपे जगति दृश्यता कथं भाति इत्य् । अत्राह

जगत्यपिण्डग्राहेऽस्मिन् सङ्कल्पनगरोपमे ।

मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी ॥ ३,१५.८ ॥

अविद्यमानः पिण्डवत्ग्राहः यस्य । तस्मिन् "अपिण्डग्राहे" । "सङ्कल्पनगरोपमे" सङ्कल्पोल्लिखितनगरसदृशे । "ऽस्मिन् जगति दृश्यता" दृश्यभावः । "भ्रान्तिरूपिणी" मिथ्याज्ञानरूपा । "भाति" विलसति । क्"एव" । "मरौ" मरुदेशे । "सरिदिव" ॥ ३,१५.८ ॥

 

 

भ्रमरूपत्वेनासद्रूपस्य जगतः स्वप्नवत्तुलादेशापूरणं कथयति

स्वप्नाद्रिणेव जगता तुलादेशौ न कौचन ।

पूरितौ कलनोन्मुक्ता दृश्यश्रीर्व्योम केवलम् ॥ ३,१५.९ ॥

"स्वप्नाद्रिणेव" स्वप्नाद्रिवत् । "जगता तुलादेशौ पूरितौ न" भवतः । गुरुत्वस्यासद्रूपत्वात्"तुला"पूरणम् । विस्तारस्यासद्रूपत्वात्"देशा"पूरणम् । एतच्च स्वप्नादौ सर्वप्रतीतिसिद्धमेवेति तस्य दृष्टान्तता । फलितमाह "कलने"ति । "कलनोन्मुक्ता" दृश्यत्वाख्यकलनामुक्ता ॥ ३,१५.९ ॥

 

 

 

वर्जयित्वाज्ञविज्ञातजगच्छब्दार्थभावनाम् ।

जगद्ब्रह्मखशब्दानामर्थे नास्त्येव भिन्नता ॥ ३,१५.१० ॥

"अज्ञैः" चित्स्वरूपज्ञानशून्यैः । "विज्ञाता" स्वानुभवविषयीकृता । "जगच्छब्दार्थभावना" । "जगद्" इति "शब्दस्य" । तद्"अर्थस्य" च "भावना"नुसन्धानम् । तां "अज्ञविज्ञातजगच्छब्दार्थभावनां वर्जयित्वा" परित्यज्य । "जगद्ब्रह्मखशब्दानामर्थे भिन्नता" भेदो । "नास्त्येव" । पर्यायरूपा एवैते शब्दा इत्यर्थः । अज्ञस्याज्ञाततत्त्वतया जगतः आकाशरूपत्वं न सिद्धमिति जगत्सत्यत्वनिष्ठायाः तद्भावनायाः परित्याग उक्तः ॥ ३,१५.१० ॥

 

 

 

इदं त्वचेत्यचिन्मात्रभानोर्भानं नभः प्रति ।

तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः ॥ ३,१५.११ ॥

"तु" विशेषे । "अचेत्यचिन्मात्रभानोः" चेत्यादूषितचित्सूर्यस्य । "भानम्" आभासः । "इदं" जगत् । "नभः प्रति" बाह्याकाशापेक्षया । "तथा" तेन प्रकारेण । "सूक्ष्मं" भवति । "यथा मेघं प्रति" जाग्रद्दृष्टमेघापेक्षया । "सङ्कल्पवारिदः" स्वविकल्पोल्लेखितः मेघः सूक्ष्मो भवति ॥ ३,१५.११ ॥

 

 

यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।

तथा जगदिदं स्वच्छं सङ्कल्पितजगत्प्रति ॥ ३,१५.१२ ॥

"यथा" लौकिकबुद्ध्या । "जाग्रत्पुरवरं प्रति स्वप्नपुरं स्वच्छं" केवलाभासरूपत्वेन स्थूलताख्यमलरहितम् । भवति । "तथा" ज्ञानिदृष्ट्या । "इदं" जाग्रत्यनुभूयमानम् । "जगत्" । "सङ्कल्पितजगत्प्रति स्वच्छं" सङ्कल्पाख्यमलरहितशुद्धचिन्मात्ररूपत्वात्निर्मलं भवति । यद्यपि ज्ञानिनः स्वप्नपुरमपि तादृशमेव तथाप्यज्ञबोधनार्थमेवमुक्तम् ॥ ३,१५.१२ ॥

 

 

तस्मादचेत्यचिद्रूपं जगद्व्योमैव केवलम् ।

शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥ ३,१५.१३ ॥

"तस्मात्" पूर्वोक्ताथेतोः । "अचेत्यचिद्रूपं" शुद्धचिन्मात्ररूपम् । "जगत्" । "केवलं व्योमैव" भवति । फलितमाह "शून्याव्" इति । अतः "शून्यौ" पिण्डग्राहाभावेन नकिञ्चिद्रूपौ । "चिन्मयौ" चित्स्वरूपौ । "व्योमजगच्छब्दौ पर्यायौ विद्धि" एकार्थवाचकत्वात् ॥ ३,१५.१३ ॥

 

 

 

वक्ष्यमाणवृत्तान्ताकाङ्क्षया पूर्वोक्तमुपसंहरति त्रिभिः

तस्मान्न किञ्चिदुत्पन्नं जगदादीह दृश्यकम् ।

अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् ॥ ३,१५.१४ ॥

"तस्मात्" चिदेकमयत्वाथेतोः । "जगदादि दृश्यं किञ्चित्" लेशेनापि । "उत्पन्नं न" भवति । कथम्भूतम् । "अनाख्यं" नामानर्हम् । अत्र हेतुत्वेन विशेषणमाह्"आनभिव्यक्तम्" इन्द्रियागोचरम् । अन्यरूपत्वेन अनभिव्यक्तस्य हि नामायुक्तम् । ननु तर्हि अपूर्वत्वं जगतः स्यादित्याशङ्क्य विशेषणमाह्"आवस्थितम्" इति । "अवस्थितं" तिष्ठत् । कथम् । "यथास्थितं" । यथैव पूर्वं तथैव । न त्वपूर्वतयेत्यर्थः । यथा पूर्वं सर्पतया ज्ञाता रज्जुः ततः रज्जुतया ज्ञातापि पूर्ववदेव तिष्ठति । न त्वन्यरूपतां प्राप्नोति । तथेत्य्भावः ॥ ३,१५.१४ ॥

 

 

जगदेव महाकाशं चिदाकाशमभित्तिमत् ।

तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् ॥ ३,१५.१५ ॥

"जगत्" "चिदाकाशमेव" भवति । कथम्भूतं "चिदाकाशं" । "महाकाशं" बाह्याकाशापेक्षया महत्त्वात्महाकाशाख्यायुक्तम् । पुनः कथम्भूतम् । "अभित्तिमत्" । जीवादिप्रपञ्चः तत्तद्धर्माधारतया "भित्तिः" । तद्रहितम् । फलितमाह "तद्" इति । अतः "तत्" चिदाकाशमयं जगत् । गुरुत्वाभावेन वैपुल्याभावेन च्"आणुमात्रस्य देशस्य तुलायाश्चापूरकम्" भवति । पूरणकारि न भवति ॥ ३,१५.१५ ॥

 

 

 

तदेव पुनः विशिनष्टि

आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् ।

व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत्स्थितम् ॥ ३,१५.१६ ॥

"आकाशरूपमेव" नकिञ्चिद्रूपमेव । "अच्छं" शुद्धबोधस्वरूपम् । "पिण्डग्रहविवर्जितम्" । "पिण्ड"वत्यः "ग्रहः" । तेन "वर्जितम्" । युक्तं चाकाशस्य पिण्डग्रहरहितत्वम् । "व्योम्नि" चिदाकाशे । "व्योममयं" चिदाकाशमयम् । "चित्रम्" आलेख्यम् । "सङ्कल्पपुरवत्" सङ्कल्पोल्लिखितपुरवत् । "स्थितम्" व्यवतिष्ठमानम् । सङ्कल्पपुरस्य चाकाशमयत्वं तुलादेशापूरकत्वं च युक्तमेवेति सिद्धः सर्वस्य जगतः विवक्षितः अत्यन्ताभावः । यच्चोत्पत्तिः पूर्वमुक्ता साप्यनुत्पत्तिकल्पत्वेनात्यन्ताभावस्यैव साधनीति न पूर्वापरविरोधः ॥ ३,१५.१६ ॥

 

 

 

अथ जगतः तुलादेशाद्यपूरकत्वसाधकं महावृत्तान्तं वृत्तान्तकामान् प्रति कृपया कथयति

अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।

निःसन्देहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति ॥ ३,१५.१७ ॥

त्वम् । "अत्र" जगतो देशाद्यपूरकत्वे । "मण्डपाख्यानं" । मण्डपेति नाम्ना प्रसिद्धमाख्यानं "मण्डपाख्यानं" । "शृणु" । कथम्भूतम् । "श्रवणभूषणं" श्रवणार्हमित्यर्थः । ततः किमित्य् । अत्राह "निःसन्देह" इति । "यथा" येन । "निःसन्देहः" सन्देहान्निष्क्रान्तः । "एषः" पूर्वोक्तः । "अर्थः" । "चित्ते" त्वच्चित्ते । "विश्रान्तिमेष्यति" ॥ ३,१५.१७ ॥

 

 

 

त्वरयाविष्टः श्रीरामः मण्डपाख्यानं प्रति श्रीवसिष्ठं प्रार्थयति

सद्बोधवृद्धये ब्रह्मन् समासेन वदाशु मे ।

मण्डपाख्यानमखिलं येन बोधो विवर्धते ॥ ३,१५.१८ ॥

जगतः तुलादेशापूरकत्वज्ञानं "सद्बोधः" । तस्य "वृद्धये" । फलितमाह "येने"ति । "येन" उदितेनेत्यर्थः ॥ ३,१५.१८ ॥

 

 

 

श्रीवसिष्ठः मण्डपाख्यानमेव कथयति

अभूदस्मिन्महीपीठे कुलपद्मो विकासवान् ।

पद्मो नाम नृपः श्रीमान् बहुपुत्रोऽतिकोशवान्  ॥ ३,१५.१९ ॥

"अस्मिन्महीपीठे पद्मो नाम नृपः अभूत्" । तस्यैव नानाविधानि विशेषणान्याह "कुले"ति । "विकासवान् कुलपद्मः" । पद्मस्य च विकासो युक्तः । "पद्म"शब्दोऽत्र लक्षणया श्रेष्ठवाचकः । "अतिकोशवान्" बहुभाण्डागारयुक्तः ॥ ३,१५.१९ ॥

 

 

 

मर्यादापालनेऽम्भोधिर्द्विषत्तिमिरभास्करः ।

कान्ताकुमुदिनीचन्द्रो दोषतृष्णाहुताशनः ॥ ३,१५.२० ॥

"अम्भोधेः मर्यादपालनं" प्रसिद्धमेव । "कान्ताकुमुदिनीचन्द्रः" । "चन्द्रत्वम्" अस्य तद्विकासकारित्वेन । "दोषतृष्णाहुताशनत्वं" दोषतृष्णादाहकत्वेन ॥ ३,१५.२० ॥

 

 

 

मेरुर्विबुधवृन्दानां यशश्चन्द्रोद्भवार्णवः ।

सरः सद्गुणहंसानां कलाकमलभास्करः ॥ ३,१५.२१ ॥

"विबुधाः" पण्डिताः । त एव विबुधा देवाः । तेषाम् । "मेरुः" बहुकाञ्चनप्रदत्वेनाश्रयत्वेन च मेरुपर्वतसदृशः । "यश" इति । "यशःचन्द्रोद्भवेऽर्णवः" समुद्रः । "सद्गुण"रूपाणां "हंसानां सरः" । "कला" एव "कमलानि" । तेषां विकासप्रदत्वेन "भास्करः" ॥ ३,१५.२१ ॥

 

 

शात्रवाम्भोदपवनो मत्तमातङ्गकेसरी ।

समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥ ३,१५.२२ ॥

"शात्रवं" शत्रुसमूहः । स एव्"आम्भोदः" मेघः । तस्य "पवनः" नाशकारित्वात् । "मातङ्गा" अत्र शत्रुसेना या विवक्षिताः । "समस्ता" या "विद्या"रूपाः नायिकाः । तासां "दयितः" पतिः । "सर्वे" च ते "आश्चर्य"भूताः "गुणाः" । तेषाम् "आकरः" उत्पत्तिस्थानम् ॥ ३,१५.२२ ॥

 

 

शूरारिसागरक्षोभविलसन्मन्दराचलः ।

विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥ ३,१५.२३ ॥

"शूराश्" च ते "ऽरयः" । तद्रूपः यः "सागरः" । तस्य "क्षोभे विलसन्मन्दराचलः" । "विलासा" विभ्रमा एव । "पुष्पाणि" । तेषां यः "ओघः" । तस्य "मधुः" वसन्तः । विकासकारित्वात् । "सौभाग्येन" सुभगभावेन । "कुसुमायुधः" कामः ॥ ३,१५.२३ ॥

 

 

 

लीलालतालास्यमरुत्साहसोत्सवकेशवः ।

सौजन्यकैरवशशी दुर्लीलालतिकानलः ॥ ३,१५.२४ ॥

"लीला" इव "लता" । तस्या "लास्ये" नर्तने । "मरुत्" । लीलायुक्त इत्यर्थः । "साहसम्" एव हिताहितानपेक्षं कर्म एव । "उत्सवः" महः । तस्य "केशवः" विष्णुः । तस्य हिरण्याख्यादिवधसाहसकारित्वादुपमानत्वम् । "सौजन्यम्" एव "कैरवं" । तस्य विकासकारित्वात्"शशी" चन्द्रः । "दुर्लीलालतिकानां" दाहकत्वाद्"अनलः" अग्निः ॥ ३,१५.२४ ॥

 

 

 

तस्यासीत्सुभगा भार्या लीला नाम विलासिनी ।

सर्वसौभाग्यवलिता कमलेवोदितावनौ ॥ ३,१५.२५ ॥

"तस्य" पद्माख्यस्य राज्ञः । "लीला नाम भार्या" लीलाख्या भार्य्"आसीत्" । अस्या विशेषणान्याह "सुभगे"ति । "सुभगा" प्रशस्तरूपयुक्ता । "विलासिनी" विलासयुक्ता । "सर्वसौभाग्यैः वलिता" भरित्"आवनौ" भूमौ । "कमलेवोदिता" उत्पन्ना ॥ ३,१५.२५ ॥

 

 

सर्वसम्पत्तिवलिता लीलामधुरभाषिणी ।

सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥ ३,१५.२६ ॥

"लीले"ति । "लीलया मधुरं भाषिणी" । "सानन्दे"ति । "सानन्दं मन्दं चलितं" यस्याः । सा । "द्वितीये"ति । "द्वितीयेन्दूदय"भूतं "स्मितं" यस्याः । सा ॥ ३,१५.२६ ॥

 

 

 

अलकालिमनोहारिवदनाम्भोजशालिनी  ।

शीताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥ ३,१५.२७ ॥

"अलकाल्या" "मनोहारि" यत्"वदनाम्भोजं" । तेन "शालिनी" । "शीताङ्गी" शिशिराङ्गी । "कर्णिके"ति । "कर्णिका"वद्"गौरी" । क्"एव" । "जङ्गमा" सञ्चारिणी । "सरोजिनीव" । सरोजिन्यपि "अलिमनोहारि" "अम्भोजशालिनी शीताङ्गी कर्णिकया गौरी" भवति ॥ ३,१५.२७ ॥

 

 

 

लताविलासकुन्दौघहासिनी रसशालिनी ।

प्रबालहस्ता पुष्पाढ्या मधुश्रीरिव देहिनी ॥ ३,१५.२८ ॥

"शालिनी" शृङ्गारसुशालिनी । "प्रबाले"ति । प्रबालवत्"हस्तौ" यस्याः । सा । "पुष्पे"ति । "पुष्पैर्" आभरणभूतैः पुष्पैर् । "आढ्या "। क्"एव" । "देहिनी" मूर्तिमती । "मधुश्रीरिव" । सापि "कुन्दौघैः हासिनी" । "रसेन" वसन्तरसेन । "शालिनी" च भवति । शेषं समानम् ॥ ३,१५.२८ ॥

 

 

 

अवदाता तनुः पुण्या जनताह्लाददायिनी ।

गङ्गेव गां गता देवनदी हंसविलासिनी ॥ ३,१५.२९ ॥

"अवदाता तनुः" सिताङ्गी । "पुण्या" भाग्यवती । "जनते"ति । "जनतायाः आह्लाददायिनी" । "हंसे"ति । "हंस"वत्"विलास"युक्ता । क्"एव" । "गां" भूमिम् । "गता" । "देवनदी गङ्गेव" । सापि तादृश्येव भवति ॥ ३,१५.२९ ॥

 

 

तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।

परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता ॥ ३,१५.३० ॥

"पुष्पेषोः" "रतेः" "परिचर्यां कर्तुं" युक्तत्वातेतदुक्तम् ॥ ३,१५.३० ॥

 

 

 

सर्गान्तश्लोकेन तस्याः सतीगुणानाह

उद्विग्ने प्रोद्विग्ना मुदिता मुदिते समाकुलाकुलिते ।

प्रतिबिम्बसमा कान्ता सङ्क्रुद्धे केवलं भीता ॥ ३,१५.३१ ॥

सा "कान्ता" । तस्येति शेषः । तस्य राज्ञः । "प्रतिबिम्बसमा"सीत् । कथम्भूता । तस्मिन् प्र्"ओद्विग्ने" सति । "प्रोद्विग्ना" । तस्मिन् "मुदिते" सति । "मुदिता" । तस्मिन् सम्"आकुले" सति । "समाकुला" । तस्मिन् "सङ्क्रुद्धे" सति । "केवलं भीता" । एतावन्मात्रेणैव "केवलं" सा विरुद्धासीदिति भावः । इति शिवम् ॥ ३,१५.३१ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे पञ्चदशः सर्गः ॥ ३,१५ ॥