योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ०१

योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ०१
अज्ञातलेखकः
सर्गः २ →
स्थितिप्रकरणम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२


प्रथमःसर्गः१

अथोत्पत्तिप्रकरणादनन्तरमिदं श्रृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ।। १
एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।
अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ।। २
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम् ।। ३
भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् ।
मर्कटानलतापान्तमसदेवार्थसाधकम् ।। ४
ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् ।
सद्रूमपि निःशून्यं तेजः सौरमिवाम्बरे ।। ५
रत्नाभापुंजमिव खे दृश्यमानमभित्तिमत् ।
गन्धर्वाणां पुरमिव दृश्यं नित्यमभित्तिमत् ।। ६
मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् ।
संकल्पपुरवत्प्रौढमनुभूतमसन्मयम् ।। ७
कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् ।
निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् ।। ८
भूताकाशमिवाकारभासुरं शून्यमात्रकम् ।
शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम् ।। ९
वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् ।
स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् ।। १०
चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ।
प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम् ।। ११
अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ।
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ।। १२
शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ।
अपिण्डग्रहमाशून्यमिन्द्रचापमिवोत्थितम् ।। १३
परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः ।
कृतं जडमसारात्म कदलीस्तम्भभासुरम् ।। १४
स्फुरितेक्षणदृष्टान्धकारचक्रकवर्तनम् ।
अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् ।। १५
वार्बुद्बुदमिवाभोगि शून्यमन्तःस्फुरद्वपुः ।
रसात्मकं चाप्यरसमविच्छिन्नक्षयोदयम् ।। १६
नीहार इव विस्तारि गृहीतं सन्न किंचन ।
जडशून्यास्पदं शून्यं केषांचित्परमाणुवत् ।। १७
किंचिद्भूतमयोऽस्मीति स्थितं शून्यमभूतकम् ।
गृह्यमाणोऽप्यसद्रूपो निशाचर इवास्थितम् ।। १८
श्रीराम उवाच ।
महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरः ।
परे भूय उदेत्येतत्तत एवेति किं वद ।। १९
एवं बोधाः किमज्ञाः स्युरुत ज्ञा इति च स्फुटम् ।
यथावद्भगवन्ब्रूहि सर्वसंशयशान्तये ।। २०
श्रीवसिष्ठ उवाच ।
इदं बीजेऽङ्कुर इव दृश्यमास्ते महाशये ।
ब्रूते य एवमज्ञत्वमेतत्तस्यास्ति शैशवम् ।। २१
श्रृण्वेतत्किमसंबन्धं कथमेतदवास्तवम् ।
विपरीतो बोध एष वक्तुः श्रोतुश्च मोहकृत् ।। २२
बीजे किलाङ्कुर इव जगदास्त इतीह या ।
बुद्धिः सा सत्प्रलापार्थं मूढा श्रृणु कथं किल ।। २३
बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरम् ।
यवधानादिधान्यानि युक्तः पत्राङ्कुरोद्भवः ।। २४
मनःषष्ठेन्द्रियातीतं यत्स्यादतितरामणु ।
बीजं तद्भवितुं शक्तं स्वयंभूर्जगतां कथम् ।। २५
आकाशादपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाख्यानुपलम्भस्य कीदृशी बीजता कथम् ।। २६
तत्सूक्ष्ममसदाभासमसदेव ह्यतादृशम् ।
कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ।। २७
गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ।। २८
न किंचिद्यत्कथं किंचित्तत्रास्ते वस्तु वस्तुनि ।
अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते ।। २९
न किंचिदात्मनः किंचित्कथमेति कुतोऽथवा ।
शून्यरूपाद्धटाकाशाज्जातोऽद्रिः क्व कुतः कदा ।। ३०
प्रतिपक्षे कथं किंचिदास्ते च्छायातपे यथा ।
कथमास्ते तमो भानौ कथमास्ते हिमोऽनले ।। ३१
मेरुरास्ते कथमणौ कुतः किंचिदनाकृतौ ।
तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव ।। ३२
साकारवटधानादावङ्कुराः सन्ति युक्तिमत् ।
नाकारे तन्महाकारं जगदस्तीत्ययुक्तिकम् ।। ३३
देशान्तरे यच्च नरान्तरे च
बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यम् ।
नास्त्येव तत्तद्विधबुद्धिबोधे
न किंचिदित्येव तदुच्यते च ।। ३४
कार्यस्य तत्कारणतां प्रयातं
वक्तीति यस्तस्य विमूढबोधः ।
कैर्नाम तत्कार्यमुदेति तस्मा-
त्स्वैः कारणाद्यैः सहकारिरूपैः ।। ३५
दुर्बुद्धिभिः कारणकार्यभावं
संकल्पितं दूरतरे व्युदस्य ।
तदेव तत्सत्यमनादिमध्यं
जगत्तदेतत्स्थितमित्यवेहि ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु स्थितिप्रकरणे जन्यजनिनिराकरणं नाम प्रथमः सर्गः ।। १ ।।