योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ०२

← सर्गः १ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ०२
अज्ञातलेखकः
सर्गः ३ →
स्थितिप्रकरणम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२


द्वितीयः सर्गः २

श्रीवसिष्ठ उवाच ।
अथैतदभ्युपगमे वच्मि वेद्यविदां वर ।
समस्तकलनातीते महाचिद्व्योम्नि निर्मले ।। १
जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा ।
कैरिवोदेति कथय कारणैः सहकारिभिः ।। २
सहकारिकारणानामभावे त्वङ्कुरोद्गतिः ।
वन्ध्याकन्येव दृष्टेह न कदाचन केनचित् ।। ३
सहकारिकारणानामभावे यद्यवोदितम् ।
मूलकारणमेवाङ्ग तत्स्वभावस्थितिं गतम् ।। ४
सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति ।
यथास्थितमनाकारं क्व जन्यजनकक्रमः ।। ५
अथ पृथ्व्यादयोऽन्ये वा केचिदत्रोपकुर्वते ।
सहकारिकारणत्वं तत्पूर्वं चात्र दूषणम् ।। ६
तस्मात्पदे जगच्छान्तमास्ते तत्सहकारिभिः ।
चित्तात्प्रसरतीत्युक्तिर्वालस्य न विपश्चितः ।। ७
तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति ।
चेतनाकाशमेवाशु कचतीत्थमिवात्मनि ।। ८
अत्यन्ताभाव एवास्य जगतो विद्यते यदा ।
तदा ब्रह्मेदमखिलमिति तद्राम नान्यथा ।। ९
पूर्व प्रध्वंसनान्योन्याभावैर्यदुपशाम्यति ।
न शाम्यत्येव तच्चित्ते शाम्यत्येव तु दृश्यते ।। १०
अत्यन्ताभाव एवास्य भावैर्यदुपशाम्यति ।
न शाम्यत्येव सच्चित्ते क्व शाम्यत्येव दृश्यता ।। ११
अत्यन्ताभाव एवातो जगद्दृश्यस्य सर्वथा ।
वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसंक्षये ।। १२
चिदाकाशस्य बोधोऽयं जगद्भातीति यत्स्थितम् ।
अयं सोऽहमिदं नाहं लोके चित्रकथा यथा ।। १३
इदमद्यादि पृथ्व्यादि तथेदं वत्सरादि च ।
अयं कल्पः क्षणश्चायमिमे मरणजन्मनी ।। १४
अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।
अयं स सर्गप्रारम्भो भाव्यभावक्रमस्त्वसौ ।। १५
लक्ष्माणीमानि कल्पानामिमा ब्रह्माण्डकोटयः ।
एते चेमे परिगता इमे भूय उपागताः ।। १६
इमानि धिष्ण्यजालानि देशकालकला इमाः ।
महाचित्परमाकाशमनावृतमनन्तकम् ।। १७
यथापूर्वं स्थितं शान्तमित्येवं कचति स्वयम् ।
परमाणुसहस्रांशुभास एता महाचितेः ।। १८
स्वयमन्तश्चमत्कारो यः समुद्गीर्यते चिता ।
तत्सर्गभानं भातीदमरूपं नतु भित्तिमत् ।। १९
नोद्यन्ति नच नश्यन्ति नायान्ति नच यान्ति च ।
महाशिलासु लेखानां सन्निवेशा इवाचलाः ।। २०
इमे सर्गाः प्रस्फुरन्ति स्वात्मनात्मनि निर्मले ।
नभसीव नभोभागा निराकारा निराकृतौ ।। २१
द्रवत्वानीव तोयस्य स्पन्दा इव सदागतौ ।
आवर्ता इव चाम्भोधेर्गुणिनो वा यथा गुणाः ।। २२
विज्ञानघनमेवैकमिदमेवमवस्थितम् ।
सोदयास्तमयारम्भमनन्तं शान्तमाततम् ।। २३
सहकार्यादिहेतूनामभावे शून्यतो जगत् ।
स्वयंभूर्जायते चेति किलोन्मत्तकफूत्कृतम् ।। २४
प्रशान्तसर्वार्थकलाकलङ्को
निरस्तनिःशेषविकल्पतल्पः ।
चिराय विद्रावितदीर्घनिद्रो
भवाभयो भूषितभूः प्रबुद्धः ।। २५ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे स्थितिबीजोपन्यासो नाम द्वितीयः सर्गः। २