← दशमः सर्गः रघुवंशम्
एकादशः सर्गः
कालिदासः
द्वादशः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ ११.१ ॥
कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ ११.२ ॥
यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ११.३ ॥
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ११.४ ॥
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ११.५ ॥
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ११.६ ॥
रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीमनुद्रुतौ ।
उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव ॥ ११.६* ॥
मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ११.७ ॥
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ११.८ ॥
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ११.९ ॥
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ ११.१० ॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११.११ ॥
नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ ११.१२ ॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ ११.१३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥ ११.१४ ॥
ज्यानिनिआदमथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ ११.१५ ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ ११.१६ ॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥ ११.१७ ॥
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ ११.१८ ॥
बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ११.१९ ॥
राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ११.२० ॥
नैरृतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ ११.२१ ॥
वामनाश्रमपदं ततः परं पावनं श्रुअमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ ११.२२ ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनम् ॥ ११.२३ ॥
तत्र दीक्षितमृषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव ॥ ११.२४ ॥
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ ११.२५ ॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ ११.२६ ॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ ११.२७ ॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्त्रमिव ताडकासुतम् ॥ ११.२८ ॥
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः ॥ ११.२९ ॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ॥ ११.३० ॥
तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ११.३१ ॥
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन् वशी ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ११.३२ ॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ११.३३ ॥
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसामनुग्रहः ॥ ११.३४ ॥
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ११.३५ ॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ ११.३६ ॥
यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥ ११.३७ ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया ॥ ११.३८ ॥
अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ११.३९ ॥
ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिगिति प्रतस्थिरे ॥ ११.४० ॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथ वा कृतं गिरा ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ११.४१ ॥
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ११.४२ ॥
व्यादिदेश गणः सपार्श्वगान् कर्मुकाभरणाय मैथिलः ।
तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ११.४३ ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानौसारिणं येन बाणमसृजद्वृषध्वजः ॥ ११.४४ ॥
आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ११.४५ ॥
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिति न्यवेदयत् ॥ ११.४६ ॥
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ११.४७ ॥
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजां ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ११.४८ ॥
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ११.४९ ॥
उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तम् ।
गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतामकालहृत् ॥ ११.४९* ॥
अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितम् ॥ ११.५० ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनमग्रजन्मनः ।
उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ११.५१ ॥
आससाद मिथिलां स वेष्टयन् पिडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ११.५२ ॥
तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ११.५३ ॥
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ११.५४ ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ११.५५ ॥
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥ ११.५६ ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ११.५७ ॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ११.५८ ॥
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ११.५९ ॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ११.६० ॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ ११.६१ ॥
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् ।
अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥ ११.६२ ॥
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ११.६३ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ११.६४ ॥
येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ११.६५ ॥
अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ॥ ११.६६ ॥
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ११.६७ ॥
रामनाम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ११.६८ ॥
अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ११.६९ ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ११.७० ॥
क्षत्रजातमपकारि वैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥ ११.७१ ॥
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः ।
तन्निशम्य बहवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥ ११.७२ ॥
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् ।
व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ११.७३ ॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ ।
होमधेनुहरणाच्च हैहयस्त्वं च इर्तिमपहर्तुमुद्यतः ॥ ११.७४ ॥
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ११.७५ ॥
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ११.७६ ॥
तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ११.७७ ॥
कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥ ११.७८ ॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ११.७९ ॥
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ११.८० ॥
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ११.८१ ॥
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ११.८२ ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसूनसंनिभः ॥ ११.८३ ॥
न प्रहर्तुमलमस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि ।
शंष किं गतिमनेन पत्त्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ ११.८४ ॥
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥ ११.८५ ॥
भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ११.८६ ॥
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ११.८७ ॥
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ११.८८ ॥
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन् समस्पृषत् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ११.८९ ॥
राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ११.९० ॥
साधु याम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ११.९१ ॥
स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि ।
स्वस्तिदानमधिकृत्य चाक्षयं भार्गवोऽथ निजमाश्रमं ययौ ॥ ११.९१* ॥
तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् ।
तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ ११.९२ ॥
अथ पथि गमयित्वा कॢपरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पह् ।
पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ११.९३ ॥


कौशिकेन स किल क्षितीश्वरो रामं अध्वरविघातशान्तये ।
काकपक्षधरं एत्य याचितस्तेजसां हि न वयः समीक्ष्यते । । ११.१ । ।

कृच्छ्रलब्धं अपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणं ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता । । ११.२ । ।

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियां ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः । । ११.३ । ।

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः । । ११.४ । ।

तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तं ऋषिं अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ । । ११.५ । ।

लक्ष्मणानुचरं एव राघवं नेतुं ऐच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा । । ११.६ । ।

रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीं अनुद्रुतौ ।
उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव । । ११.६* । ।

मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव । । ११.७ । ।

वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलं अप्यशोभत ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितं । । ११.८ । ।

तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव । । ११.९ । ।

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारं अपि न व्यभावयथ् । । ११.१० । ।

तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे । । ११.११ । ।

नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदां ।
दर्शनेन लघुना यथा तयोः प्रीतिं आपुरुभयोस्तपस्विनः । । ११.१२ । ।

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा । । ११.१३ । ।

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यतां । । ११.१४ । ।

ज्यानिनिआदं अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी । । ११.१५ । ।

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया । । ११.१६ । ।

उद्यतैकभुजयष्टिं आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलां ।
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः । । ११.१७ । ।

यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतां अगमदन्तकस्य तथ् । । ११.१८ । ।

बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलां ।
विष्टपत्रयपराजयस्थिरां रावणश्रियं अपि व्यकम्पयथ् । । ११.१९ । ।

राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा । । ११.२० । ।

नैरृतघ्नं अथ मन्त्रवन्मुनेः प्रापदस्त्रं अवदानतोषिताथ् ।
ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः । । ११.२१ । ।

वामनाश्रमपदं ततः परं पावनं श्रुअं ऋषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः । । ११.२२ । ।

आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणं ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनं । । ११.२३ । ।

तत्र दीक्षितं ऋषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकं अन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव । । ११.२४ । ।

वीक्ष्य वेदिं अथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषितां ।
संभ्रमोऽभवदपोढकर्मणां ऋत्विजां च्युतविकङ्कतस्रुचां । । ११.२५ । ।

उन्मुखः सपदि लक्ष्मणाग्रजो बाणं आश्रयमुखात्समुद्धरन् ।
रक्षसां बलं अपश्यदम्बरे गृध्रपक्षपवनेरितध्वजं । । ११.२६ । ।

तत्र यावधिपती मखद्विषां तौ शरव्यं अकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते । । ११.२७ । ।

सोऽस्त्रं उग्रजवं अस्त्रकोविदः संदधे धनुषि वायुदैवतं ।
तेन शैलगुरुं अप्यपातयत्पाण्डुपत्त्रं इव ताडकासुतं । । ११.२८ । ।

यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः । । ११.२९ । ।

इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनं अभिनन्द्य विक्रमं ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः । । ११.३० । ।

तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः ।
आशिषां अनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना । । ११.३१ । ।

तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलं । । ११.३२ । ।

तैः शिवेषु वसतिर्गताध्वभिः सायं आश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ । । ११.३३ । ।

प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसां अनुग्रहः । । ११.३४ । ।

राघवान्वितं उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धं इव धर्मं अभ्यगाथ् । । ११.३५ । ।

तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातं अपि वञ्चनां मनः । । ११.३६ । ।

यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः ।
रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः । । ११.३७ । ।

तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया । । ११.३८ । ।

अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करं ।
तत्र नाहं अनुमन्तुं उत्सहे मोघवृत्ति कलभस्य चेष्टितं । । ११.३९ । ।

ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे । । ११.४० । ।

प्रत्युवाच तं ऋषिर्निशम्यतां सारतोऽयं अथ वा कृतं गिरा ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव । । ११.४१ । ।

एवं आप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिं इव कृष्णवर्त्मनि । । ११.४२ । ।

व्यादिदेश गणः सपार्श्वगान्कर्मुकाभरणाय मैथिलः ।
तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः । । ११.४३ । ।

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानौसारिणं येन बाणं असृजद्वृषध्वजः । । ११.४४ । ।

आततज्यं अकरोत्स संसदा विस्मयस्तिमितनेत्रं ईक्षितः ।
शैलसारं अपि नातियत्नतः पुष्पचापं इव पेशलं स्मरः । । ११.४५ । ।

भज्यमानं अतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रं उद्यतं इति न्यवेदयथ् । । ११.४६ । ।

दृष्टसारं अथ रुद्रकार्मुके वीर्यशुल्कं अभिनन्द्य मैथिलः ।
राघवाय तनयां अयोनिजां रूपिणीं श्रियं इव न्यवेदयथ् । । ११.४७ । ।

मैथिलः सपदि सत्यसंगरो राघवाय तनयां अयोनिजां ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् । । ११.४८ । ।

प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसं ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलं इदं निमेरिति । । ११.४९ । ।

उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तं ।
गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतां अकालहृथ् । । ११.४९* । ।

अन्वियेष सदृशीं स च स्नुषां प्राप चैनं अनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितं । । ११.५० । ।

तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनं अग्रजन्मनः ।
उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः । । ११.५१ । ।

आससाद मिथिलां स वेष्टयन्पिडितोपवनपादपां बलैः ।
प्रीतिरोधं असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगं आयतं । । ११.५२ । ।

तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः । । ११.५३ । ।

पार्थिवीं उदवहद्रघूद्वहो लक्ष्मणस्तदनुजां अथोर्मिलां ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे । । ११.५४ । ।

ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः । । ११.५५ । ।

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थतां ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः । । ११.५६ । ।

एवं आत्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत । । ११.५७ । ।

तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीं उत्तटा इव नदीरयाः स्थलीं । । ११.५८ । ।

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः । । ११.५९ । ।

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः । । ११.६० । ।

भास्करश्च दिशं अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः । । ११.६१ । ।

तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिं अधिकृत्य कृत्यविथ् ।
अन्वयुङ्क्त गुरुं ईश्वरः क्षितेः स्वन्तं इत्यलघयत्स तद्व्यथां । । ११.६२ । ।

तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिराथ् । । ११.६३ । ।

पित्र्यं अंशं उपवीतलक्षणं मातृकं च धनुरूर्जितं दधथ् ।
यः सस्ॐअ इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः । । ११.६४ । ।

येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही । । ११.६५ । ।

अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनां इवोद्वहन् । । ११.६६ । ।

तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितं ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः । । ११.६७ । ।

रामनाम इति तुल्यं आत्मजे वर्तमानं अहिते च दारुणे ।
हृद्यं अस्य भयदायि चाभवद्रत्नजातं इव हारसर्पयोः । । ११.६८ । ।

अर्घ्यं अर्घ्यं इति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशं उदग्रतारकां । । ११.६९ । ।

तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना । । ११.७० । ।

क्षत्रजातं अपकारि वैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवाथ् । । ११.७१ । ।

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वं अक्षणोः ।
तन्निशम्य बहवता समर्थये वीर्यशृङ्गं इव भग्नं आत्मनः । । ११.७२ । ।

अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मां अगाथ् ।
व्रीडं आवहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि । । ११.७३ । ।

बिभ्रतोऽस्त्रं अचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ ।
ह्ॐअ-धेनु-हरणाच्च हैहयस्त्वं च इर्तिं अपहर्तुं उद्यतः । । ११.७४ । ।

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मां अवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः । । ११.७५ । ।

विद्धि चात्तबलं ओजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलं अनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमं । । ११.७६ । ।

तन्मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां ।
तिष्ठतु प्रधनं एवं अप्यहं तुल्यबाहुतरसा जितस्त्वया । । ११.७७ । ।

कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतां अभययाचनाञ्जलिः । । ११.७८ । ।

एवं उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणं एव राघवः प्रत्यपद्यत समर्थं उत्तरं । । ११.७९ । ।

पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवथ् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः । । ११.८० । ।

तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितं ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः । । ११.८१ । ।

तावुभावपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव । । ११.८२ । ।

तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यं आत्मनि ।
स्वं च संहितं अमोघं आशुगं व्याजहार हरसूनसंनिभः । । ११.८३ । ।

न प्रहर्तुं अलं अस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि ।
शंष किं गतिं अनेन पत्त्रिणा हन्मि लोकं उत ते मखार्जितं । । ११.८४ । ।

प्रत्युवाच तं ऋषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनं ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा । । ११.८५ । ।

भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागरां ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया । । ११.८६ । ।

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपं । । ११.८७ । ।

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकं ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः । । ११.८८ । ।

राघवोऽपि चरणौ तपोनिधेः क्षम्यतां इति वदन्समस्पृषथ् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये । । ११.८९ । ।

राजसत्वं अवधूय मातृकं पित्र्यं अस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययं अनुग्रहीकृतः । । ११.९० । ।

साधु याम्यहं अविघ्नं अस्तु ते देवकार्यं उपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजं ऋषिस्तिरोदधे । । ११.९१ । ।

स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि ।
स्वस्तिदानं अधिकृत्य चाक्षयं भार्गवोऽथ निजं आश्रमं ययौ । । ११.९१* । ।

तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातं ।
तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः । । ११.९२ । ।

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुरं अविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानां । । ११.९३ । ।