रघुवंशम्/अष्टादशः सर्गः
← सप्तदशः सर्गः | रघुवंशम् अष्टादशः सर्गः कालिदासः |
एकोनविंशः सर्गः → |
रघुवंशस्य सर्गाः |
---|
स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः । |
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । |
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः । |
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । |
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । |
नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं । |
तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं । |
तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः । |
स क्षेमधन्वानं अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षं । |
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूथ् । |
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । |
पूर्वस्तयोरात्मसमे चिरोढां आत्मोद्भवे वर्णचतुष्टयस्य । |
वशी सुतस्तस्य वशंवदत्वात्स्वेषां इवासीद्द्विषतां अपीष्टः । |
अहीनगुर्नाम स गां समग्रां अहीनबाहुद्रविणः शशास । |
गुरोः स चानन्तरं अन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः । |
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयं । |
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । |
तं आत्मसंपन्नं अनिन्दितात्मा कृत्वा युवानं युवराजं एव । |
तं रागबन्धिष्ववितृप्तं एव भोगेषु सौभाग्यविशेषभोग्यं । |
उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः । |
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । |
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणं अर्णवान्ता । |
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदं अश्विरूपः । |
आराध्य विश्वेश्वरं ईश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे । |
अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । |
पिता पितःणां अनृणस्तं अन्ते वयस्यनन्तानि सुखानि लिप्सुः । |
कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य । |
कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिं आजगाम । |
यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्कां । |
पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः । |
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । |
तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यं असूत पत्नी । |
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा । |
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीं । |
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । |
स्वर्गामिनस्तस्य तं ऐकमत्यादमात्यवर्गः कुलतन्तुं एकं । |
ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । |
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः । |
तं राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेषं । |
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । |
तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठं । |
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या । |
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षथ् । |
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । |
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगाथ् । |
न्यस्ताक्षरां अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावथ् । |
उरस्यपर्याप्तभागा प्रौढीभविष्यन्तं उदीक्षमाणा । |
अनश्नुवानेन युगोपमानं अबद्धमौर्वीकिणलाञ्छनेन । |
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिं । |
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणां । |
व्यूह्य स्थितः किंचिदिवोत्तरार्धं उन्नद्धचूडोऽञ्चितस्व्यजानुः । |
अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालं । |
प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । |