रघुवंशम्/सप्तदशः सर्गः
← षोडशः सर्गः | रघुवंशम् सप्तदशः सर्गः कालिदासः |
अष्टादशः सर्गः → |
रघुवंशस्य सर्गाः |
---|
अतिथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती । |
स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती । |
तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः । |
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । |
स कुलोचितं इन्द्रस्य साहायकं उपेयिवान् । |
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । |
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक् । |
तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः । |
ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः । |
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । |
नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः । |
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । |
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । |
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । |
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । |
तस्य सन्मन्त्रपूताभिः स्नानं अद्भिः प्रतीच्छतः । |
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु । |
ते प्रीतमनसस्तस्मै यां आशिषं उदीरयन् । |
बन्धच्छेदं स बद्धानां वधार्हाणां अवध्यतां । |
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । |
ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि । |
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । |
तेऽ स्य मुक्तागुणोन्नद्धं मौलिं अन्तर्गतस्रजं । |
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । |
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । |
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । |
स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः । |
वितानसहितं तत्र भेजे पैतृकं आसनं । |
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महथ् । |
बभौ भूयः कुमारत्वादाधिराज्यं अवाप्य सः । |
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणं । |
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजां । |
तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा । |
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः । |
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः । |
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः । |
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता । |
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः । |
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयं । |
ततः परं अभिव्यक्तास्ॐअनस्यनिवेदितैः । |
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः । |
यदुवाच न तन्मिथ्या यद्ददौ न जहार तथ् । |
वयोरूपविभूतीनां एकैकं मदकारणं । |
इत्थं जनितरागासु प्रकृतिष्वनुवासरं । |
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः । |
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । |
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं । |
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । |
रात्रिंदिवविभागेषु यदादिष्टं महीक्षितां । |
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । |
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । |
दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषां । |
बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । |
अपथेन प्रववृते न जातूपचितोऽपि सः । |
कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः । |
शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः । |
न धर्मं अर्थकामाभ्यां बबाधे न च तेन तौ । |
हीनान्यनुपकर्तःणि प्रवृद्धानि विकुर्वते । |
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलं । |
कोशेनाश्रयणीयत्वं इति तस्यार्थसंग्रहः । |
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । |
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । |
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । |
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । |
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः । |
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् । |
स गुणानां बलानां च षण्णां षण्मुखविक्रमः । |
इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधां । |
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि । |
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः । |
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । |
सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः । |
स्तूयमानः स जिह्राय स्तुत्यं एव समाचरन् । |
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः । |
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः । |
पराभिसंधानपरं यद्यप्यस्य विचेष्टितं । |
एवं उद्यन्प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना । |
पञ्चमं लोकपालानां तं ऊचुः साम्ययोगतः । |
दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पितां । |
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ । |
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणां । |