रघुवंशम्/प्रथमः सर्गः
← अनुक्रमणिका | रघुवंशम् प्रथमसर्गः कालिदासः |
द्वितीयः सर्गः → |
रघुवंशस्य सर्गाः |
---|
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । |
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । |
मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् । |
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । |
सोऽहम् आजन्मशुद्धानाम् आफलोदयकर्मणाम् । |
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । |
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । |
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । |
रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । |
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । |
वैवसतो मनुर्नाम माननीयो मनीषिणाम् । |
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । |
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । |
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना । |
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । |
भीमकान्तैर्नृपगुणैः स भभूवोपजीविनां । |
रेखामात्रं अपि क्षुण्णादा मनोर्वर्त्मनः परं । |
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । |
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनं । |
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । |
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । |
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । |
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । |
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । |
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । |
दुधोह गां स यज्ञाय सस्याय मघवा दिवं । |
न किलानुययुस्तस्य राजानो रक्षितुर्यशः । |
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधं । |
तं वेधा विदधे नूनं महाभूतसमाधिना । |
स वेलावप्रवलयां परिखीकृतसागरां । |
तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा । |
कलत्रवन्तं आत्मानं अवरोधे महत्यपि । |
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । |
संतानार्थाय विधये स्वभुजादवतारिता । |
गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमां । |
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । |
स्निग्धगम्भीरनिर्घोषं एकं स्यन्दनं आस्थितौ । |
मा भूदाश्रमपीडेति परिमेयपुरःसरौ । |
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । |
मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । |
परपराक्षिसादृश्यं अदूरोज्झितवर्त्मसु । |
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजं । |
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । |
सरसीष्वरविन्दानां वीचिविक्षोभशीतलं । |
ग्रामेष्वात्मविषृटेषु यूपचिह्नेषु यज्वनां । |
हैयंगवीनं आदाय घोषवृद्धानुपस्थितान् । |
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः । |
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । |
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । |
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः । |
आकीर्णं ऋषिपत्नीनां उटजद्वाररोधिभिः । |
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकं । |
आतपात्ययसंक्शिप्तनीवारासु निषादिभिः । |
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । |
अथ यन्तारमादिष्य धुर्यान्विश्रमयेति सः । |
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । |
विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिं । |
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी । |
तं आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं । |
अथाऽथर्वनिधेस्तस्य विजितारिपुरः पुरः । |
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । |
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः । |
हविरावर्जितं होतस्त्वया विधिवदग्निषु । |
पुरुषायुषजीविन्यो निरातङ्का निरीतयः । |
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । |
किं तु वध्वां तवैतस्यां अदृष्टसदृशप्रजं । |
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । |
मत्परं दुर्लभं मत्वा नूनं आवर्जितं मया । |
सोऽहं इज्याविशुद्धात्मा प्रजालोपनिमीलितः । |
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवं । |
तया हीनं विधातर्मां कथं पश्यन्न दूयसे । |
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । |
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि । |
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । |
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणं । |
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः । |
धर्मलोपभयाद्राज्ञीं ऋतुस्नातां इमां स्मरन् । |
अवजानासि मां यस्मादतस्ते न भविष्यति । |
स शापो न त्वया राजन्न च सारथिना श्रुतः । |
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः । |
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः । |
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । |
इति वादिन एवास्य होतुराहुतिसाधनं । |
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला । |
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि । |
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । |
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः । |
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । |
वन्यवृत्तिरिमां शश्वद्(?) आत्मानुगमनेन गां । |
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः । |
वधूर्भक्तिमती चैनामर्चितां आ तपोवनात् । |
इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । |
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । |
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिं । |
सत्यां अपि तपःसिद्धौ नियमापेक्षया मुनिः । |
निर्दिष्टां कुलपतिना स पर्णशालां अध्यास्य प्रयतपरिग्रहद्वितीयः । |