← अष्ठमः सर्गः रघुवंशम्
नवमसर्गः
कालिदासः
दशमः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः । । ९.१ । ।

अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलं आत्मकुलोचितं ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः । । ९.२ । ।

उभयं एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां ।
वलनिषूदनं अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयं । । ९.३ । ।

जनपदे न गदः पदं आदधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे । । ९.४ । ।

दशदिगन्तजिता रघुणा यथा श्रियं अपुष्यदजेन ततः परं ।
तं अधिगम्य तथैव पुनर्बभौ न न महीऽनं अहीनपराक्रमं । । ९.५ । ।

समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा । । ९.६ । ।

न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तं उदयाय न वा नवयौवना प्रियतमा यतमानं अपाहरा । । ९.७ । ।

न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरं ईरिता । । ९.८ । ।

उदयं अस्तमयं च रघूद्वहादुभयं आनशिरे वसुधाधिपाः ।
स हि निदेशं अलङ्घयतां अभूत्सुहृदयोहृदयः प्रतिगर्जतां । । ९.९ । ।

अजयदेकरथेन स मेदिनीं उदधिनेमिं अधिज्यशरासनः ।
जयं अघोषयदस्य तु केवलं गजवती जवतीरहया चमूः । । ९.१० । ।

जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान् ।
स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः । । ९.१०* । ।

अवनिं एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः । । ९.११ । ।

शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः । । ९.१२ । ।

स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः ।
स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः । । ९.१२* । ।

चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
स धनुषा युधि सायकवर्षिणा शतमखं तं अखण्डितपौरुषं । । ९.१३ । ।

निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीं । । ९.१४ । ।

उपगतोऽपि च मण्डलनाभितां अनुदितान्यसितातपवारणः ।
अजितं अस्ति नृपास्पदं इत्यभूदनलसोऽनलस्ॐअसमद्युतिः । । ९.१५ । ।

क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः । । ९.१६ । ।

अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहां ।
अधिवसंस्तनुं अध्वरदीक्षितां असम्भासं अभासयदीश्वरः । । ९.१७ । ।

अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलं उन्नतं वनमुचे नमुचेररये शिरः । । ९.१८ । ।

तं अपहाय ककुत्स्थकुलोद्भवं पुरुषं आत्मभुवं च पतिव्रता ।
नृपतिं अन्यं असेवत देवता सकमला कं अलाघवं अर्थिषु । । ९.१९ । ।

स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यं अगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः । । ९.२० । ।

असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषां । । ९.२१ । ।

तं अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरं आपगाः ।
मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणं । । ९.२२ । ।

प्रियतमाभिरसौ तिऋभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः । । ९.२३ । ।

अथ समाववृते कुसुमैर्नवैस्तं इव सेवितुं एकनराधिपं ।
यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमं । । ९.२४ । ।

जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिर्ग्रहैर्विमलयन्मलयं नगं अत्यजथ् । । ९.२५ । ।

हिमविवर्णितचन्दनपल्लवं विरहयन्मलयाद्रिं उदङ्मुखः ।
विहगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रुवभेदयोः । । ९.२५* । ।

कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितं ।
इति यथाक्रमं आविरभून्मधुर्द्रुमवतीं अवतीर्य वनस्थलीं । । ९.२६ । ।

सुरभिसंगमजं वनमालया नवपलाशं अधार्यत भङ्गुरं ।
रमणदत्तं इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया । । ९.२६* । ।

उपहितं शिशिरापगमश्रिया मुकुलजालं अशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया । । ९.२७ । ।

परभृता मदनक्षतचेतसां प्रियसखी लघुवागिव योषितां ।
प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवापसमागमान् । । ९.२७* । ।

व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं ।
न खलु तावदशेषं अपोहितुं रविरलं विरलं कृतवान्हिमं । । ९.२८ । ।

विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमं उन्मदकोकिलं ।
तदुपभोगरसं हिमवर्षिणः परं ऋतोर्विरलं कृतवान्हिमं । । ९.२८* । ।

अभिनयान्परिचेतुं इवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितां अपि । । ९.२९ । ।

नयगुणोपचितां इव भूपतेः सदुपकारफलां श्रियं अर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीं अलिनीरपत्रिणः । । ९.३० । ।

दशनचन्द्रिकया व्यभासितं हसितं आसवगन्धि मधोरिव ।
बकुलपुष्पं असेव्यत षट्पदैः शुचिरसं चिरसंचितं ईप्सुभिः । । ९.३०* । ।

कुसुमं एव न केवलं आर्तवं नवं अशोकतरोः स्मरदीपनं ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः । । ९.३१ । ।

विरचिता मधुनोपवन्श्रियां अभिनवा इव पत्त्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः । । ९.३२ । ।

सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलं आकुलं आयतपङ्क्तिभिः । । ९.३३ । ।

सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
इति दयात इवाभवदायता न रजनी रजनीशवती मधौ । । ९.३३* । ।

प्रथमं अन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु । । ९.३४ । ।

श्रुतिसुखभ्रमरस्वनगीतयः कुसुमक्ॐअलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः । । ९.३५ । ।

ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरं ।
पतिषु निर्विविशुर्मधुं अङ्गनाः स्मरसखं रसखण्डनवर्जितं । । ९.३६ । ।

तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः ।
कलं अगीयत भृङ्गविलासिनां स्मरयुतैरयुतैरबलासखैः । । ९.३६* । ।

शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः । । ९.३७ । ।

लघयति स्म न पत्यपराधजं न सहकारतरुस्तरुणीधृतं ।
कुसुमितो नमितोऽलिभिरुन्मदैः स्मरसमाधिसमाधिकरोषितं । । ९.३७* । ।

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशं इष्टसमागमनिर्वृतिं वनितयाऽनितया रजनीवधूः । । ९.३८ । ।

अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः ।
कुसुमचापं अतेजयदंशुभिर्हिमकरो मकरोजितकेतनं । । ९.३९ । ।

हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यथ् ।
युवतयः कुसुमं दधुराहितं तद्(?) अलके दलकेसरपेशलं । । ९.४० । ।

अलिभिरञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोबहयित्स्म वनस्थलीं न तिलकस्तिलकः प्रमदां इव । । ९.४१ । ।

अमदयन्मद्घुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी । । ९.४२ । ।

अनलसान्यभृताऽनलसान्मनः कमलधूलिभृता मरुतेरिता ।
कुसुमभारनताध्वगयोषितां असमशोकं अशोकलताऽकरोथ् । । ९.४२* । ।

अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः । । ९.४३ । ।

उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगं उपेयुषी ।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजाऽलकजालकमौक्तिकैः । । ९.४४ । ।

ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णं ऋतुश्रियः ।
कुसुमकेसररेणुं अलिव्रजाः सपवनोपवनोत्थितं अन्वयुः । । ९.४५ । ।

अनुभवन्नवदोलं ऋतूत्सवं पटुर्पै प्रियकण्ठजिगृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जडतां अबलाजनः । । ९.४६ । ।

त्यजत मानं अलं बत बिग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः । । ९.४७ । ।

अथ यथासुखं आर्तवं उत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः । । ९.४८ । ।

परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनं ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुं अतोऽनुमतः सचिवैर्ययौ । । ९.४९ । ।

मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनं अश्वखुरोद्धुत रेणुभिर्नृसविता सवितानं इवाकरोथ् । । ९.५० । ।

ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः ।
तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु । । ९.५१ । ।

तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृषुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलं । । ९.५२ । ।

श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनं । । ९.५३ । ।

अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतं ।
धनुर्रधिज्यं अनाधिरुपाददे नरवरो रवरोषितकेसरी । । ९.५४ । ।

तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्ताथ् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारं । । ९.५५ । ।

तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनं आकुलदृश्टिपातैर्वतेरितोत्पलदलप्रकरैरिवाम्भः । । ९.५६ । ।

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहं ।
आकर्णकृष्टं अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार । । ९.५७ । ।

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तं एत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि । । ९.५८ । ।

उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णं ।
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तं आर्द्रपदपङ्क्तिभिरायताभिः । । ९.५९ । ।

तं वाहनादवनतोत्तरकायं ईषद्विध्यन्तं उद्धतसटाः प्रतिहन्तुं ईषुः ।
नात्मानं अस्य विविदुः सहसा वराहा वृकेषु विद्धं इषुभिर्जघनाश्रयेषु । । ९.६० । ।

तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहं अशोणितलिप्तपुङ्खस्तं पातयां प्रथमं आस पपात पश्चाथ् । । ९.६१ । ।

प्रायो विषाणपरिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः ।
शृण्गं स दृप्तविनयाधिकृतः परेषां अभ्युच्छ्रितं न ममृषे न तु दीर्घं आयुः । । ९.६२ । ।

व्याघ्रानभीरभिमुखोपतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान् । । ९.६३ । ।

निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयां आस सिंहान् ।
नूनं तेषां अभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु । । ९.६४ । ।

तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त । । ९.६५ । ।

तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त । । ९.६५ । ।

चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिं । । ९.६६ । ।

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः । । ९.६७ । ।

तस्य कर्कशविहार्संभवं स्वेदं आननविलग्नजालकं ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः । । ९.६८ । ।

इति विस्मृतान्यकरणीयं आत्मनः सचिवावलम्बितधुरं नराधिपं ।
परिवृद्धरागं अनुभन्धसेवया मृगया जहार चतुरेव कामिनी । । ९.६९ । ।

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथां ।
नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामां । । ९.७० । ।

उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि । । ९.७१ । ।

अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण । । ९.७२ । ।

कुम्भपूरणभवः पटुरुच्चैरुच्चचार नन्दोऽम्भसि तस्याः ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनं इषुं विससर्ज । । ९.७३ । ।

नृपतेः प्रतिषिद्धं एव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यथ् ।
अपथे पदं अर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः । । ९.७४ । ।

हा तातेति क्रन्दितं आकर्ण्य विषण्णस्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्शितिपोऽपि । । ९.७५ । ।

तेनावतीर्य तुरगात्प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानं अक्षरपदैः कथयां बभूव । । ९.७६ । ।

तच्चोदितः च तं अनुद्ध्रृतशल्यं एव पित्रोः सकाशं अवसन्नदृशोर्निनाय ।
ताभ्यां तथागतं उपेत्य तं एकपुत्रं अज्ञानतः स्वचरितं नृपतिः शशंस । । ९.७७ । ।

तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातं उदहारयतां उरस्तः ।
सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयन्वारिभिरेव वृद्धः । । ९.७८ । ।

दिष्टान्तं आप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहं इवेति तं उक्तवन्तं ।
आक्रान्तपूर्वं इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः । । ९.७९ । ।

शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयं ।
कृष्यां दहन्नपि खलु क्षितिं इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति । । ९.८० । ।

इत्थं गते गतघृणः किं अयं विधत्तां वध्यस्तवेत्यभितिते वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुं अनुगन्तुमनाः सदारः । । ९.८१ । ।

प्रातानुगः सपदि शासनं अस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदं आत्मविनाशहेतुं शापं दधज्ज्वलनं और्वं इवाम्बुराशिः । । ९.८२ । ।

"https://sa.wikisource.org/w/index.php?title=रघुवंशम्/नवमः_सर्गः&oldid=123222" इत्यस्माद् प्रतिप्राप्तम्