रघुवंशम्/द्वितीयः सर्गः
← प्रथमः सर्गः | रघुवंशम् द्वितीयसर्गः कालिदासः |
तृतीयः सर्गः → |
रघुवंशस्य सर्गाः |
---|
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां । |
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । |
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । |
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । |
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । |
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । |
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । |
लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावं । |
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । |
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानं । |
धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः । |
स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । |
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी । |
शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । |
सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं । |
तां देवतापित्रतिथिक्रियार्थां अन्वग्ययौ मध्यमलोकपालः । |
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । |
आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः । |
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । |
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । |
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । |
वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । |
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यञ्च विधिं दिलीपः । |
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । |
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । |
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । |
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन । |
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । |
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । |
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । |
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्त्रे । |
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णम् आगस्कृतम् अस्पृशद्भिः । |
तम् आर्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुं । |
अलं महीपाल तव श्रमेण प्रयुक्तम् अप्यस्त्रम् इतो वृथा स्यात् । |
कैलासगौरं वृषं आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टं । |
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । |
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । |
तदा प्रभृत्येव वनद्विपानां त्रासार्थम् अस्मिन्नहम् अद्रिकुक्षौ । |
तस्यालं एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । |
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । |
इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य । |
प्रत्यब्रवीच्चैनं इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । |
प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात्स्वरभेदं आप्तः । |
संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः । |
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । |
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । |
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । |
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तं इदं वपुश्च । |
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । |
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्बिभेषि । |
तद्रक्ष कल्याणपरंपराणां भोक्तारं ऊर्जस्वलं आत्मदेहं । |
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । |
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । |
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः । |
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनां । |
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । |
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ । |
किं अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । |
संबन्धं आभाषणपूर्वं आहुर्वृत्तः स नौ संगतयोर्वनान्ते । |
तथेति गां उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । |
तस्मिन्क्षणे पालयितुः प्रजानां उत्पश्यतः सिंहनिपातं उग्रं । |
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितं उत्थितः सन् । |
तं विस्मितं धेनुरुवाच साधो मायां मयोध्भाव्य परीक्षितोऽसि । |
भक्त्या गुरौ मय्यनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व । |
ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । |
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । |
वत्सस्य होमार्थविधेश्च शेषं ऋषेरनुज्ञां अधिगम्य मातः । |
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव । |
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । |
स नन्दिनीस्तन्यं अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषं । |
प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य । |
प्रदक्षिणीकृत्य हुतं हुताशं अनन्तरं भर्तुररुन्धतीं च । |
श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । |
तं आहितौत्सुक्यं अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गं । |
पुरंदरश्रीः पुरं उत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । |
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतं ऐशं । |
|