क्रियापादः/अध्यायः ११
← अध्यायः १० | क्रियापादः अध्यायः ११ [[लेखकः :|]] |
अध्यायः १२ → |
पाद्मसंहितायाम्.
एकादशोऽध्यायः
- प्रतिमाद्रव्यादिविधिः*
श्रीभगवान्---
अतः परं(1) प्रतिकृतेर्द्रव्यस्य विधिरुच्यते।
(2) यन्मयं प्रतिमाद्रव्यं तदनेकं प्रचक्षते।। 11.1 ।।
(1." प्रवक्ष्यामि प्रतिमाविधि मुत्तमम्" ) (2.मृण्मयं.)
- रत्नादिषड्द्रव्यनिर्देशः*
रत्नं लोहं शिला मृच्च दारु स्फटिक एव च।
षड्द्रव्याणि प्रकृतयो यन्मयाः प्रतिमाः स्मृताः।। 11.2 ।।
माणिक्यप्रमुखै रत्नैरर्चामवयवैर्युताम्।
(3) विदध्यादर्धचित्रं वा केवलं वा समर्चयेत्।। 11.3 ।।
(3.चित्रं व्व्यर्धचित्रं वा.)
- उक्तद्रव्यफलनिर्देशः*
निर्दोषा रत्नजास्सर्वास्सर्वकामफलप्रदाः।
सुवर्णं रजतं ताम्रं त्रिविधं लोहमिष्यते।। 11.4 ।।
हिरण्मयी प्रतिकृतिस्सर्व संपत्करी भवेत्।
वित्तं यशश्च विजयो विज्ञानं राजतीफलम्।। 11.5 ।।
बुद्धिश्शान्तश्च सौभाग्यमौदुम्बर्याऽर्चयाभवेत्।
- शिलायाश्चातुर्विध्यम्*
शिला चतुर्विधा ब्रह्मन् वर्णभेदैस्सितादिभिः।। 11.6 ।।
शुभ्रा शिला ब्राह्मणस्य क्षत्रियस्य तु पाटला।
वैश्यस्य पीता शूद्रस्य कृष्ठा मुख्या यथोदिता।। 11.7 ।।
ब्राह्मणस्य चतस्रस्स्यस्तिस्रो राज्ञो विशो द्वयी।
एकैव स्याच्चतुर्धस्य गौणोऽयं विधिरीरितः।। 11.8 ।।
- उत्तमाशिला*
शङ्खचक्रगदापद्मशक्ति चन्दनमालिकाः।
सिंहमातङ्गसारङ्गवराहकुशकुण्डिकाः।। 11.9 ।।
श्रीवत्सचामरच्छत्रध्वजमत्स्य विहङ्गमाः।
शीलासु यत्र दृश्यनै तिलतण्डुलवालुकाः।। 11.10 ।।
ताश्शुभा यजमानस्य शुभदाः पार्थिवस्य च।
- शिलादार्वादीनां गर्भदोषपरीक्षोपायः *
गर्भवत्यश्शिला वर्ज्या गर्भा ह्यन्तरवस्थिताः।। 11.11 ।।
यथोपलब्धुं शक्यन्ते तं प्रकारमिमं शृणु।
नवनीतं माहिषजं शृङ्गं मेषस्य चूर्णितम्।। 11.12।।
चूर्णं च कुरुविन्दस्य सम्पेष्य पयसा गवां।
लिम्पेच्छिलांतथा दारु गर्भव्यक्तिस्ततो भवेत्।। 11.13 ।।
वीधिका यदि दृश्यन्ते मण्डलावर्तकानि च।
ध्वनिश्च शिथिलो यासु स्पर्शे चौष्ण्यमथापि वा।। 11.14 ।।
तासु गर्भास्स्पुटं सन्ति यत्नेनोत्पाटयेत्तु ताः।
पाटले मण्डले पंसून् पाटलान् श्वेतपङ्कजे।। 11.15 ।।
श्वेतपांसून् स्थितावन्तर्गर्भरूपेण संस्थितान्।
निर्दिशेत्कपिले वर्णे स्निग्धे च कमठं स्थितम्।। 11.16 ।।
(4)गौलीं कपोते माञ्जिष्ठे वर्णे लोहितदर्दुरम्।
शुक्लं डिण्डीरवर्णे तु रक्तपीते कच्छपम्।। 11.17 ।।
(4.गौलिकं पातमञ्जीष्ठे.)
कुसुम्भपीतवर्णे तु पीतं वर्षाभुवं स्थितम्।
शुक्लहेमनिभेवर्णे गर्भे क्षुद्रविहङ्गमम्।। 11.18 ।।
कालायससमे वर्णे गोधामन्तरवस्थिताम्।
गुडवर्णे तु पाषाणखद्योतं मधुसन्नि भे।। 11.19 ।।
सारङ्गसदृशे वर्णे वृश्चिकं ङड्गसन्नि भे।
सलिलं शलभं नीले रूक्षे फेनकमेव च।। 11.20 ।।
मूषिकां कपिले कृष्ठे (5) कष्णाहिं शष्पसन्निभे।
मत्स्यमेवं विधं गर्भं मण्डले वर्णभेदतः।। 11.21 ।।
(5.कृष्णशिंशुपसन्निभे.)
बुधो निश्चिनुयात्सर्वमुद्धरेच्च प्रयत्नतः।
गर्भवद्दारुशिलया प्रतिमां कुरुते यदि।। 11.22 ।।
अज्ञानाद्वाऽथ लोभाद्वायजमान (6) स्त्वरान्वितः।
समुलघातं हन्यच्च स कुला (7) न्यात्मनामज।। 11.23 ।।
(6.स्समन्वितः) (7. नत्मजात्मजान्.)
राजा च राष्ट्रामचिरात् (8) स्थापकश्च विनश्यति।
(9) गर्भागरेकृते पश्चाज्जुहुयाच्छान्तये गुरुः।। 11.24 ।।
(8.स्थानं तस्य.) (9.गर्भाधाने.)
भोजयेद्दक्षिणां दद्याद्ब्राह्मणेभ्यस्स्वशक्तितः।
- स्त्रीपुन्न पुंसकशिलानां प्रतिमादौ विनियोगः *
बिम्भं शीतलया कुर्याच्छिलया यदि सादरम्।। 11.25 ।।
देवस्य सन्निधिस्साक्षात्संपच्च वरदो हरिः।
स्त्रीपुंनपुंसकं चेति शैलं त्रिविधमुच्यते।। 11.26 ।।
कांस्यघण्डाध्वनिप्रख्यश्छेदने जायते ध्वनिः।
शिरः प्रदेशे मध्ये तु कांस्यध्वनिसमोभवेत्।। 11.27 ।।
मूले तालध्वनिसमो यत्र सा स्याच्छिला पुमान्।
न्यूनस्तस्माद्ध्वनिः किंचिच्छिद्रतो यत्रसाऽधमा।। 11.28 ।।
शिला नादविहीना तु नपुंसकमुदाहृतम्।
बिम्बं पुंशिलया कार्यं पीठं (10) स्त्री शिलया भवेत्।। 11.29 ।।
(10.योषिच्छिला.)
(11) रत्नन्यासस्तु कर्तव्यो (12) न शिलायामिति क्रमत्।
देवीनां च (13) श्रीयादीनां निर्माणे स्त्री शीला वरा।। 11.30 ।।
(11. अस्यार्धस्यसङ्गतिश्चिव्न्या) (12.नपुंसक शिलोपरि.) (13.क्रियादीनाम्.)
पुंशिला पादपीठे स्याद्रत्नन्यासो नपुंपके।
सौम्या शिला शीतलास्याद्वैष्णवी न महाफला।। 11.31 ।।
उष्णाऽऽग्नेयी शिला रोद्री सा रोगस्यास्पदं भवेत्।
सौम्या ज्ञेयोभयात्मा तु ब्रह्मीसृष्टिकरि भवेत्।। 11.32 ।।
शीतला घर्मकाले या महोष्णा जलदागमे।
एकवर्णा शिला शुद्धा सा भवेत्प्रतिमाविधौ।। 11.33 ।।
संकीर्णानेकवर्णा तु सा शिला रोगदा सदा।
- शिलाग्रहणस्थानफलादीनि*
पर्वतेषु प्रसिद्धेषु गृह्णीयात्प्रतिमाशिलाम्।। 11.34 ।।
भूगता वा शिला शस्ता निन्दिता न कदाचन।
या पुष्पवनसङ्कीर्णा जलाशयसमावृता।। 11.35 ।।
सा भूमिर्वारुणी ज्ञैया तत्रत्याः कामदाश्शिलाः।
तोयमुत्तरतो यस्याः क्षेत्रं दक्षिणतो महत्।। 11.36 ।।
प्रत्यक्च क्षीरिणो वृक्षास्सा माहेन्द्री क्षमा मता।
तत्रत्या पुष्टिदा नित्यं शिला बहुमता ततः।। 11.37 ।।
पूर्वदक्षिणतो यस्याः काश्मर्यः खदिरादयः।
झल्लिका टिट्टिभा गृध्रवराहश्वापदादयः।। 11.38 ।।
तोयमन्तर्गतं स्वल्पं यत्राग्नेयी भवेदियम्।
शिला तत्रोद्भवा स्वल्पविभवा तदसंमता।। 11.39 ।।
विभीतकादयो वृक्षा मृगा हिंस्त्राश्च सन्ततम्।
यत्र त्यक्तोदकतृणा कण्टकद्रुमसंवृता।। 11.40 ।।
या च सा वायवी भूमिस्तस्यां शून्यप्रदा शिला।
- वर्ज्यशिलास्थानानि.*
नदितटे हृदतटे भूतिभुमौ चतुष्पथे।। 11.41 ।।
ग्रामे श्मशाने वल्मीके लवणोदकपीडिते।
अमेध्यभूमौ शबरचण्डालादिनिषेविते।। 11.42 ।।
शर्करोत्करसंबाधे निस्तृणे जलवर्जिते।
देवालयसमीपे च तप्ते वातातपाग्निभिः।। 11.43 ।।
देशे मर्ज्याश्शिलास्सर्वा गृहिताश्चेदनर्थदाः।
- उपादेयशिलाप्रदेशाः *
पुण्यक्षेत्रे शुभे देशे ब्रह्मवृक्षनिरन्तरे।। 11.44 ।।
कुशकाशोदकयुते मृगैः कृष्णैर्निषेविते।
पद्मोत्पलसमाकीर्णे व्रीहिक्षेत्रनिरन्तरे।। 11.45 ।।
हिन्तालपूगपुन्नागनालिकेरनिरन्तरे।
तपस्विजनसं बाधे देशे ग्राह्या शिला भवेत्।। 11.46 ।।
वर्ज्या वर्ज्यां विदित्वैवं गुणदोषौ निरूप्य च।
देशभेदांश्च भूभेदान् ज्ञात्वा लिङ्गभिदा स्तथा।। 11.47 ।।
सीतादिवर्ण भेदांश्च गृह्णीयाच्छुभदां शिलाम्।
- शिलाग्रहणनियमः*
पुण्यर्क्षतिथिवारेषु यजमानानुकूलिषु।। 11.48 ।।
शकुनादिनिमित्तानामानुकूल्येन चान्वितः।
यहमानो गुरुश्चैव श्रद्धया परयान्वितः।। 11.49 ।।
रथकारेण सहितः स्थिपतिनां गणैस्सह।
ब्राह्मणान् भोजयित्वादौ तैश्च स्वस्त्यादि वाचितः।। 11.50 ।।
शिलासंग्रणे देशे कारये न्महतीं प्रसाम्।
कृत्वाऽङ्कुरार्पणं तत्र ब्रह्मचारी हविष्यभुक्।। 11.51 ।।
आचर्यो याजानेन सार्धं तत्र वसेच्छुचिः।
शालिभारं क्षिपेत्तस्मिन् प्रपामध्ये सवेदिके।। 11.52 ।।
तस्मि न्न्यस्येन्महाकुम्भं सूत्रवस्त्रादिवेष्टितम्।
न्यस्तकूर्यं प्रतिच्छन्नमश्वत्थनवपल्लवैः।। 11.53 ।।
विन्यस्तरत्नलोहाढ्यं विद्यया परमेष्ठिनः।
तस्याष्टदिक्षु च स्य स्येत्कुम्भान् सूत्रेण वेष्टितान्।। 11.54 ।।
महाकुम्भस्य तस्यैव (13) पार्श्वे न्यस्येच्च वर्धनीम्।
अस्त्रमन्त्रेण संसिद्धान् सिद्धार्धान् दिक्षु पातयेत्।। 11.55 ।।
(13.दक्षिणे वर्धनीं न्यसेत्.)
पुण्याहं वाचयित्वातु चक्रमुद्रां प्रदर्शयेते।
महामुद्रां प्रदर्श्याथ प्रणम्याञ्जलिमुद्रया।। 11.56 ।।
आवाहयेत्ततो देवं मूर्तिमन्त्रेण सर्वगम्।
महाकुम्भे प्रतिष्ठाप्य पूजयेद्देशिकः क्रमात्।। 11.57 ।।
वर्धन्य मन्त्रराजानं कुम्भेष्वष्टसु पूजयेत्।
विष्ण्वादिमूर्तीस्तदनु परमान्नं निवेदयेत्।। 11.58 ।।
होमं कुर्याच्चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा।
पालाशसमिधः पुष्पं फलमाज्यं सपल्लवम्।। 11.59 ।।
जुहुयान्मुलमन्त्रेण वृथगष्टोत्तरं शतम्।
चरुणा च नृसुक्तेन वृथक्कुण्डचतुष्टये।। 11.60 ।।
प्राचिनकुण्डे जुहुयात्सर्पिषा वनदेवताः।
(14) पर्वतान् गण्डशैलांश्च तत्र शृङ्गाणि निर्झरान्।। 11.61 ।।
(14. पार्षदान्)
समुद्रांश्च तथा वृक्षानोषधीश्च वनस्पतीन्।
जरायुजानण्डजांश्च स्वेदजानुद्भिजस्तथा।। 11.62 ।।
तथा सर्वाणि भूतानि मन्त्रैस्तद्धेव्तापरैः।
स्वाहान्तैस्तैर्व्याहृतिभिः पूर्णाहुत्यन्तमब्जज।। 11.63 ।।
(15)पललं रजनीचूर्णं लाजापूपाः करम्भिणः।66
चरस्तैर्बलिं द्रव्यैर्भूतेभ्यो निक्षिपेद्गुरुः।। 11.64 ।।
(15. पालाशं)
होतव्यं स्वप्नपतये सर्पिषाऽष्टोत्तरं शतम्।
वाद्यैस्तथा ब्रह्मघोषैर्वतो घोषयेन्निशि।। 11.65 ।।
उपोष्य दर्भशय्यायां शुचिर्नियतमानसः।
जपन्नष्टोत्तरशतं स्वप्नादिपतिमात्मवान्।। 11.66 ।।
स्वपेत्स्वप्ने ततश्शैलं यदि पश्येत्समुज्वलम्।
प्रातरेव शिलाग्राह्या शान्तिं कुर्याददर्शने।। 11.67 ।।
दुर्दर्शने वा पुर्वोक्तदुर्निमित्तोदये तथा।
शिलां मुहूर्ते संपश्येच्छोभवे देशिकोत्तमः।। 11.68 ।।
यक्षाः पिशाचा नागाद्याः यत्र तिष्ठन्ति नित्यशः।
सर्वे ते ह्यपगच्छन्तु सन्निधत्तां सदाहरिः।। 11.69 ।।
इत्युक्त्वा मन्त्रसंसिद्धान् सिद्धार्धां स्तत्र निक्षिपेत्।
बलिं दद्याच्च भूतेभ्यः प्रत्याशं सर्वमन्त्रतः।। 11.70 ।।
पुण्याहं वाचयित्वा च पौरुषेण शिलाः स्पृशेत्।
मूलमन्त्रेण दत्वाऽर्घ्यं जपेदष्टोत्तरं शतम्।। 11.71 ।।
प्रासादस्यानुरूपेण पातयोत्सूत्रमञ्जसा।
शिला स्थ्सपतयश्छिन्द्युः रथकारस्य शासनात्।। 11.72 ।।
- सिरीवैषम्येण वर्ज्यावर्ज्यशिलानिरूपणम्*
शान्तिदा (16) दक्षिण सिरा प्राक्सिरा जयदायिनी।
श्रीकरी पश्चिमसिरा पुष्टिं दद्यादुदक्सिरा।। 11.73 ।।
(16. दक्षिणग्रिवा. अत्र एतदादिषु श्लोकेषु सिराशब्दन्थाने शिरा इति तालव्यादिः क्वचित्को शे दुश्यते. नाडीपर्यायस्सिराशब्द एवसादुर्भवति " वर्जयेत्कोणसिरसम्" इत्यतः सिराशब्दस्य सान्तत्वं अभ्युपगन्तव्यम्. आत्रैव दक्षिणसिरा इत्यत्र दक्षिण ग्रीवा. इति पाठान्तरंतु भ्रमकृतम्. तथैव " कोणसिरसं" इत्यत्र दन्त्यस्थाने कोणशिरसम् इति लव्यनिवेशश्च.)
वर्जयेत्कोणसिरसं यदि कुर्यात्कुलक्षयः।
- शिलाऽऽनयननियमः*
यस्यां दिशि मुखं धाम्न स्तस्यां प्रतिकृतेश्शिरः।। 11.74 ।।
व्यत्यासे यजमानस्य राज्ञो राष्ट्रस्य वास्तुतः।
आलयस्य च सर्वेषामचिरात्कल्पते विपत्।। 11.75 ।।
मूलभागश्चिलानां चेतुपरिष्टाद्भवेत्तथा।
अधस्ताच्छेच्छिरोभागो विपत्स्याद्राजराष्ट्रयोः।। 11.76 ।।
महाकुम्भस्थतोयेन स्नापयेदुद्धृतां शिलाम्।
विष्ण्वादिकुम्भतेयैश्च पौरुषं सूक्तमुच्चरन्।। 11.77 ।।
परिषिञ्चेच्छिलां भूयो वर्धनीस्थेन वारिणा।
- श्रियादिदेवीप्रतिमार्हशिलाविधिः*
देवीनां बिम्ब (17) शुद्ध्यर्धं पृथकेवाधिवासयेत्।। 11.78 ।।
(17.सिध्यर्थं)
मध्यकुम्भेर्चयेद्धेवीं श्रियं त्रैलोक्यमातरम्।
अष्टकुम्भेषु सम्पूज्या देव्यश्चाष्टौ यथाक्रमम्।। 11.79 ।।
होमादि पूर्ववत्कृत्वा बिम्बर्था स्त्रीशिला भवेत्।
अस्त्रीया शिलया देव्यो विहिताश्चेत्प्रमादतः।। 11.80 ।।
लोभन महता युक्ता हन्युस्स्वविषयाः प्रजाः।
तस्मिन्नेव क्षणे ग्राह्याः परिवाशिलाश्शुभाः।। 11.81 ।।
शिलासङ्ग्रहणं कुर्यात्तेषां मन्त्रैर्यथाक्रमम्।
शिलां गृहीत्वातां सम्यगारोप्यशकटादिषु।। 11.82 ।।
नीत्वा धाम्नि स्थपतयो रथकारमतानुगाः।
कुर्युरर्चां यथाशास्त्रं चोदितैर्लक्षणैर्युताम्।। 11.83 ।।
शीलासङ्ग्रहणे कर्म यदुक्तं बहिरालयात्।
तत्सर्वमथवा कुर्यादङ्कुरादिकमालये।। 11.84 ।।
- अन्यर्थं गृहीतमुक्तायाः पुनरधिवासेन ग्रहणानुज्ञा*
शिला गृहीत्वा विधवत्त्यक्तां कर्तुमशक्तितः।
अन्यार्थमपितां विद्धि शुद्धां भुयोऽधिवासनात्।। 11.85 ।।
- दारुसङ्ग्रहणकालः *
कार्तिकाद्यष्टमानेषु प्रशस्तो दारुसङ्ग्रहः।
प्रशस्तं सर्वमानेषु शिलासंग्रहणं मतम्।। 11.86 ।।
- उपादेयदारुनिर्देशः *
चन्दनश्चागुरुश्चैव कास्मर्यो हरिचन्दनः।
केसरः खतिरश्चैव कुरवश्चासन स्तथा।। 11.87 ।।
मधुको देवदारुश्च जातिर्बिल्वश्शमी तथा।
शाकश्च पनसश्चैव कदम्बस्तिलकस्तथा।। 11.88 ।।
नमेरुः फलिनी चैव सुरभिश्चम्पक सथा।
शिंशुपा क्षीरिका सालो भीजकः कुरुविदन्दकः।। 11.89 ।।
तिनिशश्चन्दनश्चूतस्तमालस्तरलोऽर्जुनः।
कुटजः करकेलीच सप्तपर्णो मधुष्ठिलः।। 11.90 ।।
वरणो निचुलश्चैव पुन्नागः खदिरस्तथा।
राजवृक्षश्च इत्येते प्रतिमार्थमुदाहृताः।। 11.91 ।।
सारवन्तो घनोपेता स्सर्वदोषविवर्जिताः।
एतैः कार्या प्रतिकृतिर्व र्जितैर्नकदाचन।। 11.92 ।।
- वर्जनीयानिदारूणि*
वर्जनीयानपि तरूनभिधान्सामि तान् शुणु।
स्वयं शुष्काश्च दग्धाश्च स्वयं भग्ना हतत्वचः।। 11.93 ।।
वक्रा घुणक्षताश्चैव कोटराः पक्षिसेविताः।
चण्डालाद्यधमैश्शश्वत्सेविताः प्रतिलोमजैः।। 1.94 ।।
निवासवृक्षाश्चैत्यस्थाः देवताधिष्ठितास्तथा।
श्मशानस्थाश्च मार्गस्था देवालयसमीपगाः।। 1.95 ।।
कूपस्थाश्च तटाकस्था विकृताश्चैव वर्जिताः।
वर्जितै स्तरुभिः कुर्यात्प्रतिमां चेत्प्रमादतः।। 10.96 ।।
कर्ता कारयिता चोभौ सान्ववायौ विनश्यतः।
- दारुसङ्ग्रहणेपि शिलाग्रहणवदेव विधिः *
दारुसंग्रहणे (18) देशे पूर्ववच्छाधिवासनम्।। 10.97 ।।
(18.चैव.)
शिलाग्रहणवद्धोमस्सर्वः कार्यो यथाविधि।
अनोकहानामङ्गानि प्रवालादीनि पूर्ववत्।। 10.98 ।।
जुहुयादग्निकुण्डे च प्राचीने देशिकोत्तमः।
प्रक्षालयेद्वृक्षमूलं वासना (19) तं प्रकोणकम्।। 10.99 ।।
(19.तत्र.)
आच्छादयेत्सदर्भेण मूलमन्त्रं (20) समुच्छरन्।
मूर्तिभिश्च द्वादशभिः मत्स्यादिभिरनुक्रमात्।। 10.100 ।।
(20. समुच्चरेत्.)
- वृक्षोपस्थानम्*
हुत्वा व्याहृतिभिः पश्चादुपतिष्ठेत भूरुहम्।
कर्मणा पूर्ववृत्तेव स्थावराकारमाश्शितम्।। 10.101 ।।
(21) वृणोमि विष्णोर्बिम्बार्थं सर्वसंपत्करं तव।
स्थावरत्वादितो गच्छ दिव्यं रूपमनुत्तमम्।। 10.102 ।।
(21. नमामि विष्णोः पूजार्थं)
भुङ्क्ष्व भोगांश्च विपुलान् वासुदेवप्रसादतः।
(22) हिनस्मि नाहं वृक्ष त्वां किन्तु मुञ्चामि जन्मतः।। 10.103 ।।
(22.भिनद्मि)
इत्युपस्थाय मन्त्रेण रक्षासूत्रेण वेष्टयेत्।
अनुक्तमन्यत्कर्तव्यं शिलाग्रहणवन्निशि।। 10.104 ।।
- वृक्षच्छेदनेकालदिगादिनिर्देशः *
प्रभाते देशिक स्स्नात्वा मुहूर्ते शोभने शुचिः।
छिन्द्याद्वृक्षं कुठारेण प्राङ्मुखः पुरुषात्मना।। 10.105 ।।
रथकारस्ततो वृक्षं छेदयेद्गुर्वनुज्ञया।
- छिन्नवृक्षपतनेदिग्भेदेनफलभेदः*
प्राच्यामुदीच्यां पतितस्तरुरभ्युदयावहः।। 10.106 ।।
- प्रकाण्डेन शाखया भिम्भनिर्माणम् तत्संस्कारश्च *
कुर्याद्बिम्बं प्रकाण्डेन शाखया चानुरुपया।
कुम्भेदकेन तं सिञ्चेद्ध्यात्वा तत्रस्थितां हरिम्।। 10.107 ।।
मूलमन्त्रेण परितस्पिञ्चेत्करवारिणा।
गुरवे दक्षिणां दद्यात्पुर्ववत्कमलासन।। 10.108 ।।
- रथकारस्यबिम्बनिर्माणानुज्ञा*
देवालये द्रुमं नीत्वा रथकारेण कारयेत्।
बिम्बमत्यद्भुताकारं धाममानानुसारतः।। 10.109 ।।
आलये चाधिवासादि स्थापयित्वा द्रुमं भुवि।
कुर्याद्भहिर्वने यद्वत्सर्वं तद्वद्यथाविधि।। 10.110 ।।
- असंस्कृततरुणाबिंबनिर्माणेदोषः*
असंस्कृतेन तरुणा (23) यथोक्तविधिना यदि।
कुर्यात्प्रतिकृतिं मोहात्तदनर्धाय केवलम्।। 10.111 ।।
(23.अनक्ततरुणा)
तस्माद्यदोक्ततरुणा कृतमभ्युदयावहम्।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रीयापादे शिलादारुसंग्रहविधानं नाम
एकादशोऽध्यायः
******************--------------