← अध्यायः ३० क्रियापादः
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
एकत्रिंशोऽध्ययः

  • प्रभादीनां प्रतिष्ठा विधिः *

श्रीभगवान्---
कालान्तरे प्रभादीनां प्रतिष्ठाविधिरुच्यते।
जलाधिवासाद्यखिलं कर्म कृत्वायथापुरम्।। 31.1 ।।
ध्यानकाले तु संप्राप्ते ध्याये (1) देवं गुरुस्स्वयम्।
ज्वालामालासहप्राढ्यां विद्युत्सङ्घातसन्निभाम्।। 31.2 ।।
(1. द्देवम्)
प्रभां ध्यात्वास्पृशेत् शान्ति होमान्तेरहोमसर्पिषा।
प्रभाते मूलमन्त्रेण प्रोक्षयोत्कुम्भवारिणा।। 31.3 ।।
मुहूर्ते योजयेच्चापि कारयेच्च महोत्सवम्।
दक्षिणा गुरवे देया यथाविभव (2) मानतः।। 31.4 ।।
(2.मन्वितः)
प्रभायां देवदेव्यादीन् योजयेदुक्तवर्त्म ना।
(3) स तु सायुज्यमाप्नोति कामानपि यथेप्सितान्।। 31.5 ।।
(3.तत्सायुज्यमवा)
(4) पीठं संस्थाप्य तत्रैव न्यस्येद्योगासनं गुरुः।
हुत्वामन्त्रैः क्रमात्फद्मस्थापने विधिरीदृशः।। 31.6 ।।
(4.पीठेस्थाप्येतु)
योजये (5) च्चापि पीठादीन् तत्रस्थां समये गुरुः।
एवं पीठादि देवार्दं यः कल्पयति मानवः।। 31.7 ।।
(5.द्योग)
स प्रतिष्ठामवाप्नोति परत्रेह च शाश्वतीम्।

  • घंटा प्रतिष्ठादि*

मण्टां च पञ्चगव्येन स्नापयित्वा यथोदितैः।। 31.8 ।।
पञ्चवारुणिकैर्मन्त्रैर्नव ववस्त्रेण वेष्टयेत्।
स्थण्डिले शालिभारं च निक्षिप्य तिलतण्डुलान्।। 31.9 ।।
तदूर्ध्वे नववस्त्रं च सदर्भं न्यस्य तत्र वैः।
शाययित्वा च तां घण्टां छादयेन्नवावाससा।। 31.10 ।।
कुम्भमेकं समभ्यर्च्य (6) कुम्भे वा स्थण्ढिलेऽपिवा ।
घण्टामन्त्रेण जुहुयादाचार्यस्समिधादिभिः।। 31.11 ।।
(6.गुण्डेवा)
शोषणादीनि कार्याणि तां यथोक्तं विचिन्तयेत्।
शान्तिहोमावसाने च स्पृशेत्तां होमसर्पिषा।। 31.12 ।।
प्रभाते (7) मन्त्रतोयेन तामुक्षेन्मन्त्र पूर्वकम्।
एवं सुसंस्कृतां घण्टां(8) चालयेत्सर्व कर्मसु।। 31.13 ।।
(7.कुम्भ) (8.नादयेत्.)
उद्घाटने कवाटस्य प्रस्तुते पूजने तथा।
आवहनेऽर्घ्ये स्नपने पुष्पे धूपे च दीपके।। 31.14 ।।
नी राजने यवनिकासमुद्धारे निवेदने।
होम भूतबलौ कर्मण्युद्वाहे (9) चलनं मणेः।। 31.15 ।।
(9.चापिकर्मणि)
(10) उत्सादनं पिशाचादेः प्रीणनं च हरेः परम्।
सन्निधनममर्त्यानां घण्टायाश्चलनाद्भवेत्।। 31.16 ।।
(10.उच्चाटनं)
असंस्कृतायाशअचलने ग्रामादेश्चलनं भवेत्।
निष्फला चापि पूजा स्वात्परस्य परमात्मनः।। 31.17 ।।
(11) (घण्टां प्रयच्छेद्धरये जायते कीर्तमान्नरः)।
घण्टा संस्कारवद्धूपदीप (12) पात्रस्य संस्कृतिः।। 31.18 ।।
(11.इदमर्धं क्वचिन्न) (12.प्रात्रादि)
भेर्यादीनां च संशुद्धिः पञ्चगव्यैः प्रशस्यते।
रथादियानजातस्य संशुद्धिरियमिष्यते।। 31.19 ।।
मन्त्रेण प्रोक्षणाच्छुद्धिश्छत्रादीना मपीष्यते।
नर्वत्र भोजये (13) द्विप्रान् पुण्याहंचापि (14) कारयेत्।। 31.20 ।।
(13.द्विद्वान्) (14.वाचयेत्)
दक्षिणा चापि गुरवे देया वित्तानुसारतः।

  • अक्षमाला प्रतिष्ठा*

अक्षमाला प्रतिष्ठांच तद्भेदांश्च यथातथम्।। 31.21 ।।
जपे फलं च सकलमधुना कथ्यतेऽब्जज।
नर्वरत्नैश्च लोहैश्च स्फटिकैस्त्रिविधैरपि।। 31.22 ।।
जलजैस्तलजैर्वापि कारयेदक्षमालिकाः।
आक्षास्थिमात्रा मणयश्श्रेष्ठास्स्युर्जपकर्मणि।। 31.23 ।।
धात्रीफलास्थिमात्रास्तु मध्यमाः कमलासन।
बदरास्थि प्रमाणास्तु कनिष्ठा मणयः स्मृताः।। 31.24 ।।
अष्टोत्तर शतं सङ्ख्या मणीनां श्रेयसी भवेत्।
तदर्धसङ्ख्या कथिता मध्यमा चरमा पुनः।। 31.25 ।।
सप्तविंशतिसङ्ख्या च तैर्भवेदक्षमालिका।
स्वर्गापवर्गदं रत्नं सौवर्णं विभवप्रदम्।। 31.26 ।।
राजतं कीर्तधनदं ताम्रं शान्तिकरं भवेत्।
त्रापुषैर्मणिभि (15) र्जप्यं यक्षांश्चापि वशं नयेत्।। 31.27 ।।
(15.र्यक्षान्यक्षी)
सीसाक्षमालया रक्षो वशे कुर्याच्चतुर्मुख।
(16) पीडयेच्च तथा शत्रून् कांस्यैस्सर्वान् वशं नयेत्।। 31.28 ।।
(16.पिण्डयेच्चापि)
(17) (आयसैश्चाऽपि भूतानि जापकस्स्ववशं नयेत्)।
स्फटिकं मोक्षदं जप्तुस्सर्वदो द्युमणेर्मणिः।। 31.29 ।।
(17.इदमर्धं क्वचिन्न)
इन्दोर्मणिस्तथैव स्यादक्षास्स्यु(18) र्जलजाः पुनः।
पुत्रदः पुत्रदीपस्स्यादिन्द्राक्षस्सर्वकामदः।। 31.30 ।।
(18.स्थलजा)
विभीतकाक्षरुद्राक्ष निम्बाक्षाश्चाभिचारकाः।
ब्रह्मवर्चसकामस्य कुशग्रन्दिः प्रशस्यते।। 31.31 ।।
राह्य कामस्य पद्माक्षैर्जप्तुस्सिध्यति तद्ध्रुवम्।।
सिताम्भो जाक्षमाला तु (19) जप्तुर्नश्रेयसप्रदाः।। 31.32 ।।
(19.सूत्रेनि)
भुक्तिमुक्तिप्रदा शङ्खा मुक्तामुक्तिफलप्रदा।
जलजैर्मणिभिर्माला जप्तुरिस्थं फलप्रदा।। 31.33 ।।
अक्षान्यथोक्तान् संगृह्य (20) वृत्तान् दोषविवर्जितान्।
प्रक्षाल्य पञ्चभिर्गव्यैः पञ्च वेदान्तविद्यया।। 31.34 ।।
(20.विशुद्धान्दोषवर्जितान्)
आरोपयेद्धेमसूत्रे (21) त्रिगुणैस्त्रिगुणीकृते।
सूत्रे वा राजते क्षौमे (22) शण केशादिवर्जिते।। 31.35 ।।
(21.द्विगुणे त्रिगुणी) (22.शाण)
कार्पासे वा यथालाभं क्षाळिते परिशोधिते।
पृष्ठेन पृष्ठभागे च मुखभागे मुखे न च।। 31.36 ।।
परस्परोण संबद्धा मणयस्सदृशाश्शूभाः।
सूत्रेण वा सुवर्णेन मध्ये (23) बद्धे तथान्तरम्।। 31.37 ।।
(23.मध्ये तु सान्तरः।। प्रोता स्सूत्रेण तां)
प्रोतनूत्रेषु तैः कल्फ्या मालिका कटकाकृतिः।
मणिमन्यं (24) तु बध्नी या न्मालाग्रन्थौ महत्तरम्।। 31.38 ।।
(24.बध्नीयान्महान्तं म...त्तरम्)
मेरुसंज्ञा मणेस्तस्य (25) भ वेद्दक्षिणतो गतिः।
पुण्याहं वाचयित्वाऽन्ते मालां स्थाप्याम्भुजोदरे।। 31.39 ।।
(25.जपे)
विलिप्य कुङ्कुमाद्यैस्तामक्षमालां चतुर्मुख।
शालिभारं च निक्षिप्य तिलतण्ढुलसंयुतम्।। 31.40 ।।
लिखित्वा तत्र चक्राज्बमा स्तीर्य कुशवस्त्रकम्।
तत्राऽक्षमालां विन्यस्य छादयेन्नववाससा।। 31.41 ।।
यजेत कुम्भे तन्मन्त्रं हेमवस्त्रादि संयुते।
होममेकत्र कुर्वीत कुण्डे वा स्थण्डिलेऽपि वा।। 31.42 ।।
समिच्चतुघृतैरष्टौ शतं च स्वस्व विद्यया।
ध्यानेन शोषणादीनि कृत्वा (26) न्यच्च यथापुरम्।। 31.43 ।।
(26.कुण्डेः)
तन्मध्ये पुरुषं द्यायेद्बद्धाञ्जलिमवस्थितम्।
चतुर्भुजं वळर्क्षाभं वरदाभयहन्तकम्।। 31.44 ।।
अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।
शान्तिहोमावसाने च संस्पृशे दक्षणालिकाम्।। 31.45 ।।
प्राप्ते मूहूर्ते तत्त्वानि न्यस्येत्सृष्टिक्रमाद्गुरुः।
या परा वैष्णवी शक्तिरभिन्ना परमात्मनः।। 31.46 ।।
तेजसाऽऽदित्यसङ्गाशां प्राग्वत् स्मृत्वा हृदम्भुजे।
ध्यायेत्ततो ब्रह्मरन्ध्रा दुद्गच्छन्तीं शनैश्शनैः।। 31.47 ।।
आवह्य चाऽक्षमालाया (27) मन्त्रेण स्वेनमन्त्रवित्।
मूलमन्त्रेण कुम्भस्थवारिणा प्रोक्षयेद्गुरुः।। 31.48 ।।
(27.मक्षमन्त्रेण)
सन्निधं चाऽक्षमालायां याचेत परमात्मनः।
सन्निधत्तां भवानस्मिन् भक्तानुग्रहकाम्यया।। 31.49 ।।
जपाऽक्षमालावलये गाधामेनां समुच्चरन्।
तत्राऽक्षमालां बिभ्रणं ध्यात्वा देवं (28) जनार्धनम्।। 31.50 ।।
(28.चतुर्भुजम्)
(29) शिष्यस्य यजमानस्य हस्ते दद्याद्गुरुस्स्वयम्।
प्रणम्य प्रतिगृह्णीयात् शिरसा तां समाहितः।। 31.51 ।।
(29.इष्ट्वा च)
विद्यामिव यथावित्तं दद्याच्च गुरुदक्षिणाम्।
तस्मिन् मुहूर्ते तां विद्यां सञ्जपेदक्षमालया।। 31.52 ।।
(30) आदौ यमक्षमालायां मन्त्रं स्थापितवान् गुरुः।
तमेव मन्त्रं गणयेन्न (31) यं कञ्चन मालया।। 31.53 ।।
(30.आदावेवाक्ष) (31.कथंचन?)
अप्रतिष्ठापिता या च तया नैवाऽक्षमालया।
जपं कुर्वन्नरो मोहात्कुर्वन्नैवाऽश्नु ते फलम्।। 31.54 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रभा घंटाक्षमाला प्रतिष्ठाविधिर्नाम
एकत्रिंशोऽध्यायः


******************-------------