क्रियापादः/अध्यायः ३२
← अध्यायः ३१ | क्रियापादः अध्यायः ३२ [[लेखकः :|]] |
पाद्मसंहितायाम्
द्वात्रिंशोऽध्यायः
- गृहार्चाविधिः*
- तत्रलोहदार्वादिभेदेन फलम् *
श्रीभगवान्----
गृहार्चास्थापनं वक्ष्ये यथावत्कमलासन।
सौवर्णी राजती वाऽपि (1) प्रतिमा स्याद्द्विजन्मनाम्।। 32.1 ।।
(1.प्रतिमा)
आरकूटमयी यद्वा यद्वा ताम्रमयी भवेत्।
लोहजाः प्रतिमास्सर्वास्सर्व कामफलप्रदाः।। 32.2 ।।
(2) शिलाबिम्बं दारुबिम्बं स्वगृहे नार्चयेद्बुधः।
पिशाचादि वशीकारे प्रतिमा चायसी मता।। 32.3 ।।
(2.शिलाबिंबं इत्येकं अर्धं क्वचिन्न)
उच्चाटनकरी कांस्यप्रतिमा कमलासन।
(3) त्रिलोहजा शत्रुजया सीसकोस्थाऽमयप्रदा।। 32.4 ।।
(3.लोहजा शत्रुविजया)
(4) रत्न जप्रतिमास्सर्वास्सर्वकाम फलप्रदाः।
चन्द्रकान्तस्फटिकजा सौम्या प्रतिकृतिर्मता।। 32.5 ।।
(4.राजत)
आग्नेयी मित्रमणिजा अन्या स्फटिकजा द्विधा।
पालग्रामशिला श्वेता सौम्या (5) सौम्यफलप्रदा।। 32.6 ।।
(5.सर्व)
श्रीकरी पीतवर्णा च रक्ता कामप्रदा मता।
कृष्णा पुष्टिप्रदा नित्यं पिङ्गला (6) रोगदा सदा।। 32.7 ।।
(6.रोग्यदा)
शिलाश्च क्रसरिज्जातास्सर्वा मोक्षफलप्रदाः।
मूर्तभिर्गर्भितास्सर्वा श्शिलाश्चक्र सरिद्भवाः।। 32.8 ।।
प्रादुर्भावैश्च मीनाद्यैस्तथा दिव्यायुधैरपि।
लाञ्चिताः कौस्तुभाद्यैश्च भूषणैः कमलासन।। 32.9 ।।
अङ्किताः पूजनीयाश्च भुक्तिमुक्तिफलार्थिभिः।
सर्वास्स्वायम्भुवा ज्ञेयाश्शिलाश्च क्रसरिद्भवाः।। 32.10 ।।
नित्यं सन्निधि रेतासु परस्य परमात्मनः।
न प्रतिष्ठा विधातव्या न चैवाऽऽवाहनादिकम्।। 32.11 ।।
सालग्रामशिला यत्र पूज्यते भगवन्मयैः।
तद्देशे योजनादर्वाङ्मृतो निर्वाणमश्नु ते।। 32.12 ।।
द्वारवत्याश्चिलाश्चापि सालग्रामशिलासमाः।
द्रुमजातिप्रतिकृतिस्सभाज्या कामनवशात्।। 32.13 ।।
प्रतिमा चन्दनमयी पूजिता श्रियमावहेत्।
प्रतिमा चाऽगरुमयी भुक्तिमुक्ति (7) फलप्रदा।। 32.14 ।।
(7.प्रदा शुभा.)
देवदारुमयं बिम्बं सर्वदं भवनेऽर्चितम्।
बिल्वजा प्रतिमा लक्ष्मीमतुलामानहेत्सदा।। 32.15 ।।
ब्रह्मवर्चसकामेन ब्रह्मवृक्षसमुद्भवा।
शमीप्रतिकृतिस्स्वर्ग्या नमेरुस्सुखदाभवेत्।। 32.16 ।।
अन्नादिकामैः प्रतिमा पूज्योदुम्बरदारुजा।
अश्वत्थनिर्मिता पूज्या राज्यकामेन धामनि।। 32.17 ।।
न्यग्रोधनिर्मितं बिम्बं (8) सर्वत्र भवनेऽर्चितम्।
प्लक्षजं जीवधनदं सर्वोपकरणावहम्।। 32.18 ।।
(8.वंशविच्छेदकारकं, सर्वदाभवनेऽर्चितम्)
पियङ्गु निर्मितं बिम्बं श्रीवश्यं भवनेर्चितम्।
पुत्रदीपमयं प्रत्रकारकं मुक्तिदं तथा।। 32.19 ।।
मन्त्रादि साधने युक्तां सरलार्चां समर्चयेत्।
तमालजातिप्रतिमा सर्वलोक सुखावहा।। 32.20 ।।
चूतजाऽरोग्यदा पुत्र (9) वित्तजा बदरीकृता।
(10) वसप्रतिमा ब्रह्मन् बहुपुत्रा समर्चिता।। 32.21 ।।
(9.वृद्धता) (10.पनस प्रतिबिंबं च बहुपुत्रदमर्चितम्)
क्षीरणी धनदा ज्ञेया सप्तला दुखनाशिनी।
धनजं जातिजं बिम्बं (11) स्फन्दजं सुखकारणम्।। 32.22 ।।
(11.स्पर्शनं)
(12) तिमिदं धनजं ब्रह्मन् कदम्बं ज्ञानकारणम्।
कुरवः पुष्ठिफलदस्तिलकस्सर्वकामदः।। 32.23 ।।
(12.त्रिमिशं धनदम्)
मधूकस्सिद्धिदश्चाहुरसनश्श्रीकरस्सदा।
पुष्टिदो जम्बुवृक्षस्तु पुन्नागः पुष्टिवर्धनः।। 32.24 ।।
(13) रोगदो राजवृक्षश्च कादिरश्चाक्षिनाशनः।
निम्भवृक्षप्रतिकृतिर्विद्येषण करी मता।। 32.25 ।।
(13.अरतोजाति करजोजाति वृक्षश्च)
विभीतिका शल्मली च कल्प्यते (14) कमलासन।
गजोत्पाटिकागौरार्क मूलकल्पितकौतुकम्।। 32.26 ।।
(14.कलहाय सा)
वैनायकमभिप्रेतसकलार्थ प्रसादकम्।
मात्राङ्गुलिवशेनैव गृहार्चामानकल्पनम्।। 32.27 ।।
नाधिकं हस्तमानाच्च न न्यूनं द्वादशाङ्गुलात्।
कौतुकं भवनेऽभ्यर्चं शिलादार्वादिजं ध्रुवम्।। 32.28 ।।
अङ्गुलैः प्रतिमामानं वर्णानामुच्यते क्रमात्।
हस्तमानमितार्चा स्याद्भवने पूर्वजन्मनः।। 32.29 ।।
अङ्गुलै रेकविंशत्या प्रतिमा वसुधापते।
विशामेकोनविंशत्या (15) द्वाभ्यां सूद्रस्य हीनया।। 32.30 ।।
(15.प्रतिमा कमलासन)
अर्धचित्रं तदभासं भवने भुक्तिवर्धनम्।
द्वादशाङ्गुलमानार्चा लोहजा पूर्वजन्मनः।। 32.31 ।।
नवाङ्गुला क्षत्रियस्य विशस्सप्ताङ्गुला मता।
पञ्चाङ्गुला चतुर्थस्य प्रतिमा भवने भवेत्।। 32.32 ।।
प्रतिमा यन्मयी क्लृप्ता प्रभापीठादि तन्मयम्।
यद्वा सोवर्णबिम्बस्य राजतं ताम्रमेव वा।। 32.33 ।।
लो हेन चेदुत्तमेन प्रतिमा निर्मिता भवेत्।
तदनन्तरलोहेन प्रभापीठादी कल्पयेत्।। 32.34 ।।
त्रिलोहजायामर्चायां सुवर्णं वा प्रभादिकम्।
रत्नस्फटिकजानां तु प्रतिमानां प्रभादिकम्।
लोजहं स्मर्यते ब्रह्मन् रहस्यमिदमीरितम्।। 32.35 ।।
गृहे संहारशयनमर्चयेन्नकदाचन।
भगवन्मूर्तयस्त्वन्या स्सर्वाः पूज्या तथातथम्।। 32.36 ।।
(16) श्री भूमि सहितं देवं श्रिया केवलयाऽपि वा।
सहितां पूजये (17) न्नित्यं भक्त्या पद्मनि केतन।। 32.37 ।।
(16.श्रियां भूमिं समभ्यर्च्य) (17.द्भुक्ति मुक्तिकामो निकेतने)
- गृहे पूजास्थाननिर्देशः*
पूजास्थानं (18) गृहस्योक्तं मारुत्यां दिशि नाऽन्यथा।
अर्चयेद्भवनेष्वर्चां यजमानो यथोदिताम्।। 32.38 ।।
(18.गृहे चोक्तं निरृत्यां)
तत्प्रतिष्ठार्थमाचार्यमभ्यर्थ्याऽऽगमयोद्गृहम्।
अङ्कणे वा नदीती रे क्षेत्रे यद्वा सुपूजिते।। 32.39 ।।
वेदिकां परितः क्लृप्ते होमकुण्डचतुष्टये।
एकर्स्मि वा गुरुः कुर्यात्फ्रतिष्ठा कर्मापूर्ववत्।। 32.40 ।।
अङ्कुरानर्पयित्वाग्रे जले चैवाधिवासनम्।
नयनोन्मीलनं चाऽपि कुर्याऽत्पूर्वोक्तवर्त्मवा।। 32.41 ।।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं (19) तथा दथि।
(20) पयोमधुकषायं च उष्णाम्भः फलवारि च।। 32.42 ।।
(19.घृतम्) (20.पयोमधुक्षाळनं च)
मार्जनाम्भोक्षताम्भश्च रत्नाम्भो लोहवारि च।
गन्धाम्भश्च यपाम्भश्च क्रमेणाऽनेन पद्मज।। 32.43 ।।
स्नापयेच्च नृसूक्तेन तथेदं विष्णुरित्यृचा।
स्नपनं कारयेद्वार्वान् मन्त्रैः प्रागुक्तवर्त्मना।। 32.44 ।।
शयनादिकमन्यच्च क्रियाजातं यथापुरम्।
महाप्रतिष्ठा विधिवत्कर्म कुर्याद्गुरुस्स्वयम्।। 32.45 ।।
प्रतिमास्तापनस्थाने रत्नन्यासादि पूर्वकम्।
प्राप्तै मुहूर्ते प्रतिमा स्थावरां चेदभीप्तिताम्।। 32.46 ।।
स्थाने तां स्थापयित्वैवं कुर्या (21) धावाहनादिकम्।
(22) जङ्गमा चेदभिमता वेद्या मावहनादिकम्।। 32.47 ।।
(21.दौदह) (22.प्रार्थयीत मनीषी.)
कुर्यात्तदनु तां स्थाने स्थापयेद्विधिपूर्वकम्।
चण्डप्रचण्डौ वलजे क्षेत्रपालं खगेश्वरम्।। 32.48 ।।
विघ्नेशं वास्तुनाथं च दुर्गां वा तत्र कल्पयेत्।
गुहं च विष्वक्सेनं च शङ्खपद्मनिधी तथा।। 32.49 ।।
आचार्यचोदितो भूमौ पतित्वा दण्डवत्स्वयम्।
याजमानः (23) प्रार्थयेत्तमभीप्सितम् शेषतः।। 32.50 ।।
दासोऽस्मि तव देवेश सपुत्रगणभान्दवः।
सन्निधस्स्वगृहो यावदन्ववायो ममाऽच्युत।। 32.51 ।।
(23. प्रार्थयीत मनीषी)
फूजां मया यथाशक्ति विहितां विकलामपि।
(24) गृह्णीष्व भगवन् भक्तजनानुग्रह काम्यया।। 32.52 ।।
(24.भगवन् गृहाण भगवन् मदनु.)
याचित्वा देवदेवेश मित्थमाचार्य सन्निदौ।
गुरवे दक्षिणां दद्याद्यथाविभविस्तरम्।। 32.53 ।।
यथा च तृप्तिरस्य स्यात् ऋत्विजामपि पूर्ववत्।
भ्राह्मणान् भोजयेच्छक्त्या तोभ्यो दद्वाच्च दक्षिणाम्।। 32.54 ।।
स्थापयित्वाऽर्चयेद्देवं भक्तिमान् भक्तवत्सलम्।
भुक्त्वा भोगान् सुविस्तीर्णान् प्रेत्य नेहाऽभिजायिते।। 32.55 ।।
भवने स्थापितो विष्णुः पुष्णाति कुलमात्मनः।
मन्दिरे तु गजत्सर्वं पुष्णाति स्थापितो हरिः।। 32.56 ।।
श्री वत्सकौस्तुभोष्णीषवनमाला चतुष्टयम्।
प्रधान भुषणं विष्णोः प्रतिष्ठाप्य यथाविधि।। 32.57 ।।
श्रीवत्सं स्थापयित्वाग्रे (25) शालिभरारे सशाटके।
निवेश्य प्रळयं (26) सर्गं महाकुम्भं यजेद्गुरुः।। 32.58 ।।
(25.शालि तण्डुल शाटके) (26.सर्वं ध्यात्वा.)
कुण्डे श्रीवत्समन्त्रेण नळिनाकारकल्पिते।
जुहुयात्समिधा (27) घारचतुभिश्शतमष्ट च।। 32.59 ।।
(27.धाज्येन.)
वारान्न्यसेश्च (28) तत्त्वानि शान्तिं हुत्वास्पृशेच्चतम्।
संप्रोक्ष्य कुम्भतोयेन मुहूर्त्मे हरिवक्षसि।। 32.60 ।।
(28.चत्वारि.)
निवेशयेद्दक्षिणा च देया निष्कत्रयाऽवरा।
गुरवे यजमाने मनः प्रीतिविवर्धनी।। 32.61 ।।
यो भूषयति देवेशं श्रीवत्सप्रतिकर्मणा।
स लक्ष्मीं लभते नित्यामुत्तमां नाऽत्र संशयः।। 32.62 ।।
कौस्तुभं स्वेन मन्त्रेण स्थापयित्वा यथापुरम्।
हरिमा कल्पयेत्तेन मुहूर्ते देशिकोत्तमः।। 32.63 ।।
यजमानश्च गुरवे प्रयच्छेद्दक्षिणां शुभाम्।
यः कौस्तुभेन देवेशं मण्डये (29) दश्नुते श्रियम्।। 32.64 ।।
(29.त्सविशेत्)
वनमालां च सौवर्णीं नानारत्न (30) परिष्कृताम्।
स्थापयित्वोक्तमार्गेण मुहूर्ते शभने गुरुः।। 32.65 ।।
(30.समन्विताम्)
कर्णे प्रलम्बयोद्विष्णोस्सर्वसम्बत्करीं नृणाम्।
दक्षिणां कुरवे दद्वाद्यजमानोऽपि पुष्कलाम्।। 32.66 ।।
यश्च चभुषयति श्रिशं मनुजो वनमालाया।
पोऽश्नु ते दुर्लभान् कामान् सर्वानेवन शंशयः।। 32.67 ।।
प्रेत्य लोकान् सुविपुलान् स्वर्गादीन् सोऽश्नुतेऽक्षयान्।
शुद्धजाम्बूनदमयं किरीटं (31) मणिभिश्चितम्।। 32.68 ।।
(31.मणिनिर्मितम्)
(32) चेतसा भक्तियुक्तेन यथार्हं मधुविद्विषः।
कलशैस्सप्तदशभिस्स्नापयित्वा स्वविद्यया।। 32.69 ।।
(32.बहुनेह किमुक्तेन.)
शालिभारेषु विन्यस्य वेष्टयित्वा च वाससा।
अहतेन पुनः पुम्भो यजेदावाह्य विद्यया।। 32.70 ।।
जुहुयाच्च चतुर्थक्षु विद्यया च स्वया गुरुः।
स्पृष्टा च शान्तिहोमान्ते प्रभाते कुम्भवारिणा।। 32.71 ।।
संप्रोक्ष्य स्वेन मन्त्रेण दत्वा च गुरुदक्षिणाम्।
प्राप्ते मुहूर्ते देवेशमासीनं (33) भूपविष्टरे।। 32.72 ।।
(33.भद्र)
स्नापयेद्राजनद्देवमाराद्या कल्पभूषणैः।
ब्राह्मणेषु चतुर्वेदा नधीयानेषु सर्वतः।। 32.73 ।।
नानाविधेषु वाद्येषु चतुर्दिक्षु नदत्सु च।
वन्दारुषु च देवेशं स्तोत्रैरुच्चावचैर्भृशम्।। 32.74 ।।
स्तुवस्तु भक्तिनम्रेषु श्रीभूमिसहितं हरिम्।
प्रस्तूयमानेष्वन्येषु मङ्गलेषु समन्ततः।। 32.75 ।।
कुण्ढेषु पुरतो हुत्वा पूर्ववत्समिदादीभिः।
चतुर्दिक्षु च (34) तुर्द्वारि ए काग्नेः कोणतः स्थिते।। 32.76 ।।
(34.चत्वार एकोग्निः कोणतस्थितः)
पञ्चोपनिषदैर्मन्त्रैः किरीटं देवमूर्धनि।
आरोपयेयुराचार्य्याः मूर्तिपाश्च विचक्षणाः।। 32.77 ।।
मुञ्चेयुः पुष्पवृष्टिं च तूर्यघोषपुरस्सरम्।
महद्भिरुचारैश्च गुरुणाऽभ्यर्चितं हरिम्।। 32.78 ।।
ब्राह्मणेभ्यो धनं दत्वा सुखासीनां महासने।
यानमारोप्य हस्त्यादि श्वेतच्छत्र विराजितम्।। 32.79 ।।
वीज्यमानं च गौरेण चामरेण समन्ततः।
ग्रामं प्रदक्षिणं नीत्वा मन्दिरे विनिवेशयेत्।। 32.80 ।।
यः किरीटेन (35) देवेशमाकल्फेन प्रसाधयेत्।
त्रयाणामपि लोकानामाधिपत्यं स विन्दति।। 32.81 ।।
(35.लक्ष्मीशं )
हारादिभिर्नूपुरान्त्रैर्भूषणैस्तपनीयजैः।
क्षाळितैर्गन्धतो येन द्वादशाक्षरविद्यया।। 32.82 ।।
धान्यराशिषु संस्थाप्य होमं च समिदादिभिः।
(36) स्पृष्ट्वा कल्पं जपेन्मन्त्रं देशिको द्वादशाक्षरम्।। 32.83 ।।
(36.स्मृत्वा मन्त्रम्.)
मूहूर्ते भूषयेत्तेन देवेशं विद्याया तया।
ये भूषयति देवेशं सोऽपि कार्यान् समश्नुते।। 32.84 ।।
- पंचायुधमान प्रतिष्ठादि*
पञ्चायुधानां दिव्यानां प्रतिष्ठा वक्ष्यतेऽधुना।
चक्रस्य तावत्सर्वेषु (37) मुख्यस्य कमलासन।। 32.85 ।।
(37.मध्येषु)
वक्ष्यते स्थापनं तस्य यानं रूपं च (38) यादृशम्।
विस्तृतं हस्तमानेन यद्वा सप्तदशाङ्गुलम्।। 32.86 ।।
(38.तादृशम्)
अष्टादशाङ्गुलं यद्वा विंशत्यङ्गुलमेव वा।
चतुर्धशाङ्गुलं यद्वा षोडशद्वादशाङ्गुलम्।। 32.87 ।।
मूलबिम्बाननसमं सहस्रारं समुज्वलम्।
यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्।। 32.88 ।।
द्वादशारमथाष्ठारमथवा (39) षडरं परम्।
सहस्रज्वालमथवा षड्ज्वालं नाभिमण्टितम्।। 32.89 ।।
(39.षडरावरम्)
(40. त्रिलोह निर्मितं चक्रं नालपीठसमन्वितम्।
कृत्वा करण्ढमुकुटं बिभ्राणं वा सुदर्शनम्।। 32.90 ।।
(40.त्रिकोण)
चतुर्भुजधरं क्रुद्धं भ्रुकुटीकुटिलाननम्।
पुरुषं द्विभुजं यद्वा दक्षिणेनापि तर्जनम्।। 32.91 ।।
स्पृशन्तं कटिमन्येन इतराभ्यां कृताञ्जलिम्।
मुख्याभ्यां तु कराभ्यां वा सुस्थितं पद्मविष्टरे।। 32.92 ।।
अथिवास्य जले पूर्वं स्थापयित्वा च मण्टपे।
शययित्वा च शयने इष्ट्वा कुम्भे स्वविद्यया।। 32.93 ।।
द्वायन्पुरुषमत्युग्रं द्विभुजं रक्तवाससम्।
रक्तदंष्ट्राननं नाभो (41) संस्थितं गुरुरीदृशम्।। 32.94 ।।
(41.सुस्थितं गुरु)
चतुर्दिक्षु च कुण्डेषु चक्रमन्त्रेण मूर्तिपाः।
जुहुयुस्समिधाघारं चरुबिः कमलासन।। 32.95 ।।
(42) कुण्ढेष्वेकत्र पुरतस्तोरणादीनि पूर्ववत्।
अर्चयित्वा ततश्चक्रं (43) शोषयेच्छोषणादिभिः।। 32.96 ।।
(42. कुण्ढे वै तत्र पुरतः) (43.शोधये)
स्फृष्ट्वातु शान्तिहोमान्ते नाभ्याद्यवयवान् क्रमात्।
मूहूर्ते कुम्भतोयेन शिञ्चेदात्मीया विद्यया।। 32.97 ।।
चतुर्णामित रेषां च शङ्खादीनां यथापुरम्।
(44) प्रतिष्ठापनमाचार्यः स्वैर्मन्त्रैरनुपूर्वशः।। 32.98 ।।
(44.प्रतिष्ठा स्थान)
गुरवे दक्षिणा देया दशनिष्कावरा ततः।
पंचायुधानि (45) निर्माय यः स्थापयति मानवः।। 32.99 ।।
(45.देवाय)
स विष्टपत्रये दीमान् न भिभेति कुतश्चन।
(46) भुङ्कै च भोगान् (47) विस्तीर्णान् योदते च त्रिविष्टपे।। 32.100 ।।
(46. भूक्त्वा च भोगन् विपुलान्) (47.विमलान्)
चण्ढादि द्वारपालानां प्रतिष्ठाविधिरुच्यते।
जलादिवासनं पूर्वं मण्टपे स्नपनं तथा।। 32.101 ।।
शय्यायां चापि शयनं कुम्भे चैकत्र पूजनम्।
होमश्चतुर्षु कुण्ढेषु कुण्ढे वैकत्र पद्मज।। 32.102 ।।
तत्त्वन्यासं तथाशान्तिहोमाङ्गस्पर्शनं तथा।
प्रोक्षणं कुम्भतोयेन विद्यया च स्वभीजया।। 32.103 ।।
गुरवे दक्षिणा चाऽपि देया वित्तानुसारतः।
चण्डादीन् स्थापयेन्मत्मर्त्य (48) श्चैतत्सारूप्यमश्नुते।। 32.104 ।।
(48.स्तैस्सायुज्य मवाप्नुयात्)
- वैन तेयादि प्रतिष्ठा*
वैनतेयप्रतिष्ठायां विशेषो वक्ष्यतेऽधुना।
प्राच्यां (49) जुह्वन् बृहत्साम्ना तस्यं ध्यायेद्गुरुस्ततः।। 32.105 ।।
(49.हुवेद्ब्रह्मसाम्ना0
दक्षिणस्यां सुपर्णं तु सौपर्ण्या विद्यया (50) हुवेत्।
प्रतीच्यां गरुडं कुण्ढे ध्यायेद्धोमो रथन्तरैः।। 32.106 ।।
(50.गुरुः)
तार्क्ष्यध्यानमुदीचीने गायत्र्या च स्वया हुतिः।
पुरस्तादुपरिष्टा च्च शुभं (51) कर्मयथापुरम्।। 32.107 ।।
(51.सिष्ठं)
स्थापको वैनतेयस्य लभते तत्समीपताम्।
आदित्यस्य प्रतिष्ठा च विधातव्या यथापुरम्।। 32.108 ।।
विशेषस्तूच्यते कश्चिद्यथावदवधारय।
(52) आवहनं स्वगायत्र्यातया कुण्ढेषु चाहुतिः।। 32.109 ।।
(52.आराधनं)
बिभ्राडित्यनुवा केन सावित्र्या स्थापनं तथा।
मार्यस्य मूलमन्त्रेण कुण्भतोयेन सेचनम्।। 32.110 ।।
स्थापकस्तस्य तल्लोके राजते मुक्तकिल्बिषः।
ब्रह्मादीनां च सर्वासां देवतानां यथापुरम्।। 32.111 ।।
स्वातन्त्र्ये पारतन्त्र्ये च स्वैर्मन्त्रैः स्थापनं भवेत्।
दुर्गा च मातरस्सप्त याः काश्चिद्देवतास्त्रियः।। 32.112 ।।
प्रतिष्ठा तासुलक्ष्मीवन्मन्त्रैस्स्वैस्वैर्विंष्यते।
- विष्वक्सेनोत्पत्ति स्थापनादि*
ब्रह्मा----
विष्वक्सेवस्य भगवन् उत्फत्तिः (53) कारणात्कृतः।
स्थापनं च कथं तस्य कथ्यतां यद्यनुग्रहः।। 32.113 ।।
(53.कारणं तथा)
श्री भागवान्----
दौवारिकेषु सर्वेषु यश्चण्ढः प्रथमो भवेत्।
स देवासुरयोर्युद्धे बली दण्ढधरस्स्वयम्।। 32.114 ।।
जघान दैत्यान् देवार्थमात्मनाऽभि प्रचोदितः।
तस्य तुष्टोह मददां मत्स्वरूपसरूपताम्।। 32.115 ।।
ऐश्वर्यं कुमुदादीनां बलं चाऽप्रतिवारितम्।
विष्वस्सेनसमाख्यां च सर्वसेनाधिपोचिताम्।। 32.116 ।।
नैवेद्यस्य चतुर्थांशं सर्वस्योपहृतस्य मे।
चण्ढस्य च पदेत्युग्रमन्यं स्थापित (54) वानहम्।। 32.117 ।।
(54.वान्पुनः)
इत्थं ब्रह्मन् तदुत्फत्तिः स्ताप्यश्च मम सन्निधौ।
स्थापनं च स्वमन्त्रेण तस्येष्टं यद्वदात्मनः।। 32.118 ।।
दक्षिणा गुरवे देया स्थापकस्य फलं तथा।
प्रतिकायं च भक्तानां कृत्वा स्थापनमाचरेत्।। 32.119 ।।
स्वतन्त्रं (55) वाऽन्यतन्त्रं वा यथालाभं शिलादिभिः।
कृताञ्जलिपुटं सौम्यं स्थितमासीनमेव वा।। 32.120 ।।
(55.स्वामितन्त्रं वा)
यथावर्णं यथारूपं यथाचाश्रमधर्मिणाम्।
यथापयोरूपधरं पद्मपिठे प्रतिष्ठितम्।। 32.121 ।।
कृतलक्षणसम्पन्नं शिल्पिभिस्सुपरीक्षितम्।
यद्वा कर्मानुरूपेण प्रतिकायं प्रकल्फयेत्।। 32.122 ।।
स्थापयेदङ्गु रानादावर्पयित्वा शुभे दिने।
अयुग्माः पालिकाः कार्याश्शरावघटवर्जिताः।। 32.123 ।।
अधिवासनमारभ्य पूर्ववत्कर्मपद्दतिः।
उपचारस्तथा होमः कुम्भयागश्च सेचनम्।। 32.124 ।।
परेण ब्रह्मणा कार्यं मन्त्रैश्चान्यैन्सुपूजितैः।
तोरणादीन्यजोत्पूर्वं न वेदिकलसानपि।। 32.125 ।।
मुहूर्ते प्रोक्षयेत्कुम्भवारिणा देशिकोत्तमः।
स्वतन्त्रे मन्दिरं कल्प्यं सिंहदिङ्गूर्तिवर्जितम्।। 32.126 ।।
दक्षिगुरोश्च प्रतिमां स्थापयेन्मन्त्र सिद्धये।
दीक्षिणा गुरवे देया तर्पणीयाश्च भूसुराः।। 32.127 ।।
आवर्जनीयं सर्वत्र धनैर्ब्राह्मणतोषणम्।
घण्याहवाचनं विप्रैस्स्वाध्यायाध्यायनं तथा।। 32.128 ।।
दक्षिणा च गुरो (56) र्गुर्वी यजमानधनोचिता।
एतैर्यथोदितैर्युक्तं (57) हीनमन्येन दूष्यति।। 32.129 ।।
(56.तोरणाद्यैर्यजेत्पूर्वं न वेदिकलशाष्टकं) (57.र्विप्रxxxxनमन्यैर्न.)
स्थापनं प्रतिकायानां ब्रह्मन्नै वाऽत्र संशयः।
सत्यहं (58) चार्चनं तेषां उपचारैः पृथग्विधैः।। 32.130 ।।
(58.चार्चयेद्धमान्)
कर्तव्यमुत्सवं चाऽपि ध्वजारोहणवर्जितम्।
नपरोमो न बलि स्तीर्धं स्वातन्त्र्यै विधिरीदृशः।। 32.131 ।।
पारतन्त्र्येतु भक्तावा मुत्सवः कमलासन।
देवस्योत्सवमध्ये च प्रक्राना वाऽथ (59) निर्मिते।। 32.132 ।।
(59.निश्चिते)
तस्मिन् कार्योकृते तस्मिन् प्रीयते हि जनार्धनः।
राज्ञो राष्ट्रस्य सर्वस्य ब्राह्मणानां गवामपि।। 32.133 ।।
जायिते भुयसि सम्पदुत्सवे विहिते सति।
इति ब्रह्मन् क्रियास्सर्वाः कथिताः पृच्छतस्तव।। 32.134 ।।
दयया परया भूयः किमन्यच्छ्रोतुमिच्छसि।
संवर्तः----
महोपनिषदं शास्त्रं चतुर्वेद समन्वितम्।
संक्षिप्य च शताध्यायात्पद्मेन कपिलाच्छ्रुतं।। 32.135 ।।
तदेव कण्वस्संक्षिप्य श्रिद्दधानस्य ते मया।
द्वात्रिंशदध्याययुतं (60) शुभं वै सारवत्तरम्।। 32.136 ।।
(61) पद्मात् श्रुतमिदं शास्त्रं तथा पद्माह्वयं मतम्।
(60. कथितम्) (61. पद्मोदिततया शास्त्रमिदं पाद्मुदाहृतंxxxxxxxxxxx)
इदं च देयं परमं रहस्यमनसूयवे।। 32.137 ।।
श्रद्दधानाय भक्ताय शुचये दीक्षिताय च।
ब्रह्मणाय प्रपन्नाय श्रोत्रियाय च धीमते।। 32.138 ।।
यद्वा ज्येष्ठाय पुत्राय न विद्यमरये वदेत्।
नमो ब्रह्मण्य देवाय श्रिधरायाव्ययात्मने।।
ऋग्यजुस्सामरुपाय शतरूपाय विष्णवे।। 32.139 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे संवर्तप्रोक्तायां संहितायाम्
गृहार्चास्थापनविधिर्नाम
द्वात्रिंशोऽद्यायः
क्रियापादस्समाप्तः