← अध्यायः ५ क्रियापादः
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
क्रियापादस्य अध्यायाः

पाद्वसंहितायाम्.
षष्ठोऽध्यायः
गर्भन्यासविधिः
श्रीभगवान्---
(1) गर्भन्यानवधिं ब्रह्मन् वक्ष्यामि श्रूयतामसौ।
गृह्णीयान्मृत्तिकां पूर्वं स्थानेषु दशसु क्रमात्।। 6.1 ।।
 (1. गर्भस्य संविधिम्. भर्भन्यासमिदं.)
शैले ह्रदे पुण्यतीर्थे वल्मीके (2) कर्कटाशये।
नद्यां वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ।। 6.2 ।।
 (2. कर्कटालये.)
हले चैतेषु सम्भूता प्रशस्ता मृत्तिका (3) ततः।
कुमुदस्यारविन्दस्य कशेरूत्पुल योस्तथा।। 6.3 ।।
 (3. भवेत्.)
नीलोत्पलस्य पञ्चैतान्कन्दानपि समाहरेत्।
मनश्शिला हरीतालमञ्जनश्यामसीसकम्।। 6.4 ।।
सौराष्ट्रं रोचनां चैव गैरिकं पारदं तथा।
आदाय(4) धातून् रत्नानि वज्रवैढूर्य (5) मौक्तिकम्।। 6.6 ।।
(4. चादौ.) (5. रत्नकं)
(6) स्फटिकं पुष्यकं शङ्कं पद्मरागं तथा परम्।
चन्द्रकान्तं (7) महानिलं नवैतानि समाहरेत्।। 6.7 ।।
(6. मौक्तिकं स्फटकं पुष्यं.) (7. तथा निलं)
शालिनीवारकङ्गूंश्च प्रियङ्गुतिलमाषकान्।
मुद्गांश्च यववेणूंश्च गृह्णीयान्नवधान्यकम्।। 6.8 ।।
हिरण्यं रजतं ताम्रमायसं त्रपु सिसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं शङ्खचक्रकम्।। 6.9 ।।
एतान् सर्वान् समानीय निक्षिपेद्गर्भभाजने।
भाजनं धान्यराशौ तु न्यन्य वस्त्रेण वेष्टयेत्।। 6.10 ।।
गन्धादिभिस्समभ्यर्च्य विष्णुगायत्रिया ततः।
कुण्डे वा स्थण्डिले वाग्निं समानीय (8) समिध्य च।। 6.11 ।।
 (8.समिंधयेत्.)
सर्पिषा च समिद्भिश्च विष्णुदैवत्यया तया तया।
अष्ठोत्तरशतं हुत्वा सम्पाताह्यं तु सङ्ग्रहेत्।। 6.12 ।।
चरुणा नरसू क्तेन जूहुयात् पोदशाहुतीः।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च।। 6.13 ।।
पर्वतेभ्यस्समुद्रेभ्य आदि त्येभ्यस्तथैव च।
वसुभ्यश्च मरुद्भ्यश्च ऋषिभ्यस्तदन न्तरम्।। 6.14 ।।
वेदेभ्यस्सर्वशास्त्रेभ्यः पुराणेभ्यस्तथैव च।
पातालेभ्यश्च दिग्भ्यश्च नागेभ्यस्तदनन्तरम्।। 6.15 ।।
गणेभ्यस्सर्वभूतेभ्यो (9) नरेन्द्रेभ्य स्तथैव च।
ग्रहेभ्यश्चैव सर्वेभ्यस्स्वाहान्तं जुहुयात्पृथक्।। 6.16 ।।
 (9. नक्षत्रेभ्य.)
तिलाज्यमिश्रचरुणा जुहुयात्तेभ्य एव च।
संपाताज्यं समानीय निषिञ्चेद्गर्भभाजने।। 6.17 ।।

  • निशायामेवगर्भन्यासः *

निशायामेव कुर्वीत गर्भस्य न्यसनं गुरुः।
सुमुहूर्ते सुनक्षत्रसुपक्षकरणैर्युते।। 6.18 ।।
शङ्खभेर्यादि (10) घोषैश्च सहमङ्गलपाठकैः।
द्विजेन्द्रवेदघोषैश्च आस्फोटक्ष्वेलितैरपि।। 6.19 ।।
 (10. तूर्याङ्गैः)
आदाय भाजनं पश्चाद्देवागारं प्रदक्षिणम्।
गत्वा गर्भगृहं सम्यग्ब्रणैस्सह संविशेत्।। 6.20 ।।
(11) द्वारस्य दक्षिणे पार्श्वे प्रारभ्यं पादपार्श्वतः।

  • देवादिभेदेनगर्भन्यासस्थाननिर्देशः *

देवानां पट्टिकायां तु गर्भन्यासः प्रशस्यते।। 6.21 ।।
(11.देवस्य.)
विप्राणां पट्टिकाधस्तान्नृपाणां कुमुदोपरि।
वैश्यानां (12) कुमुदे चैव शूद्राणां जगतोपरि।। 6.22 ।।
(12. कुमुदाधस्तात्.)

  • नी चो च्चादि व्यत्यासे अनिष्टफलम्.*

नी चे दुःखं भवेन्नि त्यमुच्छ्रिते द्रव्यनाशनम्।। 6.23 ।।
(13) स्थानभ्रंशकरं द्वारे भवत्येव न संशयः।
तस्माद्यत्नेन कर्तव्यं सुगुप्तं भित्तिमध्यतः।। 6.24 ।।
 (13. स्थानभ्रंशोऽपचारे तु.)

  • गर्भन्यासमंञ्जूषाविधिः*

मञ्जूषां मुख्यलोहेन कृत्वा तालप्रमाणतः।
नवगर्तसमायुक्तं विधानेन समन्वितम्।। 6.25 ।।
दारुजं तदभावे स्याद्गर्ता वरणसंयुतम्।
पुण्याहं वाचयित्वा तु पञ्चगर्व्येन शोधयेत्।। 6.26 ।।

  • ध्यानप्रकारः*

ध्यायन्भूमण्‍डलं सर्वं साद्रिद्वीपसमुद्रकम्।
दिग्गजो (14) त्तम्भितं शेषफणिन्द्रशिखरस्थितम्।। 6.27 ।।
(14. त्तमभृच्छेषफणिन्द्रशिरसि.)
मनस्यावेश्य वसुधां द्विहस्तां श्यामलां शुभाम्।
आकल्पितामृतुस्ना तामादध्याद्गर्भ (15) संपदम्।। 6.28 ।।
 (15. संयुतम्.)
आत्मानं केशवं ध्यात्वा सर्वाभरण भूषितम्।

  • मृद्धात्वादीनांन्यासस्थानं*

मृदं गृहीत्वासामुद्रीं परिकुर्यात्प्रदक्षिणम्।। 6.29 ।।
पार्वतीं पूर्वतो स्यस्येत्तीर्थजां दक्षिणे तथा।
नदीजां पश्चिमे भागे ह्रदजामुत्तरे तथा।। 6.30 ।।
कुलीरमृदमाग्रेय्यां नैरृते वाल्मिकीं मृदम्।
हलजां दिशि मारुत्यामैशान्यां हस्तिदन्तजाम्।। 6.31 ।।
वृषभस्य निषाणस्थां ब्रह्मस्थाने निवेशयेत्।
कन्दमौत्पलमैन्द्रे स्याद्यमदिश्यथ कौमुदम्।। 6.32 ।।
नैलोत्पलं प्रतीचीने काशेरवमुदग्गिशि।
ब्रह्मस्थाने भवेत्पाद्मं ततो धातून्विनिक्षिपैत्।। 6.33 ।।
पुर्व मनश्शिलां याम्ये हरितालं च वारुणे।
अञ्ञनं धनदाशायामाग्नेय्यां दिशि सीसकम्।। 6.34 ।।
सौराष्ट्रं नैरृते भागे (16) वायवीये तु रोचनां ।
ईशाने गैरिकं मध्ये पारदं ब्रह्मणः पदे।। 6.35 ।।
(16. वायव्ये रोचना मता.)
वज्रं पूर्वे भवेद्याम्ये (17) वैडूर्यं पश्चिमे मणिः।
कौबेरे पुष्यकं भागे स्फटिकं ज्वलने भवेत्।। 6.36 ।।
 (17. प्रवालंयाम्ये वैडुर्यं)
नैरृते मौक्तिकं वायौ चन्द्रकान्तशिला तथा।
माहेश्वरे महानीलं पद्मरागं तु मध्यमे।। 6.37 ।।
शालिबीजं भवेत्प्राच्यां नीवारं दक्षिणे तथा।
कङ्गुं प्रतीच्यां धनदेप्रियङ्गुं (18) ज्वलने तथा।। 6.38 ।।
(19. अनले पश्चिमे दिशि)
माषो नैरृतभागे स्यात्तिलो मुद्गस्तु मारुते।
ऐशाने (20) वेणुधान्यं स्याद्यवं स्याद्ब्रह्मणः पदे।। 6.39 ।।
 (20.यवधान्यं स्याद्वेणुः)
हिरण्यं पुर्वदिग्भागे दक्षिणे रजतं भवेत्।
पश्चिमे ताम्रमाधाय निक्षिपेतुदगायसम्।। 6.39 ।।
आग्नेये त्रपु राक्षस्यां कांस्यं मारुतदिश्यपि।
सौवर्णं कूर्ममैशान्यां (21) दरदं हेमनिर्मितम्।। 6.40 ।।
 (21. शंखं हेमविनिर्मितम्.)
चक्रं जाम्बूनदं मध्ये विन्यसेस्मूलविद्यया।

  • भूदेवताध्यानमन्त्रः*

महीं देवीं ततो ध्यात्वा मन्त्रमेतमुदीरयेत्।। 6.41 ।।
सर्वभूतधरे कानै पर्वतस्तनमण्डिते।
समुद्रपरिधानिये देव गर्भं समाश्रय।। 6.42 ।।

  • श्वभ्रपूरणविधिः *

एवमुक्त्वा ततश्श्वभ्रं गोमूत्रेण परिप्लुतम्।
आच्छादयेद्विधानेन सुधया दार्ढ्यमाचरेत्।। 6.43 ।।

  • गुरुदक्षिणा*

गुरवे दक्षिणां दद्यात्पूर्वोक्तद्रव्यसङ्ख्यया।

  • गर्भरक्षा.*

रक्षां समन्ततः कुर्याद्गर्भस्य (22) स्खलनं यदि।। 6.44 ।।
(22. ज्वलनम्--चलनम्.)
पायश्चत्तं ततः कुर्याद्धुर्निमित्ते च पूर्ववत्।

  • गर्भन्यासं विनाग्राम प्रासादादिकरणे दोषः*

अकृत्वा गर्भविन्यासं ग्रामं प्रासादमेव वा।। 6.45 ।।
यदि कुर्यात्क्षयं यायादचिराद्वास्तु धाम वा।
तद्धाम वास्तुनोर्हेम्ना गर्भमादौ समाचरेत्।। 6.46 ।।

  • धाम्नः आयामनिस्तारविदिः *

धामैकहस्तमपरं शतहस्तं परं स्मृतम्।
एकभूम्यपरं धाम परं द्वादशभूमिकम्।। 6.47 ।।
विस्ताराद्द्विगुणोत्सेधमुत्सेधानुगुणं तलम्।
(23) वित्तानुरोधं चोच्छ्रायः कर्तव्यः कमलासनः।। 6.48 ।।
(23. चत्तानुकूलं चोत्सेधं. चित्तानुकूलं चोच्छायम्.)

  • एकादिद्वादशतलेषु देवस्यश यनादिविधिः*

स्रष्टुर्देवस्य शयनमादिभूमौ विधीयते।
आसनं श्रीधरायुक्तं द्वितीये तु तले भवेत्।। 6.49 ।।
(24) स्थानं तथा तृतीये स्याच्चतुर्थे यानमिष्यते।
पञ्चमे येगशयनं षष्टे भोगासनं भवेत्।। 6.50 ।।
(24. स्नानं)
योगस्थितिस्सप्तमे स्यादष्टमे तार्क्ष्यवाहनम्।
नवमे भोगशयनं (25) भोगास्स्य र्दशमे भवेत्।। 6.51 ।।
 (25. भोगस्य.)
स्थितिरेकादशे भोक्तुं द्वादशे विश्वरूपवान्।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे गर्भन्यासविधानं नाम
 षष्ठोऽध्यायः


**************------------
"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_६&oldid=206902" इत्यस्माद् प्रतिप्राप्तम्