← अध्यायः ६ क्रियापादः
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
सप्तमोऽध्यायः
अधिष्ठानविधिः
श्रीभगवान्----

  • उपपीष्ठं *

अधस्तादुपपीष्ठं स्यादधिष्ठानस्य धारकम्।
शोभार्थं रक्षणार्थं च समुच्छ्रायार्थमेन वा।। 7.1 ।।
अधिष्ठानसमो त्सेधमर्धं वा स्यात्त्रिपादकम्।
पादांशं वा त्रिभागं वा सार्धांशं वा सपादाकम्।। 7.2 ।।
द्विगुणं त्रिगुणं वापि कर्तव्यमुपपीषकम्।
उत्सेधं दशधा कृत्वा भागेनै केन वर्थनात्।। 7.3 ।।
(1) पञ्चमांशमधिष्ठानं धाम्नो बाह्ये तु निर्गमः।
दण्डं वा सार्थदण्डं वा द्विदण्डं वा त्रिदण्डकम्।। 7.4 ।।
 (1. पञ्चांशां तदधिष्ठावं पन्माद्भाह्ये. पञ्चाशतामधिष्ठानम्.)
अधिष्ठानं जगत्या वा समन्तात्पादबाह्यकम्।

  • वेदीभद्रादिभेदः *

वेदीभद्रं प्रदीभद्रं सुभद्रं चत्रिधामतम्।। 7.5 ।।

  • वेदिभद्रं *

उच्छ्राये भनुभागे द्व्यंशे सोपानमीरितम्।
 पद्ममंशं तदुर्ध्वेर्धं क्षेपणं पाञ्चभागिकम्।। 7.6 ।।
ग्रीवमर्धेन कम्पं स्याद्भागै केन म्बुजं भवेत्।
शेषांशं वाजनं कंप (2) मष्टांग मुपपीठकम्।। 7.7 ।।
षडङ्गं वा विधातव्यमू (3) र्द्वा धस्ताद्भूजान्वितम्।
(2. मष्टाज्ग.) (3. मुर्द्वेऽधस्तोंबुजं विना.)
वेदिभद्रं द्विधा प्रोक्तं सर्वहर्म्येषु योग्यकम्।। 7.8 ।।

  • प्रतीभद्रं *

(4) अनीदृक्च शिवांशैस्तु भानुभागांशकांशकैः।
(5) त्य्रंशैकांशैकभागे तु द्वाभ्यामंशेन योजयेत्।। 7.9 ।।
 (4. अश्विनीदृक्शिवां शै.) (5. अंशनैवांशभागेतु.)
(6) जगतो वाजनान्तं तु तुङ्गेत्रिनवभागके।
पादुकं पङ्कजं (7) कम्पं पीठमुत्तरमम्बुजम्।। 7.10 ।।
(6.जन्मनो.) (7. कण्ठ.)
कपोतपालिकान्तादि प्रतिवाजनमुच्यते।
प्रतिभद्रमिदं नाम्ना सर्वालङ्कारसंयुतम्।। 7.11 ।।
युग्मेचाक्षांशकांशैस्तु द्वेकाष्ठांशांशकांशकैः।
त्य्रंशकेनांशकै र्द्वाभ्यामेके नैवात्र योजयेत्।। 7.12 ।।
पादुकां पङ्कजं चैव मालिङ्गान्तरितं तथा।
प्रत्यूर्ध्व वाजनं कण्ठ (8) मुत्तरान्तं कपोतकम्।। 7.13 ।।
 (8. मुत्तराब्जं)
आलिङ्गान्तरितं चोर्ध्वे प्रतिश्छैवोर्ध्व वाजनम्।
द्विविधं प्रतिभ्रद्रं स्यादेकभागादिकं ततः।। 7.14 ।।

  • सुभद्रं *

त्रिसप्तां शे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम्।
अर्धेन कण्ठमर्धेन पद्मं द्व्यंशेन वाजनम्।। 7.15 ।।
(9) अर्धेनार्धं तथा कम्पं (10) कण्‍ठमष्टांशमीरितम्।
 अंशेनोत्तरमर्धेन पद्मं चोपानहं त्रिभिः।। 7.16 ।।
(9. अर्धेनाब्जं (10. कंप)
भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम्।
जन्मद्व्यंशं त्रियं शेन पद्ममं शेन कन्धरम्।। 7.17 ।।
द्वाभ्यां वाजनमे (11) के नकम्पमष्टांशकैर्गलम्।
अंशेन कम्पकं द्वाभ्यां वाजनं कम्पमंशकम्।। 7.18 ।।
 (11. कैककंपनुष्ठाङ्गकै.)
सुभद्रं द्विविधं प्रोक्तं सर्वालङ्गारसंयुतम्।
सिंहेभमकरैर्वालै (12) र्भूताद्यै रप्यलंकृतम्।। 7.19 ।।
 (12.जिंकात्यै.)
प्रतिवक्त्रं झषास्यं स्या (13) द्बालेनारूढमस्तकम्।
अर्पितानार्पिते हर्म्ये सर्वत्र परिकल्पयेत्।। 7.20 ।।
 (13. ध्यानारूढं समस्तकम्.)
अङ्गमङ्गं प्रति प्राज्ञेर्वृद्धिहीनं तथोच्यते।
(14) तद्धाम सूकरं नाम युञ्चीयादुपपीठके।। 7.21 ।।
 (14. तथा मसूकराणाम्.)

  • उपपीठविधिशेषः *

मुर्ताधिष्ठान तुङाच्च द्विगुणं वा समं भवेत्।
सार्धं वार्धं त्रिभागं च कुर्यादत्रोपपीठकम्।। 7.22 ।।
सप्रत्यङ्गं समं चार्धं वाजनं तदिदं भवेत्।
उपपीठमिदं प्रोक्तं समासात्कमलासन।। 7.23 ।।

  • अधिष्ठानम् *

अधिष्ठानमथो वक्ष्ये देवागारस्य दिद्धये।
स्तम्भायामं त्रिभागै कमधिष्ठानं प्रमाणतः।। 7.24 ।।
स्तम्भायामाष्टभागैकं प्रभाधिष्ठानकम्पकम्।
पदायामं तलोत्सेधं समधिष्ठानकोत्तमम्।। 7.25 ।।
वितस्तिन्यूनकं वापि अथवापि ष़डङ्गुलम्।
एवं त्रिधा विभज्यनै प्रभाधिष्ठानकम्पकम्।। 7.26 ।।
तदुर्ध्वे वाष्टभागैकं रागादिधिष्ठानकम्पकम्।
उपानवर्गाधिष्ठान (15) मुपान मिह पठ्यते।। 7.27 ।।
 (15. मुच्छ्राय.)

  • द्वादशाङ्गानि *

उपानं जगती (16) पद्मकण्ठं कम्पं च पट्टिका।
(17) निद्रिकापद्मकोपेतं स्कन्धमन्तरितं भवेत्।। 7.28 ।।
 (16. वप्रः) (17. निम्नकं)
इत्येवं द्वादशाङ्गानि (18) अधिष्ठानानि कल्पयेत्।

  • पादबंधप्रतीबन्धे *

 पादबन्धं प्रतीबन्धं द्विविधं योनिमूलकम्।। 7.29 ।।
(18. अधिष्ठानादि कल्प्यते.)
पादानां बन्धनत्वाच्च पादबन्ध नमिष्यते।
(19)वृतेन प्रतिबध्नीया त्प्रतिबन्धनमिष्यते।। 7.30 ।।
 (19. वृते सत्प्रति बन्धित्वा त्पादबन्धमितीष्पते.)
छेद्यं तत्पादबन्धं स्यादच्छेद्यं प्रतिबन्धनम्।
तदङ्गं परितश्छेद्यमर्धच्छेद्यं न कारयेत्।। 7.31 ।।
अङ्गच्छेद्यं शुभं प्रोक्तं (20) अर्थ च्छेद्यं यशस्करम्।
होमस्तत्पादबन्दनं स्यात्प्रतेस्तम्भं प्रतिक्रिया।। 7.32 ।।
(20. मध्य)
प्रतिबन्धमधिष्ठानं छेद्यमानं न कारयेत्।
यदि कुर्या ल्लभेद्दोषानेकवृद्दिकुलक्षयम्।। 7.33 ।।
प्राकारगोपुरद्वारं स्यदधिष्ठानछेदनम्।
एवं मार्गविधिं शस्तं कारये (21) द्वास्तुशास्त्रतः।। 7.34 ।।
(21. च्छास्त्रमार्गतः)

  • उपानविस्तारः *

(22) उपान विन्तृतं तच्च चतुर्दण्डं त्रिदण्डकम्।
द्विदण्डं चैकदण्डं च (23) सा र्धार्धं पादबाह्यतः।। 7.35 ।।
 (22. उपानहं तत्प्रवृत्तिः) (23. साध्यर्धं)
एवं पञ्च (24) विधाकारमुपानं होम निर्गमम्।
दण्डं चैव (25) द्विदण्‍डं च (26) अर्धार्धं च त्रिपादकम्।। 7.36 ।।
(24. विधं तारमुपानंहोमनिष्क्रिया.) (25.द्विदण्डार्धम्.) (26. अध्यर्धं)
तच्चार्धं दण्डमानं वा होमायां (27) चैव मानतः।
प्रकृतेरुपरिस्थं यद्धोमायामं च मानतः।। 7.37 ।।
 (27. बहुलं स्मृतम्.)
विमानाधार (28) होमायां बहुल स्तम्भमुच्छ्रयम्।
तावन्मानावगाढं च योजयेत्तत्र पद्मज।। 7.38 ।।
(28.मानायाम्.)
जन्मभूम्यास्त्वधिष्ठानं तत्रादौ कारयेद्बुधः।
देवानां चाप्यधिष्ठानं चत्वारिंशत्तु तद्भवेत्।। 7.39 ।।
अधिष्ठानं तु कर्तव्यं वस्तुभिश्च शिलादिभिः।

  • पद्मबन्धाद्यधिष्ठानम् *

पद्मबन्धाद्यधिष्ठानं वक्ष्येऽलङ्कार पूर्वकम्।। 7.40 ।।
(29) तत्पद्मपत्रचित्रैर्वा सभाधिष्ठानकोत्तमम्।
वितस्तिन्यूनकं वापि हीनं वापि षडङ्गुलम्।। 7.41 ।।
(29. तत्पद्मरचिता अधिष्टानानि कल्पयेत्.)
एवं त्रिधा विभज्य न्ते सभाधिष्ठान कम्पकम्।
तदूर्ध्वे चाष्टभागैक प्रभाधिष्टान कम्पकम्।। 7.42 ।।
नवाधिष्ठानमुच्छ्राय मधिष्ठानादि कल्पयेत्।
(30) पादस्यार्द्ध मथोत्सेध मधिष्ठानं तु षोडश।। 7.43 ।।
(30. पादस्यार्धमधिष्ठानं विभज्याशास्तु.)
उपानस्यार्धमुत्सेधं पद्माच्च चत्रुकशरम्।
(31) आधारं पट्टिकस्यांशं शेषं पद्मकमुच्छ्रयम्।। 7.44 ।।
द्व्यर्धांशं मध्यकुम्भं (32) स्यादेकार्धं चोध्वंपद्मकम्।
स्कन्धान्तरं द्विभागे तुप्रथमाद्व्यंशभिन्नकम्।। 7.45 ।।
(31. आधरम्) (32. स्यादेकांशम्.)
प्रतिवाजनमेकांशं पद्मबंधमिति स्मृतं।
यस्याधिष्ठानमुत्सेधं पञ्चादशविभागिकम्।। 7.46 ।।
प्रथमश्चैकभागस्तु पञ्चांशं जगतीभवेत्।
(33) कुमुदं तच्चतुर्थांशं स्कन्धं तद्व्यंशमंशकम्।। 7.47 ।।
 (33. कुमुदार्धं चतुर्धाशंम्.)
(34) द्व्यंशं च प्रतिरुत्सेधं वाजनं चैकभागिकम्।
प्रतिबन्धमिदं नाम्ना कीर्तितं कमलोद्भव।। 7.48 ।।
(34.त्रियंशं प्रत्युत्सेधं स्यात्.)
यस्याधिष्ठानमुत्सेधं त्रियोविंशतिभागिकम्।।
द्व्यर्धं तदुपधानोच्चं पञ्चार्धं जगती भवेत्।। 7.49 ।।
पञ्चांशं कुमुदेस्तेधं एकांशोपरिपट्टिका।
त्य्रंशकं ग्रीवमुत्सेधं कम्पं (35) निद्रा द्वियंशकम्।। 7.50 ।।
कपोतसदनं नाम्नासदनेषु सुपूजितम्।
(35. शूद्र.)
उपोपानं तु भागेन जगती सप्त भागिकम्।। 7.51 ।।
(36) वप्रकं तु षडंशं स्याद्वेत्रं पादाधिकांशकम्।
तथैवान्तरितोत्सेधं द्व्यंशार्धं प्रतिरुच्छ्रयः।। 7.52 ।।
 (36. वप्रंत्रिति.)
प्रतिवाजनमेकांशं भागैर्वशतिभिर्युतम्।
(37) प्रतीमुखं कारिभूतं नागवक्त्रसमायतम्।। 7.53 ।।
प्रतिबन्धमिदं नाम्ना सर्व (38) भूतेषु योग्यकम्।
द्विभागाभ्यामुपोपानं सप्तां शै (39) र्जगती भवेत्।। 7.54 ।।
(38. देवेषु) (39. विंशतिर्भवेत्.)
(40)षडंशैः कुमुतेत्सेधं धारावप्रं सुवृत्तकम्।
आलिङान्तरितं द्वाभ्यां तदर्धं चाधिकं भवेत्।। 7.55 ।।
(40. षोदशैः)
तद्वयार्धं प्रतिमुखं सर्वावयवशोभितम्।
सिंहैश्च मकरै र्व्यालैर्वल्लीप त्रैरलङ्कृतम्।। 7.56 ।।
(41) प्रमुखं मकरास्यं स्यान्मकरदध्वजसं युतम्।
मकरास्येभनिष्क्रान्तं व्यालविद्याधरीगणाः।। 7.57 ।।
 (41. प्रमुखे मकरं वा.)
शेषांशं वाजनोपेतं केसराग्रसमन्वितम्।
एकविंशतिभागै कयुक्तं नानाप्रतिक्रमम्।। 7.58 ।।
(42) अथोत्सेध मधिष्ठानं पञ्चादशविभागिकम्।
जन्मस्यार्धविभागेन (43) जगतीश्चतुरंशकम्।। 7.59 ।।
 (42. आप्तोत्सेध---आन्तोत्सेध.) (43. जगतीं च रसांशकम्.)
(44) स्रक्पद्मवेदिबन्धेन युक्तं कुम्भं त्रियंशकम्।
मद्मबन्धेन तस्योर्ध्वे त्रिपादेनोर्ध्वपट्टिका।। 7.60 ।।
(44. लक्ष्यंच वेदिबन्धिन.)
(45) तथैव पट्टिको त्सेधं द्व्यंशाभ्यां प्रतिरुच्छ्रयः।
अर्धेन वाजनं कुर्या (46) दर्द्ध पट्टार्धभागिकम्।। 7.61 ।।
(45.तथैवन्तरितोत्सेधम्.) (46. दग्रपट्टार्ध.)
पद्यबन्धमिदं नाम्न देवाना (47) मभयं परम्।
यदधिष्ठानमानं हि भवेद्वाविंशति क्रमात्।। 7.62 ।।
(47. मर्हकम् हर्षणं.)
अंशेन पट्टिकां कुर्याद्द्व्यंशेनै वाम्बुजं भवेत्।
(48) तदं शेनोर्ध्व पट्टं स्यात्षडंशैर्जगती भवेत्।। 7.63 ।।
 (48) अंशेनैवोर्ध्व.)
चतुर्थं कुमुदोत्सेधं तस्योर्ध्वैकांशपट्टिका।
कण्‍ठस्स्यात्त्रिभिरं शेन अर्धेनोपरिपट्टिका।। 7.64 ।।
अर्धेनोर्ध्वम्बुजं कुर्यान्महापट्टं त्रियंशकम्।
अर्धेनोपरि पद्म स्यात्कम्पमर्धेन कारयेत्।। 7.65 ।।
(49) प्रतिबन्धमिदं नाम्ना सर्वधामसु योजयेत्।
होमस्तम्भं प्रति स्तम्भं द्विविधं पादधैर्घिकम्।। 7.66 ।।
 (49. वप्रबद्ध.)
प्रकृतेस्तु (50) तलादू र्ध्वे होमस्तम्भं प्रकल्पयेत्।
प्रतिस्तम्भं प्रतेरुर्ध्वमुत्तरान्तः प्रपादकम्।। 7.67 ।।
(50. भुवश्चोर्ध्वे.)
(51) पादायामार्धमुत्सेधं अधिष्ठानप्रमाणतः।
वै शेषिकप्रमाणं स्याद्विशेषोत्पत्तिभाषितम्।। 7.68 ।।
 (51.आयंमार्धं तदुत्सेधम्.)
अधिष्ठानोत्सेधमानं षडष्ट नवभिः क्रमात्।
रुद्रां शैस्सूर्याभागं स्याद्दश बन्धाम्शमानतः।। 7.69 ।।
(52) एकां शेनाङ्कसुत्रं स्यात्सप्तमानप्रमाणतः।
शेषांशं पाददैर्घ्यं स्यार्द्ग्रीवा वा सप्तमानतः।। 7.70 ।।
(52.एकांशो न्यूननूर्यं)
देवहर्म्याद्यधिष्ठाने सभायां मण्टपेऽपि वा।
(53) पञ्पवर्गाग्रहर्यां स्यच्चतुर्वर्गाग्रहम्यकम्।। 7.71 ।।
(53. पञ्चवर्गगृहरम्यं चतुर्वग्राग्र मद्यमम्.)
तत स्तद्धर्म्यमानं स्यादधिष्ठानप्रमाणतः।
देवालये सभास्थाने आधारस्य प्रमाणतः।। 7.72 ।।
नरावासे न कर्तव्यं कर्तृभर्तृविनाशनम्।
पादबन्धं प्रतीबन्धं द्विविधं बन्धमुच्यते।। 7.73 ।।
(54) एतद्देवालये कृत्यमकृत्यं मनुजालये।
उपाननिष्क्रमं प्रोक्तं चतुर्दण्डं त्रिदण्डकम्।। 7.74 ।।
(54. देवतालयकृत्यं यत्.)
(55) त्रिदण्डार्धं द्विदण्डं च द्व्यर्धर्धं चैकमुच्यते।
इत्येवं होमनिष्क्रान्तं दिक्सङ्ख्यापादबाह्यतः।। 7.75 ।।
(55. त्रिदण्डार्धम्.)
मूलपादस्तु विस्तार

"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_७&oldid=206903" इत्यस्माद् प्रतिप्राप्तम्