← अध्यायः २१ क्रियापादः
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
द्वाविंशोध्यायः

  • परिवाराणां रूपवर्णादिनिरूपणम्*

श्रीभगवान्---
रूपं वर्णं तथाकल्पं हस्तमुद्रां तथैव च।
हस्तसङ्ख्यां यथा योगमव्यच्चापि चतुर्मुख।। 22.1 ।।
अधुना परिवाराणां प्रवक्ष्यामि यथातथम्।

  • हयग्रीवः*

हयग्रीवं चतुर्बाहुं शुद्धस्फटिकसन्निभम्।। 22.2 ।।
अश्ववक्त्रं मुकुटिनं धौतवस्त्रौत्तरीयकम्।
मुख्येनै केन वरदं दक्षिणेनेतरेण तु।। 22.3 ।।
विज्ञानपुस्तकधरं जघन्ये च करद्वये।
(1) अक्ष सूत्रं च शङ्खं च बिभ्राणं सुपरिष्कृतम्।। 22.4 ।।
(1.कुङ्डिकामक्षसूत्रं च.)
(2) कल्पयेत्पुरुषाकार (3) मनन्तरं च किरीटिनम्।
भोगिभोगे सुखासीनां पृष्ठतः फणमण्‍डलैः।। 22.5 ।।
(2. कारंनदन्तम्.) (3. कल्पयेद्दक्षि हस्तम्.)
उन्नमद्भिः कृतच्छायं चतुर्हस्तं सितप्रभम्।
यद्वा तु श्यामलो वर्णं अनव्तस्य प्रकीर्त्यते।। 22.6 ।।
प्रकल्पये न्मुख्यहास्तं (4) वरदं वामहस्तकम्।
गदाधारं कटीदेशमनलंब्याथ वा स्थितम्।। 22.7 ।।
(4. दधानंशङ्खचक्रके.)
जघन्याभ्यां च हस्साभ्यां शङ्ख चक्रधरो भवेत्।

  • गरुडः*

गरुडं कनकप्रख्यं नीलनासाग्रसंयुतम्।। 22.8 ।।
दक्षिणेतरविस्तीर्णं विचित्रपृथुवक्षसम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटीलेक्षणम्।। 22.9 ।।
करण्डिका मुकुटिनां सर्वाभरण भूषितम्।
विचित्रकञ्चुकधरं भुजगेंद्रै रलंकृतम्।। 22.10 ।।
हृदिपुष्पांजलिधरं स्थितमासीन मेव वा।
दक्षिणेतरयोरेक पादयोः कुञ्चितं भवेत्।। 22.11 ।।
पृष्ठतोऽन्यो यथायोगं यद्वा पद्मासनं भवेत्।

  • सूर्यः*

मार्ताण्डं द्विभुजं रक्तं रक्ताम्बरधरं स्थितम्।। 22.12 ।।
पृष्ठभागे शिरश्चक्रं स्थाने विपुलमण्डलम्।।
बिभ्राणं कमलद्वन्द्वं हस्ताभ्यां च किरीटिनम्।। 22.13 ।।
उरः प्रदेशे विपुले स्यमन्तकमहामणिम्।
आसीनां वा सुखं बिम्बेपद्मेऽष्टदलसंयुते।। 22.14 ।।

  • सोमः*

पूर्वादौ वारिजदले मेषप्रभृतिराशिभिः।
सेवितं कल्पये (5) त्सोमं द्वाभ्यां कुमुदधारिणम्।। 22.15 ।।
(5. द्देवीं दुर्गां कुमुदधारिणीम्।)

  • कामः*

कामं रक्तनिभं रक्तप्रसवाम्बरधारिणम्।
हस्ताभ्यामैक्षं चापं बिभ्राणं सुमनश्शरान्।। 22.16 ।।
चतुर्भुजं चतुर्वक्त्रं जटामुकुटधारिणम्।
वराभयप्रदं मुख्यहस्ताभ्यामन्यहस्तयोः।। 22.17 ।।
कुण्डिकामक्षसूत्रं च बिभ्राणं च सुखासनम्।

  • गजाननः*

गजाननं चतुर्भाहुं लम्बकुक्षिं सितप्रभम्।। 22.18 ।।
करण्डिका मुकुटिनं लम्बयज्ञोपवीतिनम्।
वामहस्तेन मुख्येन संगृहीतमहाफलम्।। 22.19 ।।
इतरेण तु हस्तेन भग्नदसन्तपरिग्रहम्।
अपराभ्यां च हस्ताभ्यां पाशाङ्गुश(6) धरं प्रभुम्।। 22.20 ।।
(6. मुदायुधम् वरायुधम्.)

  • षण्मुखः*

षण्मुखं च चतुर्बाहुं दाडिमीकुसुमप्रभम्।
वराभयप्रदौ मख्यौ जघन्यौ शक्तितो मरौ।। 22.21 ।।
कल्पयेच्छ्यामलां (7) कात्यां चतुर्भिर्बाहुभिः क्रमात्।
गदाधरामभयदां शङ्खचक्रवरायुधां।। 22.22 ।।
(7.कन्यां)
हारकेयूर (8)मुकुटनूपुरादिविभूषिताम्।
अथवाष्टभुजां गुर्गां दक्षिणे दोश्चतुष्टये।। 22.23 ।।
(8.कटक)
अभीतिशरविस्त्रिंश चक्रमण्डलमण्डिताम्।
वामे गदा धनुः खड्गशङ्खयुध धरां वरां।। 22.24 ।।
अथवा द्वादशभुजां विशेषस्समुदीर्यते।
दक्षिणे परशुं शूलं वामे पाशाङ्गुशौ तथा।। 22.25 ।।
घण्टेति पञ्च पूर्वाणि यद्वा (9) द्वादशबाहुकाम्।
अनुक्तमायुधं कल्प्यं भुजे न्यस्मिन् चतुष्टये।। 22.26 ।।
(9.षोदशबाहुकाम्)
द्वात्रिंशदपि वा हस्ता (10) शस्त्रमूह्यं तु चोदितम्।

  • धनदः*

लम्बोदरं महाकायं कल्पयेद्धनदं ततः।। 22.27 ।।
(10. शास्त्राबुध्यामयोदितम्.)
निष्टप्तकनकप्रख्यं वरदं दण्डिनं तथा।

  • धनदस्यपरिवारः*

तस्यदक्षिणतः पार्श्वे जृम्भलो माणिभ्रद्रकः।। 22.28 ।।
कल्प्यश्शङ्खनिधिंचैव वामेपार्श्वे तु कल्पयेत्।
नलकूबरमम्भेजनिधिं च शिबिकुण्डलम्।। 22.29 ।।
(11) जृम्भलो हेमवर्णाभो मणिभद्रो मणिप्रभः।
नलकूबरनामा तु श्याम वर्णः प्रकीर्तितः।। 22.30 ।।
(11. जृंभलं महाभद्रम्.)
शिबिः कुण्डलवान् रक्तस्सर्वे भीतिवरप्रदाः।

  • रुद्रः*

रुद्रं त्रिनेत्रमरुणं जटामुकुटधारिणम्।। 22.31 ।।
चतुर्भुजं नीलकण्ठमिन्दु रेखा (12) विभूषितम्।
वै य्याघ्र चर्मवसनं सर्वाभरणभूषितं।। 22.32 ।।
(12.वतंसकम्.)
कराभ्यामपि मुख्याभ्यां वरदाभयदं स्थितम्।
अपराभ्यां च हस्ताभ्यां भिभ्राणं परशुं मृगम्।। 22.33 ।।

  • क्षेत्रपालः*

क्षेत्रपालं चतुर्भाहुं करण्डिमुकुटोज्वलम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।। 22.34 ।।
वामे करे दण्डधरं मुख्ये वामेतरेकरे।
दधानं तर्जनीमुद्रां पाशाङ्गुशममुख्योः।। 22.35 ।।

  • विष्वक्सेनः*

विष्वक्सेनं चतुर्बाहुं श्यामवर्णं किरीटिनम्।
लम्बोदरं च मुख्येन करेणाभयदायिनम्।। 22.36 ।।
दक्षिणेन प्रसर्व्येन समालम्ब्य कटिं स्थितम्।
आसीनमपराभ्यां च हस्ताभ्यां शङ्खचक्रिणम्।। 22.37 ।।
अथवा पूर्वकरयोर्गदामेकत्र कल्पयेत्।
अन्यत्र तर्जनीमुद्रां यद्वा दक्षिणहस्तयोः।। 22.38 ।।
मुख्येऽभीतिरमुख्ये तु चक्रमन्यत्र हस्तयोः।
गदां मुख्ये जघन्ये तु शङ्खं च प्रिकल्पयेत्।। 22.39 ।।
शङ्खचक्रधरं यद्वा स्थितं मुख्ये करद्वये।
बिब्राणं क्षुरिकां वेत्रं कृताञ्जलिपुटं स्थितम्।। 22.40 ।।
?* विष्वक्सेनमहिषी*
देवीं च विष्वक्सेनस्य वामपार्श्वे प्रतिष्ठिताम्।
नाम्ना (13) पुष्पधरां कुर्यात्कमलामिव लक्षिताम्।। 22.41 ।।
(13.सूत्रवतीं)

  • ब्राह्म्यदिमूर्तयः*

ब्राह्म्यदि मातरस्सर्वा ब्रह्माद्यात्मीयशक्तयः।
रूपवर्णायुधादीनि ब्रह्मादीनां भजन्ति ताः।। 22.42 ।।

  • वीरभद्रः*

रुद्ररूपी वीरभद्रस्तासां पश्चात् स्थितो भवेत्।

  • विनायकः*

प्राग्भागे विघ्नराट् तासा (14) मग्रं चापि भुजद्वयम्।। 22.43 ।।
(14.श्रियं चापि)
पार्श्वतः स्थितयोस्सख्योर्न्यस्य स्कन्धे स्थितंभवेत्।

  • अजामुखाः*

(15) आसन्न प्रसवापार्श्वे ऽजामुखाः पुरुषाः स्थिताः।। 22.44 ।।
(15.असनंप्रसवम् इति पाठभेदः)
दिव्यायुधधरा ह्यष्टौ स्वचिह्नाङ्कितमस्तकाः।
चक्री मुसलवान् शङ्खी खीड्गी चैव गदाधरः।। 22.45 ।।
शार्ङ्गी पद्वी तथावज्री (16) नराकारा द्विपाणयः।
दक्षिणे तर्ङनीमुद्रा वा मः कट्यवलम्बतः।। 22.46 ।।
(16. धनुकारा)

  • आदित्याः*

आदित्या द्वादश तथा तद्रूपादि दिनेशवत्।
द्विहस्ता वसवस्सर्वेकरण्डमुकुटान्विताः।। 22.47 ।।

  • पितरः*

दण्डिनस्तोमरधराः पितरश्च द्विपाणयः।
(17) दण्डायुधा वामहस्ते दक्षिणाभयदाश्च ते।। 22.48 ।।
(17.दण्डायुधम्)

  • विश्वेदेवाः*

करण्डीकामुकुटिनो विश्वेदवाश्च तादृशाः।

  • सप्तर्षयः*

अत्रिर्भृगुश्च कुत्सश्च वसिष्ठो गौतमस्तथा।। 22.49 ।।
काश्यपश्चाङ्गिराश्चैव एते सप्तर्षयः स्मृताः।
सप्तर्षयः करे सर्वे बिभ्राणा ज्ञानपुस्तकम्।। 22.50 ।।
विज्ञानमुद्रामन्य त्र जटामुकुटधारिणः।
लक्ष्म्या विराजिता ब्राह्म्या

  • रुद्रपारिषदाः*

रुद्रास्वैकादश (18) स्मृताः।। रुद्रवत् ।। 22.51 ।।
(18.स्थिताः)

  • विष्णु पारिषदाः*

कुमुदाद्यास्तु विष्णुपारिषदेश्वराः।
करैश्चतुर्भिर्भिभ्राणाश्शङ्खचक्रगदा स्तथा।। 22.52 ।।
दक्षिणे तर्जनीमुद्रा पीतवस्त्राः किरीटिनः।

  • उपेंद्रादयः*

उपेन्द्राद्यष्टकां चापि द्विहस्तमरिशङ्खगम्।। 22.53 ।।
विश्वादयश्च द्विभुजा गदाखड्गास्त्रधारिणः।
करण्जिकामुकुटिनस्सर्वाभरणभूषिताः।। 22.54 ।।

  • अश्विनौ*

अश्विनौ सदृशौ रक्तौ सुधाकलशधारिणौ।
करण्डिकामुकुटिनौ द्विहस्तौ भुषितौ भृशम्।। 22.55 ।।

  • इंद्रा दि दिक्पालाः*

श्यामः किरीटी द्विभुजो वासवो वज्रिदक्षिणः।
वामावलम्भितकटि स्सर्वाकल्प परिष्कृतः।। 22.56 ।।
ज्वालामण्‍डलमध्यस्थो ज्वालनो द्विभुजो भवेत्।
वरदश्शक्तिहस्तश्च करण्डिमुकुटोज्वलः।। 22.57 ।।
वै वस्वतश्च द्विभुजः किरीटि (19) मेचकच्छविः।
दक्षिणा भयदो दण्‍डी (20) निरृतिर्भीमदर्शनः।। 22.58 ।।
(19. मेघसच्छविः) (20.निकृति.)
दंष्ट्राकरालवदनो भ्रुकुटी कुटिलेक्षणः।
(21) दक्षिणो भीतिरुत्खड्गो करण्डिमुकुटोज्वलः।। 22.59 ।।
(21.दक्षिणेखड्गमन्यच्च-----दक्षिणो ख़ड्गमस्यः)
वरुणश्श्यामलः पाशहस्तो वामेऽभयप्रदः।
करंडिमुकुटश्चैव वायुर्धूम्रो (22) द्विबाहुकः।। 22.60 ।।
(22.द्विहस्तकः)
अङ्गुणो दक्षिणे हस्ते वामः कट्यवलम्बनः।
मरुतो वायुना तुल्यास्सोमस्पोमवदिष्यते।। 22.61 ।।
ईशानो रुद्रवत्कल्प्यस्तेषां वाहनमुच्यते।

  • ब्रह्मादीनां वाहनानि.*

हंसो विधारू रुद्रस्य वृषस्सूर्यस्यघोटकः।। 22.63 ।।
मकरश्शूर्पकारातेश्शक्तपाणेश्च बर्हिणः।
दुर्गायाः केसरी प्रोक्तो विघ्नराजस्य मूषकः।। 22.64 ।।
नरो यक्षाधिराजस्य शुनापीरस्य कुंजरः।
अघ्नेर्मेषः कृतां तस्य लुलायो वाहनं भवेत्।। 22.65 ।।
पिशाचो निरृतेर्यानं मकरो वरुणस्य तु।
प्राणस्य हरिणः प्रोक्तस्स एव मरुतामपि।। 22.66 ।।

  • मूलपरिवारबेरयोर्मानभेदः*

उच्छ्रायं मूलबेरस्य चतुर्धा विभजेत्ततः।
(23) तत्रैकभागमुच्छ्रायं परिवारेषु कल्पयेत्।। 22.67 ।।
(23.त्रिष्वेकभागमुच्छ्रायं---त्रिद्व्येक---तद्वैक.)
(24) मानाङ्गुलेन वा यद्वा देहलब्धाङ्गुलेन वा।
(24. वामाङ्गुलेन)
अष्टाङ्गुल समुच्छ्रायं द्वादशाङ्गुलमेव वा।। 22.68 ।।
द्विगुणं वा यथायोगमुच्छ्रायं परिकल्पयेत्।
स्थाने मूलप्रतिकृतेः परिवाराश्च ते स्थिताः।। 22.69 ।।
आसीनाश्चासने तस्य शय्यायां शयनं वाना।
असीना वा स्थिता वापि (25) कामचाराश्चतुर्मुख।। 22.70 ।।
(25.परिवारा.)
प्रलम्बफलकायाम घनविस्तार (26) निर्णयम्।
कथ्यते पंचतालस्यादायामो घनमङ्गुलम्।। 22.71 ।।
(26.कर्णिकाः)
अर्धायामं च विस्तारं कुर्या त्तत्सुकृतं यथा।
प्रतिमास्तदङ्गानां कौटिल्यार्जवसिद्धये।। 22.72 ।।
लम्बमानं यदुच्छिष्टं तदर्धं कमलासन।
शिखामण्यादिसुषिरमनेकं तत्रकल्पयेत्।। 22.73 ।।
सूत्राणि सुषिरैस्तैस्तैर्लम्बयेच्च (27) पृथक्स्वयम्।
जानीयादार्जवं तेन प्रत्यङ्गमविचारयन्।। 22.74 ।।
(27.पृथक् पृथक्.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे परिवार (28) विधिर्नाम
द्वाविंशोऽध्यायः
(28.विधानं नाम.)


**************----------