← अध्यायः २३ क्रियापादः
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
चतुर्विंशोऽद्यायः

  • आचार्यलक्षणाङ्गुरार्पणादि*

श्रीभागवान्----
आचार्यलक्षणं ब्रह्मन् कथयामि यथातथाम्।
(1) आदौ तु ब्राह्मणो विद्वान् पञ्चरात्रपरायणः।। 24.1 ।।
(1.इतमर्धंक्वचिन्न.)
सर्वदोषविनिर्मुक्तमशेषगुणभाजनम्।
आचार्यं वरयेत्पूर्वं तदधीना हिसिद्धयः।। 24.2 ।।
न्यूनातिरेकनिर्मुक्तकल्याणावयवश्शुचिः।
कल्याणहस्तश्श्रुतवान् वृत्तवान् शीलवानपि।। 24.3 ।।
आम्नायेचन्दसि तथा ब्राह्मणो धर्मवत्सलः।
पंच कालविधानज्ञस्तकत्कर्मनियतः क्षमीः।। 24.4 ।।
जितेन्द्रियः (2) प्रश्श्रीमानुहापोहविचक्षणः।
षट्कर्मकृत् षडध्वज्षञ्षडङ्गविदलोलुपः।। 24.5 ।।
(2.प्रभुर्दीमान्.)
षोडशन्याचतुरस्सौम्यस्तिद्धान्तभेदवित्।
ऋजुर्दयावान् (3) ब्रह्मज्ञत्सत्यवाक् शिष्टसंमतः।। 24.6 ।।
(3.धर्मज्ञस्सत्यवागिष्ट कर्मकृत्.)
व्याख्याता धृतिमानार्यः पूर्वभाषी प्रियंवदः।
स्मितपूर्वाभिभाषी च सात्विको न्यायवित्तमः।। 24.7 ।।
दर्शनीयो युवा वादि वा देषु च विचक्षणः।
कुशाग्रीयमतिश्शान्तः (4) नीतिज्ञोदेशकालवित्।। 24.8 ।।
(4.कृतज्ञः कालदेशवित्.)
अनसूयो जितद्वन्द्वस्समस्सर्वेषु जन्तुषु।
व्यसनाभ्युदये शश्वदेकरूपस्सदव्ययः।। 24.9 ।।
मितभाषी ध्यानपरो द्वादशाक्षरचिन्तकः।
मानसाराधनपरः पंचरात्रपरायणः।। 24.10 ।।
स्वतन्त्रो वृद्धसेवी च (5) रूपवानपि चास्तिकः।
अब्रह्मनिन्दकस्सर्वस्मृतिमान् कीर्तिमानपि।। 24.11 ।।
(5.त्रपावानपि.)
सर्वापवादनिर्मक्तस्सर्वकल्याणलक्षणः।
(6) सर्वशास्त्रार्थवेत्ता च दीक्षितश्चक्रमण्डले।। 24.12 ।।
(6.सर्वव्यादिविनिर्मुक्तः)
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा भवेत्।
अधिकारी भवेदेष यथोक्तगुणभाजनम्।। 24.13 ।।
आचार्यत्वे तथार्त्विह्ये तादृशानेव भूसुरान्।
गुणैस्सर्वैस्समुदितान् कर्मनिर्वहणक्षमान्।। 24.14 ।।
वरयेद्गुरुणा (7) सार्धं यजमानः प्रयत्नवान्।
(8) वटुर्युवा समोवृद्धश्चतुर्थापरिकथ्यते।। 24.15 ।।
(7.सर्वं यजमानस्सभजयन्) (8."वटुर्यवा"----" प्रदापयेत्" इत्यन्तं क्वचिन्न)
द्वयोर्विभागितस्सम्यक्सविभागश्च कथ्यते।
वर्षात् षोडशकादर्वाक् वटुरित्यभिधीयते।। 24.16 ।।
वटुर्यावा समो वृद्धो योग्यो नित्यार्चनाविधौ।
नै मित्तिके साङ्गुरे तु समश्श्रेष्ठतमेनवा।। 24.17 ।।
समये जमानस्तु गां भुवं कांचनं तथा।
नालिकेरं च कर्मादवाचार्याय प्रदापयेत्।। 24.18 ।।
ऋत्विजष्षोडश ब्रह्मन् यद्वाष्टौ चतुरोपि वा।
आचार्योणय थोकैन ऋत्विग्भिश्च यथोदितैः।। 24.19 ।।
स्थापयेन्मन्दिरे विष्णु यजमानः प्रयत्नवान्।
सर्वान् कामानवाप्नोति नात्रिकार्या विचारणा।। 24.20 ।।
अन्यथा चेद्धरिं धाम्निस्थापयेन्मूढचेतनः।
नै वेष्टं फलमाप्नोति म्रियते चा चिरात्स्वयम्।। 24.21 ।।
न च धाम चिरस्थायि न च राष्ट्रं नराधिपः।
नसन्निधतै भगवान् न च प्रीणाति चेज्यया।। 24.22 ।।
नै वाधिकारी नस्यापी ब्राह्मणो प्युक्तलक्षणः।
इतरेपि त्रयोवर्णाः यजने वाधिकारिणः।। 24.23 ।।
न कुण्‍ड गोलौ नै वान्ये भवेयुरनुलोमजाः।
कर्माधिकारिणो नैव व्रात्या वै ब्रह्मयोनयः।। 24.24 ।।
नै तेषामदिकारोऽस्ति सूतादीनां चतुर्मुख।

  • अङ्गुरार्पणम्*

प्रतिष्ठा कर्मणः पूर्व मङ्कुरारोपणं भवेत्।। 24.25 ।।
न कर्मफलदं ब्रह्मन् अङ्कररोपणं विना।
तस्मादारभ्यमाणेषु (9) प्रतिष्ठादिषु कर्मसु।। 24.26 ।।
(9.कर्षणादिषु.)
प्रागेव वापयेद्बीजान् अङ्कुरार्थं यथाविधि।
द्वादशाहे नवाहे वा सस्ताहे पञ्चमेऽहनि।। 24.27 ।।
तृतीयेऽहनि वा कुर्यात्कर्मारम्भदिनं प्रति।
पालिकसु शरावेषु घटिकासु च वापयेत्।। 24.28 ।।
अङ्गुराणि प्रशस्तानि पात्रेषु त्रिविधेष्वपि।
साङ्गुलं हस्तमुत्सेधं पालिकानामथाननम्।। 24.29 ।।
षोडशाङ्गुलविस्तारं बिलं सप्तांगुलं भवेत्।।
पादपीठस्य विस्तार (10) मधश्चैवांगुलं भवेत्।। 24.30 ।।
(10.मधश्चाष्टाङ्गुलम्.)
उन्मत्तकुसुमाकारं वक्त्रमम्बोजसन्निभम्।
द्वाविंशांगुल (11) मायामो घटिकानांप्रकीर्तितः।। 24.31 ।।
(11.मुत्सेधं)
घटिकाः पञ्चवक्त्रास्स्युस्तन्मध्ये तु घुटाकृतिः।
षडङ्गुलं च विस्तिर्णं एतानां मध्यमं मुखम्।। 24.32 ।।
चतुष्टयं चतुर्दिक्षु चतुरंगुलमाननम्।
विंशत्यंगुलमुत्सेधं विस्तारं द्वादशांगुलम्।। 24.33 ।।
शरावेषु विजानीयाद्यद्वा मानं यथावसु।
(12) हेमादि लोहजास्सर्वाः मृण्मया वा यथावसु।। 24.34 ।।
(12." हेमादि---यथावनु" इत्वर्धंक्वचिन्न)
षट्त्रिंशत्पालिकाश्चैव षट्त्रिंशद्घटि कास्तथा।
शरावाश्चापि षट्त्रिंशदेवमष्टोत्तरं शतम्।। 24.35 ।।
उत्तमा क्ल् प्तिरुदिता जघन्या क्ल् प्तिरुच्यते।
प्रत्येकं षोडश ग्राह्या भवेयुर्द्वादशापि वा।। 24.36 ।।
अष्टौ वा स्युश्चतस्रो वा शरावघटपालिकाः।
सर्वार्थे पालिका यद्वाषोडशाष्टौ यथाबलम्।। 24.37 ।।
चतस्रो वा ततस्तासु मङ्गलाङ्गुलकल्पना।
अयुग्मा मानुषे कार्या दैवेयुग्मास्तु पालिकाः।। 24.38 ।।
अङ्गुलावापनस्ताने मण्डपं परिकल्पयेत्।
शुभे विविक्तेऽभिमते देशे वै देशि कोत्तमः।। 24.39 ।।
चतुर्दिक्षु चतुर्द्वारं चतुर्वदनमालिकम्‌।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम्।। 24.40 ।।
(13) वितानक्षौमविस्तारं गोमयालिप्तभूतलं।
प्रदीपमालाविततमक्षतैश्चापिनर्वतः।। 24.41 ।।
(13.वितत.)
सुधाचूर्णैश्च धवलै श्चित्रिताभ्यन्तरस्थलम्।
मण्डपं कल्पयित्वैवं गृह्णियात्तत्रमृत्तिकाम्।। 24.42 ।।
खनित्रं क्षालयित्वाद्भिराच्छाद्य नववाससा।
(14) विष्वक्सेनमथो वापि वैनतेयमथापिवा।। 24.43 ।।
(14."विष्वक्सेन----मथापिवा" इत्यर्धंक्वचिन्न दृश्यते.)
सुमनोभिरलंकृत्य ऋत्विग्भिर्वाहयेद्गुरुः।
गजस्कन्धं रथं वाश्व मारूढो वाहको नयेत्।। 24.44 ।।
छत्रध्वजपताकाभिस्सार्ध मङ्गुरभाजनैः।
त्रिविधैर्मङ्गलैस्तूर्यैं रपिचोद्घोष्यसर्वतः।। 24.45 ।।
भक्तैर्भागवतैस्सार्धं यतिभिर्मुनिभिस्तथा।
निष्क्रम्य शाकुनं सूक्तं पाठयन् भह्वृचानपि।। 24.46 ।।
प्राचीमुदीचीं वा दूरां दिशंगत्वा मनोहरे।
शुचौ देशे मृदं शुद्धां खनित्रेण समुद्धरेत्।। 24.47 ।।
अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः।
महीसूक्तेन संस्पृश्य धायन्ने काग्रचेतसा।। 24.48 ।।
मूर्तिं देवस्य वाराहीं अभ्यर्च कुसुमैर्भुवम्।
(15) अस्त्राम्बुना प्रौक्षितेन पुष्पेरभ्यर्चितेन च।। 24.49 ।।
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडविद्यया।
(15.अस्त्रा--र्चितेन च" इदमप्यर्धं कोशान्तरेनास्ति.)
लोहजे भाजने मृत्स्नां वेत्रजे वाथ भाजने।। 24.50 ।।
गृहीत्वा मुलमन्त्रेण वेष्टयित्वा च वाससा।
प्रत्यग्रेण तथा नद्या वालुकान् गोमयां स्तथा।। 24.51 ।।
गोकुलात्पूर्वनत्पात्रे गृहीत्वा च्छाद्य चांशुकैः।
याने (16)हये गजे वापि समारोप्य गुरुस्प्वयम्।। 24.52 ।।
ऋत्विग्भिस्सहितैस्तूक्तमधीयानैश्च शाकुलम्।
(16.गजेरथे)
श्रीसूक्तं भूमिसूक्तं च तूर्याण्यपि च घोषयेत्।। 24.53 ।।
गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः।
आचार्यामूर्तिपाश्चैव (17) नूतनक्षौमवाससः।। 24.54 ।।
(17.कृतन्नानः कृताह्निकः)
सोत्तरीयास्स्वलंकारास्सोष्णीषास्साङ्गुलीयकाः।
सुरभीकृतसर्वाङ्गास्स्रग्विणो मृष्टकुण्टलाः।। 24.55 ।।
(18) श्वेतया मृत्स्नया सम्यक्परिक्षिप्तोर्ध्वपुण्ड्रकाः।
(19) पवित्रपाणयस्स्नाताः प्राणायामपरायणाः।। 24.56 ।।
(18.श्वेत----काः इदमर्धं क्वचिन्न) (19.पवित्रपाणिर्नियताः)
कृताचामाः कृतन्यासाः जप्तमन्त्रा (20) यथातथम्।
(21) तदर्थमर्थयित्वा तु यजमानसमन्विताः।। 24.57 ।।
(20.यथायथम्) (21."तदर्ध----विधाइति मेकं पद्यं केषुचिन्नलभ्यते.)
भगवन्तं जगद्वोनिं पूजयित्वा विधनतः।
संप्रोक्ष्य पालिकाक्षेत्र मद्भिशुद्धाभिरञ्जसा।। 24.58 ।।
चन्दनार्दाणि सूत्राणि स्फालयेयुरनुक्रमात्।
प्रागायतानि प्रथमं ऋजूनि द्वादश स्फुटम्।। 24.59 ।।
तथोदगायताग्राणि दश पञ्च च कल्पयेत्।
आशास्वष्टासु मध्येच शरवघटपालिकाः।। 24.60 ।।
द्वादश द्वादश स्थाप्याश्शतमष्टोत्तरं तथा।
आग्नेये नैऋते भागे तथा यम्ये च पालिकाः।। 24.61 ।।
घटिका वारुणे ब्राह्मे तथा पौरन्दरे पि च।
शरा वा मारुते सौम्येरौद्रे चापि यथाविधि।। 24.62 ।।
प्राग्रायतानि नव वा सूत्राणि परिकल्पयेत्।
(22) द्वादशैवेतराणु स्युश्शरावघटपालिकाः।। 24.63 ।।
(22.द्वादशैतेतराणि)
अष्टौ च चत्वारिंशच्च यद्वा सूत्राणि कल्पयेत्।
नवैव द्विप्रकाराणि षट् त्रिंशत्पालिकादयः।। 24.64 ।।
प्रागायतानि नव वा उधीचीनायतानि षट्।
चतुर्विंशतिपात्राणि यद्वा प्रागयतानि च।। 24.65 ।।
चत्वारि सूत्राण्यन्यानि पंच द्वादश कल्पने।
सर्वार्थपक्षे प्रथमे पंचैव द्पिविधान्यपि।। 24.66 ।।
यद्वेन्दुकुम्भं परितः पालिकाष्षोडशस्थिताः।
(23) द्वादशापि तथैवाष्टौ चतस्रो (24) वा दिशं प्रति।। 24.67 ।।
(23.पालिकापि) (24.विदिशं प्रति.)
सूत्रपात्रेषु सर्वत्र प्रत्यक्सोमघटस्थितिः।
शक्त्यपेक्षं पालिकानां पक्षभेदः प्रदर्शितः।। 24.68 ।।
प्रक्षाल्य विष्णुगायत्र्या शरवघटपालिकाः।
सहदेवी च दूर्वा च सार्धमश्वत्थपल्लवैः।। 24.69 ।।
कण्ठेषु पालिकादीनां बन्दनीयाश्चतुर्मुख।
कुशकाशतृणै सैषां बिलमूलानि पूरयेत्।। 24.70 ।।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम्।
करीषचूर्णैरुपरि समृद्धं पूरयेद्बिलम्।। 24.71 ।।
पादेषु पालिकादीनां शालिन्व्रीहीनथापि वा।
आढकं वा तदर्धं वा प्रस्थं वा तिलतण्डुलान्।। 24.72 ।।
प्रतिपादं विनिक्षिप्य चतुरश्रमथापि वा।
वृत्तं विस्तारयेत्पूर्वं पालिकार्दीन् ततः क्रमात्।। 24.73 ।।
न्यसेत्पादेषु धान्येषु मन्त्रैरेतै (25) र्यथाक्रमम्।
स्थाने यथोकै घटिकाः पारमेष्ठ्या तु विद्यया।। 24.74 ।।
(25.यथातथम्.)
(26) पुरुषाख्येन मन्त्रेण पालिकास्तदनन्तरम्।
शरावान्विश्वमन्त्रेण पाङ्मुखो वाप्युमङ्मुखः।। 24.75 ।।
(26. पुरुषाह्वय.)
ब्रह्मादीशानपर्यन्तं न्याससैषामनु क्रमात्।
वासोभिर्वेष्टयेत्सर्वान् प्रत्येकं मूलविद्यया।। 24.76 ।।
प्रतिव्यूहं तु वा शक्तौ छादयेद्वाससोपरि।
स्थाने पश्चात्तु सर्वेषां (27) सोमकुम्भं निवेशयेत्।। 24.77 ।।
(27.सोदकुंभं निवेदयेत्.)
धान्यराशौ यथापूर्वमावेष्ट्य नवाससा।
गन्धोदकेन संपूर्णेतस्मिन् (28) रत्नानि (29) विन्यतेत्।। 24.78 ।।
(28.वृत्तानि पूरयेत्---निक्षिपेत्) (29.वृत्तानि.)
नीवाराश्शालयो मुद्गाश्श्यामाकाश्च प्रियङ्गवः।
यवास्तिलाश्च गोधूमाः येचान्ये याज्ञिका मताः।। 24.79 ।।
तेशां भीजानि निक्षिप्य पात्रे महति नुतने।
तत्पात्रं मूर्ध्नि विन्यस्य तूर्यघोषपुरस्सरम्।। 24.80 ।।
परीत्य मन्दिरं पात्र शालि (30) द्रोणार्धशोभिते।
पाग्देशे पालिकादीनां निवेश्य सुसमाहितः।। 24.81 ।।
(30.द्रोणार्धतण्डुले)
पयोभिः क्षालयेद्धान्यभीजानि विविधानि च।
प्रच्छाद्यनववस्त्रेण पुर्णाहं कारये(31) त्पुनः।। 24.82 ।।
(31.त्ततः)
(32) शङ्खभेर्यादिनादेन वादयित्वा दिशोदश।
ध्यात्या च पालिकादीनामधिदेवाननुक्रमात्।। 24.83 ।।
(32.शङ्खतूर्यादि.)
घटिकानां विधातारं पालिकानां जनार्धनम्।
ईशानं च शरावाणां (33) द्यात्वाभ्यर्च्य यथाविधि।। 24.84 ।।
(33.फृतारोपणमाचरेत्)
तोरणानि ध्वजांश्चैव द्वारकुम्भांश्च देशिकः।
कुमुदादि गणांश्चैव समभ्यर्चयथाविधि।। 24.85 ।।
र्चयेत्पालिकादीनामधि देवाननुक्रमात्।
सोमकुम्भे ततस्सोमं यजेदावाह्य च स्वयम्।। 24.86 ।।
(34) निवेद्य पायसं हव्यं जुहुयात्सर्पिषाशतम्।
चतस्रस्समिधश्चैन मूलमन्त्रेण मन्त्रवित्।। 24.87 ।।
(34.निवेद्यपायसान्नं वा सुद्धान्नं वा यथारुचि। जीजानां साधनर्थं तु जुहुयात्सर्पिषा शतम्. तत्सङ्ख्यास्समिधश्चेति मूल.)
चरुं पुरुषसूकैन पूर्णाहुत्यन्तमाचरेत्।
घृतेन सोममन्त्रेण जुहुयाच्छतमाहुतीः।। 24.88 ।।
संपाताज्येन संस्पर्श्य स्पर्शमन्त्रेण पालिकाः।
संपाताज्याव शेषं च बीजपात्रे विनिक्षिपेत्।। 24.89 ।।
सोममन्त्रं शतं वारान् जप्त्वा विप्राभ्यसुज्ञया।
मुहूर्तेशोभने भीजान् वापयेत्पालिकादिषु।। 24.90 ।।
ब्रह्मादीशानपर्यन्तं द्वादशाक्षरविद्यया।
आचार्यानुमता (35) श्चान्येवैष्णवा (36) ध्यानमास्थाताः।। 24.91 ।।
(35.स्सर्वे.) (36.स्थानमास्थिताः)
आवपेयुरमी तूर्ष्णीं सिञ्चेत्कुम्भस्थवारिभिः।
(37) पिधानैश्चादयेत्सर्वं दद्याद्दिक्षु (38) बलिंततः।। 24.92 ।।
(37.पिधायच्छादयेद्वस्त्रैः) (38.समं ततः)
रक्षिभ्यः कुमुदादिभ्यो बलिं दद्याद्दिवानिशम्।
(39) यजेत सोमं तत्कुम्भे पायसेन दिवानिशम्।। 24.93 ।।
(39. इदं पद्यं क्वचिन्न.)
दीपांश्चारोपितान्रक्षेदनिर्वाणां यथा तथा।
द्विजेन्द्रांस्तोषयेदिष्टैस्ताम्बूलैस्सुमनः फलैः।। 24.94 ।।
गुरुं च तोषयेद्वत्तैर्यजमानः प्रयत्नवान्।
सद्यो वा धान्यभीजानि यथोक्तविधिना वपेत्।। 24.95 ।।
हरिद्रा वारिभिस्सिञ्चेदङ्कुराण्यभि वृद्धये।
(40) सोमकुंभजलेनापि नित्यं सिञ्चेतपालिकाः।। 24.96 ।।
(40.इदमर्धं क्वचिदधिकमस्ति.)
अङ्गुरेषु च पीतेषु शुक्लेषु च तथा (41) शुभम्।
विद्यादृजुं प्ररूढेषु विपरीतेषु चाशुभम्।। 24.97 ।।
(41.यजुम् विद्याच्छुभम्.)
कर्मार्थमङ्कु राण्यादौ यस्समारोपयेद्गुरुः।
स एव कर्मकार्त्स्न्येन कुर्यात्प्राज्ञोऽपि नेतरः।। 24.98 ।।
अनुज्ञया वा तत्पुत्रश्शिष्यो वा तत्समाचरेत्।
ऋत्विजो वापितत्कर्म यद्यशक्तोगुरुर्भवेत्।। 24.99 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि
क्रियापादे आचार्यलक्षणाङ्कुरार्पण विधिर्नाम
चतुर्विंशोऽध्याय।


**************----------------