क्रियापादः/अध्यायः ३०
← अध्यायः २९ | क्रियापादः अध्यायः ३० [[लेखकः :|]] |
अध्यायः ३१ → |
पाद्मसंहितायाम्
त्रिंशोऽध्यायः
- श्रियादीनां पाणिग्रहण विधिः*
श्रीभगवान्---
अथ श्रियाऽऽदि देवीनां पाणिग्रहणमुच्यते।
सर्वकल्याणजननं सर्वदुःख (1) विनाशनम्।। 30.1 ।।
(1.विमोचनम्)
आयुर्वृद्धकरं नॄणां अभिप्रेतार्थ साथकम्।
यथोक्तदिवसे कुर्यादङ्कुराणां समर्पणम् ।। 30.2 ।।
उद्वाहदिवसे प्राप्ते मुहूर्ते देशिकोत्तमः।
पृथग्देवस्य देव्योश्च बध्नीया (2) त्कर्मकौतुकम्।। 30.3 ।।
(2.त्करकौतुकम्)
(3) आच्छाद्यानाहतक्षौमं सोत्तरीयं प्रसाधितम्।
आरोप्य शिबिकां ग्रामं प्रादक्षिण्येन (4) तां नयेत्।। 30.4 ।।
(3.आच्छादिताहत)(4.कारयेत्)
वैवाहिकं च सदनमालयं वा प्रवेशयेत्।
आराध्य देवमघ्यान् द्यैरानीय स्थण्डिलेऽनलम्।। 30.5 ।।
(5) प्रवेश्यान्तर्गृहे देवमासने विनिवेशयेत्।।
आभ्यर्च्य च हरिं तत्र देवीं नूतनपाससा।। 30.6 ।।
(5.प्रवेश्य तद्गृहम्)
(6) युवा सु इतिमन्त्रेण परिधाय प्रदक्षिणम्।
(7) भूषयेच्च श्रियं देवीं पुष्पैराभरणैस्तथा।। 30.7 ।।
(6.यवासुवासान्त्रेण)(7.भूषणैः)
देवीं देवेन युञ्जीत प्रणवेन गुरुस्स्वयम्।
दद्याच्च देवीं देवाय वारिपूर्वं यथाविधिः।। 30.8 ।।
यजमानस्सुवर्णोर्वीं गवादिसहितां तदा।
स्वगोत्रनाम्ना कथिता (8) मिमां श्रियमनुत्तमाम्।। 30.9 ।।
(8.मप्सु)
ततः पाणिगृहीतां तां देवीं देवं च मन्दिरात्।
नीत्वा वैवाहिकं स्थानमुत्तराशामुखो गुरुः।। 30.10 ।।
क्रमेणाघारहोमार्दीन् कुर्याद्विध्युक्तवर्त्मना।
(9) समिधं च नृसूक्तेन जूहुयात् षोडशाहुतीः।। 30.11 ।।
(9.समिद्भिश्च)
चतुणा विष्णुगायत्र्या चतुर्विं शाहुतिर्भवेत्।
श्रीनूक्तेन घृतं हुत्वा भूम्याश्च युगपद्यदि।। 30.12 ।।
उभयोश्च विधातव्यं पृथगेवाङ्कुरादिकम्।
(10) उभयो रेककर्तृत्वे प्राप्ते पङ्कजसम्भव।। 30.13 ।।
(10.उभभ्यामेक)
तत्राऽपि पृथगेवाऽऽभ्यां वैवाहिकमथाऽऽचरेत्।
एककाले क्रियां तिष्ठेत्पर्या याद्भिन्नमाचरेत्।। 30.14 ।।
आनुपूर्व्यवशेनैव विभक्तं स्याद्यथा तथा।
यद्वा मुहूर्तभिन्ने तु भिन्नं वैवाहिकं भवेत्।। 30.15 ।।
मुहूर्ते यौगपद्ये चेदानुपूर्व्यात्क्रियां नयेत्।
श्रीभूम्योर्भन्न कर्तृत्वे यौगपद्योद्वहो यदि।। 30.16 ।।
तत्राऽपि विधि रेवं स्यादुभाभ्यां (11) विधिरेव हि।
यौगपद्योद्वहे देवे सकृत्प्रतिसरं भवेत्।। 30.17 ।।
(11.पृथगेव)
एकाऽग्नौ वा प्रकर्तव्यं भिन्नाऽग्नौ वा यथारुचि।
उल्लेखनाऽऽदिप्राक्तन्त्रं (12) प्राक्लृप्तमकृतं न च।। 30.18 ।।
(12.प्रक्लृप्तमसकृत्)
प्रतिव्यक्ति क्रियां सर्वां पृथगेव समाचरेत्।
पूर्वं श्रियैततो भूम्यै पर्यायेण क्रियां नयेत्।। 30.19 ।।
समिधो मूलमन्त्रेण जुहुयात् षोडशाहुतीः।
चरुणा विष्णुगायत्र्या चतुर्विं शाहुतिर्भवेत्।। 30.20 ।।
घृतं पुरुषनुक्तेन (13) भुमिसूक्तेन वा पुनः।
लाजहोमं तथा (14) वह्नेः प्रदक्षिणमनुक्रमात्।। 30.21 ।।
(13.विष्णु) (14.वह्नौ)
कृत्वा सर्वमशेषेण लाजशेषं गुरुस्स्वयम्।
प्रणवेन (15) सकृद्धुत्वा पञ्चवारुणिक्ते स्ततः।। 30.22 ।।
(15. समुद्धृत्य)
पञ्चोपनिषदैर्मन्त्रैर्द्वादशाक्षरविद्यया।
पूर्णाहुत्यंतमखिलं कृत्वा विप्रांश्च तोषयेत्।। 30.23 ।।
अर्घ्याद्यैरर्चयेद्देवं घृतारोपणमाच रेत्।
घृतं दूर्वाङ्कुरं पात्रे चन्दनं शालितण्डुलम्।। 30.24 ।।
कराभ्यां सर्वमादाय सर्वेचैव सभसदः।
देवस्य देव्योश्चाऽङ्गेषु क्षिपेयुरिति मङ्गलम्।। 30.25 ।।
घृतं सुशोभन मिति सिञ्चोयुः पादयोस्ततः।
कट्यां सुभद्रमित्युक्त्वा मूर्ध्नि चैव सुमङ्गलम्।। 30.26 ।।
एवं दूर्वादि सकलं क्षिपेयुरनुपूर्वशः।
मधुपर्कं प्रदद्याच्च रसेनाऽस्मीति चोच्चरेत्।। 30.27 ।।
लक्ष्मीपतिं च हाराद्यैरलङ्कारैः प्रसाधयेत्।
माल्यानुलेपनैश्चाऽपि यथा र्हैरपि पूजयेत्।। 30.28 ।।
धेनुं च दद्याद्धरये यजमानः प्रणामवान्।
आचार्याय यथावित्तं प्रदद्यादात्मनः प्रियम्।। 30.29 ।।
नी राजनविधानान्ते निक्षिपेद्दिक्षु पिण्डिकाः।
अन्यच्च मङ्गलं सर्वं कुर्याल्लौकिकवर्त्मना।। 30.30 ।।
श्रीभूमिसहितं देवं (16) कुर्याद्ग्राम प्रदक्षिणम्।
आरोप्य मण्टपे देव्यौ देवं राजवदाचरेत्।। 30.31 ।।
(16.नीत्वाग्रामं)
महाहविर्विवेद्यानै ब्रह्माणानपि भोजयेत्।
दिवसे दिवसे कुर्या(17) त्स्नानपूर्वकमुत्सवम्।। 30.32 ।।
(17.स्नपनंपूर्व)
चतुर्थापररात्रे तु शेषहोमं समाचरेत्।
समिधाज्य चरुप्रायैरष्टोत्तर शताहुतीः।। 30.33 ।।
जुहुयान्मूलमन्द्राभ्यां पञ्चोपनिषदैरपि।
दिने तु पञ्चमे देवं तैलेनऽभ्यञ्जयेद्धरिम्।। 30.34 ।।
श्रीभूमिसहितं देवं स्नापयेद्विधिपूर्वकम्।
महाहविर्निवेद्याऽन्ते ग्रामे कुर्यान्महोत्सवम्।। 30.35 ।।
तत्र श्रीभूमिसहितं (18) प्रत्यहं मन्दिरेऽर्चयेत्।
देवीनामितरासां च विवाहविधिरीदृशः।। 30.36 ।।
(18.प्रत्येकं मण्टपे)
जामदग्न्याऽदि देवीनां विवाहः स्मार्तवर्त्मना।
- मण्डपादि प्रतिष्ठाविधिः*
(19) विवहामण्टपादीनां प्रतिष्ठाविधिरुच्यते।। 30.37 ।।
(19.विमान)
प्रासादस्याग्रतः वृष्ठे पार्श्वयोर्वा यथारुचि।
वेदिं कुर्याच्चतुर्हस्तां हस्तोच्छ्रायां मनोहराम्।। 30.38 ।।
कुण्ढानि परितो वेद्या अष्टौ चत्वारि वा पुनः।
तोरणद्वारकलशध्वजादीनि यथापुरम्।। 30.39 ।।
कृत्वादिङ्मूर्तिनयनान्युन्मील्य च यथाविधि।
आशामूर्तिं विमानं च दर्पणे स्नापयेद्गुरुः।। 30.40 ।।
राजा चेद्यजमानस्स्यात्पात्राणि कलशानि च।
हैमराजतताम्राणि यद्वा कार्याणि नाऽन्यथा।। 30.41 ।।
ब्राह्मणादिषु वर्णेषु यजमानेषु पद्मज।
मृण्मयान्यपि पात्राणि यथा विभवविस्तरं।। 30.42 ।।
वासोभिश्शोभनैर्धाम च्चादयेदहेतैस्ततः।
वेदिमध्ये विनिक्षिप्य शालिभारान्यथोदितान्।। 30.43 ।।
तण्डुलांश्च तिलान् सर्वान् पूर्वोक्तपरिणामकान्।
उपरिष्टाच्च विन्यस्य महाकुम्भं हिरण्मयम्।। 30.44 ।।
मूर्तिकुम्भांश्च परितस्तन्मयानष्ट निक्षिपेत्।
हेम (20) निष्कप्रमाणं च प्रतिमुम्भं विनिक्षिपेत्।। 30.45 ।।
(20.निष्कं च कर्तव्यम्)
नवरत्नं च (21) सूत्राति वेष्टि तेषु यतायथम्।
अर्चयित्वा च तानष्टमङ्गलानि विनिक्षिपेत्।। 30.46 ।।
(21. वस्त्रादीन्)
मूर्तिः होमं च जुहुयान्महाकुम्भे निवेदनम्।
चतुर्विधस्य हविषस्तथाऽन्यदपि पूर्ववत्।। 30.47 ।।
- मंदिरांगानां ध्यान प्रकारः*
शोधिते सदने तस्मिन् शोषणाऽलेपनादिभिः।
ध्यायेद्रत्नस्थलं धाम तप्तहेमविनिर्मितम्।। 30.48 ।।
तत्र (22) जीवमपि ध्यायेद्व्यापकं तदु (23) पाधिकम्।
बुद्धं च पिण्डकां पादान् (24) अहङ्कारं तथैव च ।। 30.49 ।।
(22.जीव महीं) (23.पानकम्) (24.अहङ्कौरां)
पादौ पादशिलाजङ्घे गर्भगेहं तथोदरम्।
स्तम्भान्बहून् कटिं चाऽपि तथैव कटिमेखलाम्।। 30.50 ।।
जिह्वा कर्णं तथा नेत्रं (25) प्रदीतिद्वार्श्स(?) मेहनम्।
अपानं जलनिर्याणं (26) नासिका नासिका मता।। 30.51 ।।
(25. प्रतीपद्वाश्च) (26.नाभिकां नासिकां तथा)
गवाक्षमक्षि ग्रीवां च ग्रीवान् स्कन्दान्कपोलकौ।
शिरश्च कलशं मांसं प्रलेपं स्पर्शनं सुधाम्।। 30.52 ।।
अस्थीनि च शिला (27) स्थस्थाः स्नायुर्दारुशिखाध्वजान्।
केशरोमाणि कूर्चं च ध्यायेद्धाम पुमाकृतिम्।। 30.53 ।।
(27.स्तस्थान् स्नायुंदारुशिलाध्वजान्)
हुत्वा हुत्वा च शक्तीनां न्यसनं सदने हरेः।
पूर्णशक्तिं प्रकृत्याख्यामुपानहि विनिक्षिपेत्।। 30.54 ।।
शान्तिं जगत्यां कुमुदे पृथिवीं तदनन्तरम्।
वागीश्वरीं गले चैव पट्टिकायां मतिं तथा।। 30.55 ।।
पञ्चाङ्गकल्पने शक्ति न्यसनं समुदाहृतम्।
द्वादशाऽङ्गे तु सदने शक्तिं कीर्त्भसंज्ञिताम्।। 30.56 ।।
महत्यां पट्टिकायां च (28) गले पुष्टिमनन्तरम्।
(29) महीं च वाजने वेद्यां तुष्टिं सृष्टिं तथाऽङ्घ्रिषु।। 30.57 ।।
(28. दले)(29.महीं न चवने पट्यां पुष्टिं तुष्टिं च यजने, महीं च यजने.......)
मायात्मिकां कपोतेषु भूतमालानु मोहिनीम्।
द्वादशाऽङ्गेविमाने तु शक्तिन्यास उदाहृतः।। 30.58 ।।
अष्टादशाङ्गसदने हरेस्संप्रति कथ्यते।
कूटे न्यसेन्महालक्ष्मी मपरे वसुधां तथा।। 30.59 ।।
शीलायां च महीशक्तिं प्रस्तरे चाऽतिमोहिनीम्।
स्वाहां वेद्यां श्रियं धाम्नि शक्तिन्यासोऽयमीरितः।। 30.60 ।।
शान्तिहोमादि सकलं कर्म कार्यं यथापुरम्।
दिङ्मूर्तीनां च सर्वासां तत्वन्यासादि पूर्ववत्।। 30.61 ।।
ब्रह्मणानां सहस्राणि शतं वाऽपि यथाबलम्।
भोजयेद्भुक्तवद्भ्योऽपि तेभ्यो दद्याद्धनादिकम्।। 30.62 ।।
विमानपट्टिकायां तु पञ्चविंशति तन्तुभिः।
बध्नी यात्कौतुकं दिक्षु दाम्नश्चतसृषु क्षिपेत्।। 30.63 ।।
- महाकुंभ प्रोक्षणम्*
बलिं यथापुरं ब्रह्मघोषैर्दिक्षु च घोषयेत्।
ततः प्रभातसमये युहूर्ते शोभने गुरुः।। 30.64 ।।
महाकुम्भं समुद्धृत्य प्रादक्षिण्येन मन्दिरम्।
(30) नीत्वा दक्षिणतः कुम्भं स्थापयित्वा समाहितः।। 30.65 ।।
(30.गत्वा)
उदङ्मुखो गुरुर्भूत्वा शक्तिं कुम्भजले स्थिताम्।
विमाने मूलमन्त्रैण विनिवेश्य चतुर्मुखः।। 30.66 ।।
दिङ्मूर्तीः स्वस्वमन्त्रैश्च प्रौक्षयेत्कुम्भवारिभिः।
अन्येषामपि देवानां धाम (31) स्थानं यथाविधि।। 30.67 ।।
(31.स्थानानि सर्वतः)
प्रोक्षयेत्कुम्भ (32) तोयैश्च विद्यया च स्वया स्वया।
प्रासादं पूजयेत्पूर्वं (33) दिङ्मूर्तीश्च यथातथम्।। 30.68 ।।
(32.पाथोभइर्विद्ययाऽऽचार्यकस्तया) (33.मूर्तिभश्च)
विष्ठितायां प्रतिष्ठायां प्रासादस्य यथाविधि।
आचार्याय शतं निष्कं तदर्थं पादमेव वा।। 30.69 ।।
दद्याच्च दक्षिणामन्ते यथावित्तानुसारतः।
यजमानो महीं पश्चात्सहस्रं स्वर्णदक्षिणाम्।। 30.70 ।।
उत्तमां गुरवे दद्यान्मध्यमां तु तदर्धकाम्।
आधमां पादमात्रं तु मूर्तिपानपि तोषयोत्।। 30.71 ।।
धन्तेर्वस्त्रादिभिश्चैव मनः (34) प्रह्लाद कारणैः।
भूसुरानितरांश्चापि तोषयेद्भोजनादिभिः।। 30.72 ।।
(34.प्रह्लादनैरपि)
एवं यः स्थापयेद्विष्णोर्विमानं फलनिस्पृहः।
तस्य मुक्तिः करतले स्थिता नैवाऽत्र संशयः।। 30.73 ।।
फलकामनया यस्तु स्थापयेद्धाम वैष्णवम्।
तस्य सम्पत्तिरतुला मनोरथपथाऽतिका ।। 30.74 ।।
मण्डपस्थापनायां तु वेदिनिर्माणपूर्वकम्।
क्रियाविशोधनाद्यन्तं कृत्वा निरवशेषतः।। 30.75 ।।
प्रासादस्थापनोक्तेन वर्त्मना देशिकोत्तमः।
मण्टपं विश्वकर्मीयं सर्वरत्नपरिष्कृतम्।। 30.76 ।।
सौवर्णैर्बहुभिस्तम्भै (35) र्नानारत्नपरिष्कृतैः।
(36) उत्तम्भितं गुरुर्ध्यात्वा शक्तिन्यसनमाचरेत्।। 30.77 ।।
(35.र्नवरत्नैर्विराजितम्) (36.उत्तमं तद्गुरु, उपयुक्तं गुरुः )
उपानं प्रकृतिश्शक्तिर्जगती च वसुन्धरा।
वप्रा चैव क्रियाशक्तिर्ग्रीवा वागीश्वरी मता।। 30.78 ।।
प्रीतिः कम्पं तथा तुष्टिः कुमुदं पट्टिका क्षमा।
स्तम्भपादशिला ब्राह्मी शक्तिस्तम्भाश्च वैष्णवी।। 30.79 ।।
पोतिका कमला शक्तिरुत्तरा शान्तिरिष्यते।
रतिश्च वाजनं माया मदीया कमलासन।। 30.80 ।।
(37) कीर्तिर्मता वर्णपट्टिस्तथा (38) कंपश्च मोहिनी।
तुला पद्मा तथा शान्तिश्शक्तिस्सोपानपङ्त्कयः।। 30.81 ।।
(37.कीर्तिर्माया) (38.कल्पंच)
चतुर्षु मण्टपद्वार्षु तोरणानि समर्चयेत्।
शान्ति होमादिकं (39) सर्वं कथितं कमलासन।। 30.82 ।।
(39.सर्वमितरत्पूर्ववत्तथा)
ततः प्रभाते कुम्भप्थाश्शक्तीस्तन्मण्टपे गुरुः।
न्यस्य व्यापकरूपेण मण्टपं चिन्तयेत्ततः।। 30.83 ।।
चित्राणि चित्राभासानि तत्स्थानि घटवारिणा।
प्रोक्षये (40) त्स्वेन मन्त्रेण (41) सर्वं न्यस्य यथापुरम्।। 30.84 ।।
(40. न्मूलमात्रेण)(41.सर्वमन्यद्यथा)
गुरवे दक्षिणां दद्याद्यजमानो यथापुरम्।
मण्टपस्थापनं (42) यस्तु करोति मधुविद्विषः।। 30.85 ।।
(42.सर्मक् यः करोति मधुद्विषः )
स भुक्त्वा विपुलान्भोगा निह लोके परत्र च।
मोदते देव देवस्य प्रासाद मणि मण्टपे।। 30.86 ।।
- आस्थानमंडपादि प्रतिष्ठा विधिः *
आस्थानमण्टपादीनां प्रतिष्ठाविधिरुच्यते।
वास्तु योगो बलिश्चैव गव्यैः पञ्चभिरुक्षणम्।। 30.87 ।।
पर्यग्निकरणं चैव तथा पुण्यावहचनम्।
स्थापनं चैव कुम्भस्य अग्नौ (43) चैकत्र चाहुतिः।। 30.88 ।।
(43.चैवत्यृचा)
मुहूर्ते प्रोक्षये (44) त्पश्चात्सद्यो वा सकलं चरेत्।
शतनिष्कं तदर्धं वा दक्षिणा परिकीर्तिता।। 30.89 ।।
(44.त्प्रापैसद्यो)
फलं च पूर्ववत्कर्तुः किञ्चीन्यूनं चतुर्मुख।
प्रतिष्ठा गोपुरस्याऽपि मन्दिरस्येव नाऽन्याथा।। 30.90 ।।
प्राकारस्य प्रतिष्ठायां कृत्वा सर्वं यथापुरम्।
(45) घर्ममन्त्रेण कुम्भस्थवारिणा प्रोक्षयेद्गुरुः।। 30.91 ।।
(45.वर्म)
शतं तदर्धं पादं वा स्वर्णनिष्काणि दक्षिणा।
बलिपीठस्य निर्माणं स्थापनं चाऽधुनोच्यते।। 30.92 ।।
गर्भगेहसमायामविस्तारा बलिपीठिका।
तदर्धा तत्तुरीया वा पञ्च (46) सङ्ख्यं शकाऽपि वा।। 30.93 ।।
(46.नूच्यधिकापि)
यद्वा नवस्वेकभागा यद्वा हस्तवशाद्भवेत्।
एकहस्ता(ं) वरा पञ्च परमा वा यथाबलम्।। 30.94 ।।
विस्तारद्विगुणोत्सेधा (47) त्रिगुणाऽर्धाऽधिकापि वा।
विस्तारतुल्योच्छ्राया वा पञ्चाङ्गपरिकल्पना।। 30.95 ।।
(47.द्विगुणाभ्यधिका)
कपोतभूतहंसादि मालिका (48) भिरलंकृता।
त्रिधा कृत्वाऽग्रविस्तारं भागाभ्यां पङ्कजं भवेत्।। 30.96 ।।
(48.भ्यदिका भवेत्)
पीठकोणेषु गरुडान् सिंहान्वा परिकल्पयेत्।
विघ्न राट् तस्य जनकः पक्षिराट् कन्यकाऽपि च।। 30.97 ।।
यथाक्रमेण प्रागादि दिक्षु तन्मूर्तयः स्मृताः।
सोपानपङ्तयः पार्श्वे कल्पनीया यथोन्नतिः।। 30.98 ।।
गोपुरद्वारविस्तारस्त्रिगुणा वा चतुर्गुणा।
बहिः पुरस्ताद्द्वारस्य बलिपीठस्य कल्पनम्।। 30.99 ।।
वास्तु होमादिकं सर्वं शान्तिहोमावसानिकम्।
क्रियाकलापमाचार्यः कुर्यान्मन्दिरवत् क्रमात्।। 30.100 ।।
प्रभातसमये प्राप्ते मुहूर्ते शोभने गुरुः।
कुम्भस्थवारिभिः पीठं प्रोक्षयेन्मूलविद्यया।। 30.101 ।।
देवताश्चैव तत्रस्थाः प्रोक्षयेदात्मविद्यया।
प्रोक्षयोत्कर्णिकां चापि नमस्तेत्यादि विद्यया।। 30.102 ।।
अष्टानां कुमुदादीनां स्वैस्वैरनुचरैस्सह।
(49) प्रार्थयेत तदा तत्र सन्निधि मन्त्रपूर्वकम्।। 30.103 ।।
(49.प्रार्थयेत्सर्वदा)
पीठमेव प्रतिष्ठाप्य कुर्यान्नित्योत्सवं पुनः।
गुरुवे दक्षिणा देया शतनिष्कावरात्मिका।। 30.104 ।।
एवं यः स्थापयेत्पीठं विष्णुभूताऽऽलयं वरम्।
सर्वदुः खविनिर्मुक्तः प्राप्नोति परमं पदम्।। 30.105 ।।
- बलिपीठप्रतिष्ठा*
(50) बलिपीठप्रतिष्ठां च वक्ष्यामि कमलासन।
तस्योत्सेधं समुद्दिष्टं गर्भागारं समन्ततः।। 30.106 ।।
(50. " बलिपिठ प्रतिष्ठां " इत्यारभ्य---उत्तरत्र अध्यायानै" महासन प्रतिष्ठायां " इत्यन्तं केषु चित्को शेषु न दृश्यते)
आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे।
उत्सेधे दशभागे तु सप्तांशं समुदाहृतम्।। 30.107 ।।
सप्तविंशतिभागे तु विभक्तेतु समुच्छ्रये।
द्वियंशं पादुकं ज्ञेयं जगती चतुरंशिका।। 30.108 ।।
त्रियंशं युमुदं ज्ञेयमेकांशं पट्टिका भवेत्।
षड्भागं कर्णमित्युक्तं द्व्यंशकं गळकम्पयोः।। 30.109 ।।
चतुरंशैर्विभागश्च वंशैश्चैवात्र वर्तिका।
द्व्यंशार्धं पद्मपुष्पं तु एकार्धं प्दपकर्णिका।
एवं सम्यग्विदित्वातु भागे भागे विनिर्दिशेत्।। 30.110 ।।
त्र्यंशहस्तप्रमाणेन त्रिहस्ता चाऽधिकाऽपि वा।
प़ञ्चहस्ताऽधिकं वाऽपि गोपुरात्प्राग्विधीयते।। 30.111 ।।
मध्ये भूतं च कर्तव्यं चतुस्तालप्रमाणतः।
सुखासीनमिदं श्रेष्ठं परावृत्तं च कारयेत्।। 30.112 ।।
अनिरुद्धाय दृषदे वत्सरायेति हूयाताम्।
तथावक्लृप्तहस्ताय चामुण्ढाय तथैव च।। 30.113 ।।
नैन्यायेति वरायेति चोदराय ततः परम्।
ततैवोदरबन्धाय नाडिभ्यामिति वै पुनः।। 30.114 ।।
वसुश्चैव च वास्तुभ्यो वास्तुमुष्काय वै पुनः।
प्रजनाय जिरित्रेभ्य श्श्रोणीभ्यामिति वै पुनः।। 30.115 ।।
तटाकाय च वंशाय वंशधारिभ्य एव च।
प्रजापतय इत्युक्त्वा धृष्णवेति च भुतयः।। 30.116 ।।
शुकाय शुकवासिभ्य ऊरुभ्यामिति चोच्चरन्।
सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयताम्।। 30.117 ।।
साक्षिभ्यो जानु मूलेभ्यो जानुमूलेभ्य इत्यपि।
गुल्फेभ्यश्चैव पार्ष्णिभ्यश्चरणेभ्यस्तलेऽपिवा।। 30.118 ।।
पादाङ्गुलिभ्यः पादेभ्यश्चरणाऽग्रतलाय च।
तलायोर्ध्वतलायेति त्वग्भ्यस्स्वाहेति हूयताम्।। 30.119 ।।
त्वरासिभ्यश्च हुत्वा तु जुहुयाच्च ततः परम्।
रोमकुपेभ्य इत्युक्त्वा प्रसेभ्यो रसदाय च।। 30.120 ।।
रत्नाय रत्न वासिभ्यो मेदसे च तथा पुनः।
जीवाय वास्तुने चैव अस्थिमज्जाय वै पुनः।। 30.121 ।।
जुहुयान्मज्जवासिभ्यो त्तमाङ्गाय वै पुनः।
धाता वै चैव दातुभ्यो धातुरूपेभ्य इत्यपि।। 30.122 ।।
जुहुयादुपधातुभ्यः पश्वात्वच इति ब्रुवन्।
सर्वरूपाय ग्रीवाय धनदाय तथाऽऽत्मने।। 30.123 ।।
सर्वेश्वराय यज्ञाय पुरषाय च हूयताम्।
उपपीठं विना पीठं कर्तव्यं द्विजसत्तम।। 30.124 ।।
आमोदं प्राक्पृधग्यष्ट्वा तद्भूतं भुवनात्मकम्।
प्रमोमो याम्यदिक्पद्मे तद्भूतमनलात्म के।। 30.125 ।।
प्रमुखं पश्चिमे पद्मे तद्भूतं स्याज्जलात्मके।
उन्मुखं सोमदिग्भागे वायुभूतं तदेव हि।। 30.126 ।।
अविघ्नं करणोर्ध्वं तु व्योमात्मकमुदाहृतम्।
भूम्यन्तरिक्षस्वर्गं च सर्वभूतगुणात्मकम्।। 30.127 ।।
- महापीठः *
तत्समात्मकमित्युक्तं महापीठं द्विजोत्तम।
प्रासादस्य तु विस्तारं यस्तु दण्ड मिवोच्यते।। 30.128 ।।
मूलहर्म्यं समारभ्य षष्ठदण्डसमानतः।
दश द्वादश दण्ढैर्वा मनुदण्डावसानकम्।। 30.129 ।।
षोडशैर्द्वादशैर्वाऽपि महापीठं प्रकल्पयेत्।
अथवाऽन्यप्रकारेण पीठस्थानं विधीयते।। 30.130 ।।
तृतिसाले चतुस्साले पञ्चसालेऽश्रमध्यमे।
महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते।। 30.131 ।।
अथवा व्योमहस्तं तु अधमं पिठविस्तृतम्।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रोष्टमुच्यते।। 30.132 ।।
तद्विस्तरसमं तुङ्गं तुङ्गं सप्ताऽष्टविंशतिः।
उपानोच्चं द्विभागं स्यात्षडंशं जगती भवेत्।। 30.133 ।।
कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते।
वेदांशं कण्ठमानं तु ऊर्ध्वकम्पं शिवांशकम्।। 30.134
महापट्टी गुणांशं तु द्विभागं वा वि शेषतः।
वेदांशं पद्मभागं तु द्विभागं कर्णिकोदयम्।। 30.135 ।।
अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम।
पद्मोच्चं पद्मभागं तु महापट्टी द्विभागिका।। 30.136 ।।
उपानोच्चं शिवां शेन शेषं पूर्ववदेव हि।
अध्वा पीठोयं विप्र धरातालं यथाकुरु।। 30.137 ।।
तदुर्ध्वो परिमानं तु पीठोच्चान्यंशमुच्यते।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत्।। 30.138 ।।
पद्मतारे युगांशं वा भूतांशं कर्णिकायतम्।
पीठाकारं युगाग्रं वा कर्तव्यं मङ्गलाम्बुजम्।। 30.139 ।।
लोहजं शैलजं वाऽपि इष्टिकामय मेव वा।
अंशस्योपरि पीठोच्च मुपपीठोपनात्कुरु।। 30.140 ।।
तदूर्ध्वे तु महापीठं उक्तव्यं सोदयान्वितम्।
उपपीठे विना पीठं कर्तव्यं स्याद्द्विजोत्तम।। 30.141 ।।
नेत्रं रसं च भूतं च एकं वेदं च भागिकम्।
गुणं वेदं च नेत्रं च उपनादि प्रमाणवत्।। 30.142 ।।
एक वेदगुणं चैव कर्णं चैकं च नेत्रवत्।
एकं गुणगणं चैव बलिपीठप्रमाणतः।। 30.143 ।।
प्रभभस्याऽग्रतः कुर्यात्प्रासादात्मा प्रमाणवत्।
द्वारस्थानं तदग्रे तु तन्नि पात्रशिवालयम्।। 30.144 ।।
एते वृषाचलं सर्वशान्तं वामे तु गोपुरात्।
- बलिपीठं*
अथ वक्ष्ये विशेषेण बलिपीठस्य लक्षणम्।। 30.145 ।।
लिङ्गोदयसमं श्रेष्ठं तदर्धं कन्यसंभवेत्।
तयोर्मध्येऽष्टधा कृत्वा नवमानं प्रकीर्तितम्।। 30.146 ।।
तथवा पिण्डिकोत्सेधं कन्यसं पीछविस्तृतम्।
तत्तारमध्यमं ज्ञेयं तन्नास्रंचोत्तमं स्तृतम्।। 30.147 ।।
तदर्धमधमं ज्ञेयं तयोर्मध्येऽष्टभाजिते।
नवधा पीठविस्तारः उत्सेधस्तत्समे भवेत्।। 30.148 ।।
अष्ट वा द्वारविस्तारमधमं पिठविस्तृतम्।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चोत्तमं भवेत्।। 30.149 ।।
अथवा द्वारतुङ्गार्धं कन्यसं पीठविस्तृतम्।
त्रिपादं मध्यमं प्रोक्तं तत्समं चोत्तमं भवेत्।। 30.150 ।।
अधमोत्तमयोर्मध्ये नवमानं प्रकीर्तितम्।
धरातलसमोत्सेधमधमं पीठविस्तृतम्।। 30.151 ।।
त्रिगुणं मध्यमं प्रोक्तं तयोर्मर्ध्येऽष्टभाजिते।
नवधा पीठतुङ्गं तु विस्तारं तत्समं भवेत्।। 30.152 ।।
त्रिहन्तमुत्तमव्यासमेकहस्तं तु कन्यसम्।
द्विकरं मध्यमं ज्ञेयं पीठव्यासं प्रकीर्ततम्।। 30.153 ।।
पञ्चविंशाङ्गुलारभ्य द्विद्व्यङ्गुल विवर्धनात्।
ए काशीत्यङ्गुलान्तं यत्पीठव्यासः प्रकीर्ततः।। 30.154 ।।
उपान बाह्ये विस्तारः उत्तमस्संप्रकीर्ततः।
जगतीबव्यविस्तारः मध्यमस्सं प्रकीर्ततः।। 30.155 ।।
कुमुदान्ते प्रकर्तव्यं विस्तारमधमं स्मृतम्।
प्रासादोक्तक्रमेणैव महाफीठोदयं तु वा।। 30.156 ।।
महापीठोदयं सप्त चत्वारिंशद्विभाजिते।
पर्वतांशं जगत्युच्चं सप्तंशं कुमुदोच्चयम्।। 30.157 ।।
शिवांशं कम्पमानं स्यादिन्द्रभागं गळोदयम्।
कम्पतुङ्गं शीवांशं स्यात्तत्समं त्वम्बुजोदयम्।। 30.158 ।।
कपोतोच्चं तु वेदांशं द्विभागं प्रस्तरोदरम्।
सार्धांशं कम्पतुङ्गं स्यात्सार्धषट्कमलोदयम्।। 30.159 ।।
वेदाशं कर्णिकोत्सेधं द्विगुणं तस्य विस्तरम्।
अथवा पीठतुङ्गं तु पञ्चभागविभाजिते।। 30.160 ।।
ए कांशं वेदिकोत्सेधमेकांशं कुमुदोदयम्।
शिवांशं कर्णतुङ्गस्स्यादर्धांशं पट्टिकोदयम्।। 30.161 ।।
ए कांशं कमलोत्सेधमर्धांशं कर्णिकोदयम्।
द्विगुणं तस्य विस्तारं सपादाधिकमेव वा।। 30.162 ।।
महानस प्रतिष्ठायां वास्तुहोमादिके कृते।
कुम्भमेकं प्रतिष्ठाप्य धान्यराशिषु पूर्ववते।। 30.163 ।।
समिधाज्य (51) चरुं प्राग्वज्जुहुयान्मूलविद्यया।
तत्रस्थदेवतानां तु तत्त्वन्यासं समाचरेत्।। 30.164 ।।
(51.चर्रू हुत्वा पायसैर्मूलविद्यया.)
ब्राह्मणान् भोजयेच्छक्त्या दद्याच्चैव तु दक्षिणाम्।
पेषणाद्यङ्गजातानि क्षाळयित्वाऽधिवासयेत्।। 30.165 ।।
ततः प्रभातसमये मुहूर्ते शोभने गुरुः।
अग्निमीडेति मन्त्रेण चुल्लीष्वग्निं निधापयेत्।। 30.166 ।।
पचेयः (52) पाचनादीनि हवींषि परिचारकाः।
कुण्डे च नित्यहोमार्धं स्थापयेदग्निमग्नि मान्।। 30.167 ।।
(52.पायसादीनि)
प्रागुक्तेनैव मन्त्रेण पुरस्तान्मन्त्र पूर्वकम्।
न्यसेत्कुम्भजलेनैव क्रमाच्चण्डादि देवताः।। 30.168 ।।
द्वारे चण्ढं प्रचण्ढं च क्षेत्रपालं खगेश्वरम्।
द्वारस्य दक्षिणे पार्श्वे गणानामपि नायकं।। 30.169 ।।
जृम्भलं माणिभद्रं च शिबिं कुण्डल मेव च।
द्वारस्य चोत्तरे पार्श्वे पार्श्वेष्वन्येषु चक्रमात्।। 30.170 ।।
प्रासादद्वारवद्द्वरे लक्ष्म्यादि परिकल्पनम्।
चुल्याश्च वामेतरयोर्धर्माधर्यौ च पृष्ठतः।। 30.171 ।।
(53) विधातारं तथा (54) दीर्घचुल्या उभय पार्श्वयोः।
धर्माधर्मद्वयं न्यस्येत्फात्राणि (55) समलान्यपि।। 30.172 ।।
(53.विघातारं) (54.दीपं चुल्या) (55.कमलान्यपि)
श्रीसूकैनाम्भसा प्रोक्ष्य मङ्गुळान्यपि कारयेत्।
गुरवे दक्षिणां दद्याद्यजमानो यथाबलम्।। 30.173 ।।
- पाकशालादिकल्पने फलम् *
यः कल्पयोद्द्र सवतीं भक्तीमान्विष्णुमन्दिरे।
स भुक्त्वा विपुरान् भोगान् प्रेत्य स्वर्गमवाप्नुयात्।। 30.174 ।।
धान्यागारं धनागारं सारस्वतगृहं तथा।
तथा मज्जनशाला च पुष्पपानीयमन्दिरम्।। 30.175 ।।
तम्भूलकल्पनगृहं (56) वाद्यस्थानं चतुर्मख।
(56) स्थनं च यच्च धामाङ्गं कल्पितं शिल्पवित्तमैः।। 30.176 ।।
(56.चेलास्थानं) (57.स्थानमन्यच्च)
आचार्यो वास्तुहोमादि शास्त्रोक्तविधिपूर्वकम्।
क्रिया कलाप मखिलं (58) कुर्यात्पूर्वोक्तया दिशा।। 30.177 ।।
(58.कुर्याच्छास्त्रोक्त वर्त्मना)
आचार्य दक्षिणाचैव देया वित्तानुसारतः।
वापीकूपतटाकानां प्रतिष्ठाने चिकीर्षिते।। 30.178 ।।
तेषां पश्चिमदिग्भागे वेदिं कुर्या (59) च्च पूर्ववत्।
जलाधिदैवतं (60) हृद्यमल्पकायविनिर्मितम्।। 30.179 ।।
(59.च्चतुष्कराम्) (60.हृद्यं कल्प्यकाय)
लोहजैः कलशैन्तत्र स्नापयेद्देशिकोत्तमः।
मन्त्रैर्वरुणदैवत्यैश्शयने शाययेत्ततः।। 30.180 ।।
तमर्चयेन्महाकुम्भे चतुर्ष्वेकत्र वा पुनः।
कुण्डेषु जुहुयान्मन्त्रैस्तद्दैवत्येर्घृतादिभिः।। 30.181 ।।
वारुणानि च सूक्तानि दिक्षु पाठ्यानि भूसुरैः।
प्रभाते शोभने लग्ने (61) शोभिते पूर्व (62) वज्जलैः।। 30.182 ।।
(61.शोधिते) (62.वज्जले)
पुण्याहं वाचयित्वाऽनै ध्यायेदमृतवारिभिः।
पूरितं तत्तटाकादीन् कुरुरेकाग्रमानसः।। 30.183 ।।
महाकुम्भजलं तत्र (63) वारुणं च विनिक्षिपेत्।
मीनादि जलयोनींश्च लोहजं तत्र निक्षिपेत्।। 30.184 ।।
(63.वारीणां)
गङ्गादिसरितस्तत्र मन्त्रैरावाहयेज्जले।
भुक्तेषु ब्राह्मणेष्वर्थै स्तर्पितेषु यथावसु।। 30.185 ।।
दक्षिणा गुरवे देया दशनिष्कावरा ततः।
करोति यस्तटाकादि (64) प्रतिष्ठानं जलाशये।।
(64.प्रतिष्ठां तज्जला)
स नित्य (65) तृत्पस्सुचिरं लोके वसति वारुणे।। 30.186 ।।
(65. तृत्पिरुचिरे)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे लक्ष्म्यादिपाणिग्रहण (66) विमानादि प्रतिष्ठा
विधिर्नाम त्रिंशोऽध्यायः।
(66. विमानमण्डप बलिपीठ महानसादि प्रतिष्ठाविधानं नाम.)
*******************-----------------