← अध्यायः १६ क्रियापादः
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
सप्तदशोऽध्यायः

  • मत्स्यादिमूर्तिनिरूपणम्*

श्रीभगवान्----
मत्स्यातिदशमूर्तिनां लक्षणं कथ्यतेऽधुना।
ईषद्वैस्थूल (1) चित्राणि तैस्तैर्व क्त्रैर्युतानि च ।। 17.1 ।।
(1. गात्राणि.)

  • मत्स्यमूर्ति)*

तत्र मत्स्यस्य कायश्च दैर्घ्याद्वै षोडशाङ्गुलम्।
दशाङ्गुलं तु वैपुल्यान्मीनाख्यं परिकल्पयेत्।। 17.2 ।।
(2) शूलं मत्स्याकृतिं कृत्वा शिलामृत्काष्ठजं तु वा।
(2. शूर्पम्.)
अर्धचित्रेण वाकुर्याच्चित्राभासेन वा पुनः।। 17.3 ।।
समुद्रंतु लिखेद्भित्तौ (3) पद्मस्योपरि कल्पयेत्।
पञ्चायुधान् लिखेद्भित्तौ (4) छत्रादीन्परिकल्पयेत्।। 17.4 ।।
(3. पद्मं चोपरि.) (4. पञ्चायुदानि च लिखेच्चक्रादीन् कल्पयेत्पुनः।)
नारदेनापि मनुना समभ्यर्चितमादरात्।
(5) कर्मार्चादीनि बिंबानि सौम्यवक्त्राश्चतुर्भुजाः।। 17.5 ।।
(5. कर्मार्चादिषु बिम्बस्य.)
आसीवा वा स्थिता वापि शंखचक्रगदाधराः।

  • कूर्ममूर्तिः*

कूर्मवत्कूर्म(6) मूर्तिं तु कल्पयेत्कमलासन।। 17.6 ।।
(6. रूपं)
तपनीयनिभं कूर्मं विस्तारं द्वादशाङ्गुलम्।
शिलामृत्काष्ठजं पद्मपीठे संस्थापयेत्प्रभुम्।। 17.7 ।।
आभासे वार्धचित्रे वा क्षीरोदमथनं लिखेत्।
कच्छपेन्द्रस्य पृष्ठो तु मन्दरं पर्वतो तमम्।। 17.8 ।।
तस्य दक्षिणपार्श्वे तु वासुदेवं सनातनम्।
मन्दरस्य गिरेरग्रे न्यस्तहस्तं जगद्गुरुम्।। 17.9 ।।
वामपार्श्व गिरेस्तस्य ब्रह्माणं सह शङ्करम्।
वासु केः पूर्वभागं तु गृह्णन्त्य (7) सुरराक्षसाः।। 17.10 ।।
(7. गृह्णन्त्व.)
पुच्छभागं तु गृह्णन्ति वाकेर्देवतागणाः।
(8) कर्मार्चादीनि बिम्बानि सौम्यवक्त्राश्चतुर्भुजाः।। 17.11 ।।
(8) कर्मार्चादिषु बिम्बस्य.)

  • वराहमूर्तिः*

विष्णोर्महावराहस्य निर्माणमधुनोच्यते।
नरवत्कण्ठपर्यन्तं वक्त्रसृष्ठिर्वराहवत्।। 17.12 ।।
चतुर्भुजं शङ्खचक्रधारिणं स्फटिकप्रभम्।
पीतवस्त्रं मुकुटिनं श्यामलाकृतिमेव वा।। 17.13 ।।
(9) सतिर्यक्संस्थितं सूत्रे दैविके स्थापयेत्पदे।
शयनं यानकं चैव वराहस्य तु नेष्यते।। 17.14 ।।
(9. पीतिवत्.)
स्थापयेदेकबेरं तु शङ्कचक्रगदाधारम्।
आसनेऽपि तथा रूपं ब्रह्मस्थाने ऋजुर्भवेत्।। 17.15 ।।
दिव्ये तु स्थानके चैव ऋज्वङ्गं नैव कारयेत्।
उद्धृत्य धरणीं देवीं वावहस्तस्य कूर्परे।। 17.16 ।।
कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु।
जिघ्रन् (10) देव्याः स्तनं देवश्श्रीवत्साङ्कः किरीटवान्।। 17.17 ।।
(10. भूम्याः)
कृताञ्जलिपुटा देवी श्यामवर्णा सुमध्यमा।
कल्पनीया मही देवी देवे तिष्ठति पद्मज।। 17.18 ।।
आसीने तु तथासीना पुष्पहस्ता वसुन्धरा।
वामे पार्श्वे प्रतिष्ठाप्या वराहवपुषो हरेः।। 17.19 ।।
आरोपितव्या देवस्य वामोत्सङ्गे वसुन्धरा।
आलिङ्गिता च हस्तेन वामेन प्रेक्षितानना।। 17.20 ।।
कर्मार्चनादिप्रतिमा आसीना वा स्थितापि वा।
देव्या सह क्रोडवक्त्रा (11) सौम्यवक्त्रा चतुर्भुजा।। 17.21 ।।
(11.सौम्या वा स्यात्. इतिक्वचित्.)

  • नृसिंहमूर्तिः*

नृसिंहामूर्तिर्बहुधा तत्र काचित्प्र (12) दर्श्यते।
वक्तं केसरिणो वक्त्रं व्यात्तास्यं दंष्ट्रया युतम्।। 17.22 ।।
(12. शस्यते.)
भ्रुकुटीकुटिलं भीमं त्रिणेत्रं मुकुटोज्ज्वलम्।
अङ्गान्तरं नरस्येव चतुर्भुजमुदा (13) युधम्।। 17.23 ।।
(13. हृतम्.)
रक्तकञ्चुकसंयुक्तं श्रीवत्साङ्कविराजितम्।
शुद्धस्फटिकसंकाशं शङ्खचक्रविराजितम्।। 17.24 ।।
पर्यङ्कबन्दसंयुक्तमासीनं सम्यगासने।
प्रसार्य जानुनोर्हस्तौ मुख्यौ विस्तारिताङ्गुली।। 17.25 ।।
दम्भोलिभीमनखिनौ भागे दिव्ये प्रतिष्टितम्।।
एकभेरविधानं चेदासीनो वा स्थितोऽपि वा।। 17.26 ।।
शङ्खचक्रगदापाणिः स्थित श्चेत्कमलासन।
अथवा दैविके भागे सिंहविष्टरविष्ठितम्।। 17.27 ।।
श्रीभीमिभ्यां सहासीनां बद्धपर्यङ्कबन्दनम्।
यद्वा भूमितले पादमेकं संस्थाप्यदक्षिणम्।। 17.28 ।।
अपरेण सुखासीनो विष्टरे विपुले दृढम्।
यद्वा (14) प्रसार्य जानूर्ध्वमुत्क्षिप्योपरि जानुनः।। 17.29 ।।
(14.प्रसव्य.)
वाहस्तं प्रसार्यान्यहस्तं कृत्वाऽभयप्रदम्।
दक्षिणं (15) जानुनोऽधस्तात् स्थापयित्वा तथासने।। 17.30 ।।
(15. जानु चाधस्तात्)
श्रीभूमिसहितो दिव्ये तिर्ष्ठभागे यथापुरम्।
यद्वाष्टभूजसंयुक्तं नृसिंहं (16) परिकल्पयेत्।। 17.31 ।।
(16.संप्रकल्पयेत्.)
चक्रं खड्गं च बाणं च अभयं दक्षिणे भुजे।
पाञ्चजन्यं गदां शार्ङ्गं वाम (17) बाहृषु कारयेत्।। 17.32 ।।
(17. बाहौ तु.)
जानूपरि तथा वामं हस्तमेकं प्रसारयेत्।
यद्वा भुजयुगं जानुद्वयस्योपरि कल्पयेत्।। 17.33 ।।
अथवा सोडशभुजो नरसिंहः प्रशस्यते।
चक्रं खड्गं सपरशुरं शूलं बाणं तथाङ्कुशम्।। 17.34 ।।
वज्रं च दक्षिणभुजप्रदेशेष्वितपेष्वपि।
शङ्खं चर्म गदां शक्तिं शार्ङ्गं पाशं च तोमरम्।। 17.35 ।।
शिष्टौ करौ यथापूर्वं स्थापयेज्जानुनोर्द्वयोः।
वाम (18) जानूर्ध्वकं कुर्यादधस्तादितरं पुनः।। 17.36 ।।
(18. जानुयुगम्.)
उत्सङ्गे देवदेवस्य हिरण्यकशिपुं रिपुम्।
नखैर्विदारितोरस्कं स्रवद्रुधिर (19) पङ्किलम्.। 17.37 ।।
(20) रुधिरस्तोमसंभूत (21) सिराणां ग्रामसङ्कुलम्।
कुर्याच्च दक्षिणे पार्श्वे विधिमन्यत्र शङ्करम्।। 17.38 ।।
(19.पिङ्गलम्.) (20. कुरते प्रेतकार्याणि एतं प्रा स्य सर्वशः। मदङ्गस्पर्शनेनाङ्गलोकान् पश्यति सुप्रजाः।। इदं पद्मं क्वचित्कोशे पङ्ङिलम्----रुधिरस्तोम इत्यनयोर्मध्ये दृश्यते. कुत एतदत्राक्षिप्तमि तिन ज्ञायते.) (21. हिरण्य.)
प्रह्लादं गरुडं चापि पार्श्वयो स्तत्र कारयेत्।
स्वतन्त्रे नरसिंहे तु कर्मबिम्बानि कारयेत्।। 17.39 ।।
चतुर्भुजं वा सर्वत्र चासीनां सुस्थितं तु वा।
श्रीभूमिसहितं वापि(22) रहितं वापि कारयेत्।। 17.40 ।।
22. नृसिंहां तत्र.)
(23) कर्मार्चनादिप्रतिमां सौम्यवक्त्रां चतुर्भिजां।

  • वामनमूर्तिः*

वामनस्य हरेर्मूर्तं बहुधा संप्रचक्षते।। 17.41 ।।
(23. कर्मार्चाश्चाथवा कुर्यात्.)
वामनं वामनाकारं श्यामलं दण्डधारिणम्।
द्विभुजं मेखलादामशोभितं शोभनाकृतिम्।। 17.42 ।।
कौपीनाच्छादनधरं मृगाजिनधरं विभुम्।
यज्ञोपवीतिनं काकपक्ष (24) संयुतकुन्तलम्।। 17.43 ।।
(24. मं)
ईषत्कुञ्चितसव्याङ्घ्रिं (25) दक्षिणेन ऋजु स्थितम्।
दक्षिणेन तु हस्तेन याचमानं वस्तुन्धराम्।। 17.44 ।।
(25. दक्षिणे ऋज संस्थितम्.)
शोभितं शोभनाकारं स्थितं वा शयनासनम्।
(26) अथवा गरुडारूढं कल्पयेत्कमलासन।। 17.45 ।।
(26. स्थितं शयानमासीनमथवा गरुडण स्थितम्)
एकबेरविधानं चेत् स्थापयेद्ब्रह्मणः पदे।
बहुबेरविधानं तु त्रैलोक्याक्रमणोद्यतम्।। 17.46 ।।
विष्णुं प्रकल्पयेद्दिव्ये भागेऽष्टभुजसंयुतम्
चतुर्भुजं वा बहुभिर्बाहुभिर्वा समन्वितम्।। 17.47 ।।
तस्य दक्षिणपार्श्वे तु वामनं वामनाकृतिम्।
तस्यापसव्ये दै त्येन्द्रं बलिं करकधारिणम्।। 17.48 ।।
भुवनत्रयदातारं सभार्यं सपुरोहितम्।
वामपार्श्वे तु पक्षीन्द्रं मुष्टिना शुक्रघातिनम्।। 17.49 ।।
वामभित्तौ विधातार मुपरिष्टादवस्थितम्।
क्रममाणस्य देवस्य सव्याङ्घ्रिक्षालनोद्यतम्।। 17.50 ।।
पादोदकसमुद्भूतां गङ्गामाकाशगामिनीम्।
तर्जन्या वामया चापि निर्दिशन्तं समुद्धृतम्।। 17.51 ।।
चरणं सव्यमत्युच्चैश्श्यामलं पीतवासनम्।
शङ्खचक्रगदा (27) खड्गधनुः पाशादिधारिणम्।। 17.52 ।।
(27. शार्ङ्गधनुः पाशादि)
जाम्बवन्तं च भित्तौ तु भेरीताडनतत्परम्।
देवर्षिगणसङ्घातान् कृताञ्जलिपुटान् स्थितान्।। 17.53 ।।
भित्तौ कृत्वाततः कर्माद्यर्चां चैव चतुर्भुजाम्।

  • भार्गवराममूर्तिः*

कुर्याद्भार्गवरामस्य निर्माणमधुनोच्यते।
आसीनं द्विभूजं शान्तं जटामुकुटधारिणम्।। 17.54 ।।
परशुं सशरं चापं दक्षिणेतरहस्तयोः।
धारयन्तं सुवर्णाभं ब्राह्म्या लक्ष्म्या विराजितम्।। 17.55 ।।
श्रीवत्सेनाङ्कितोरस्कं सोपवीतो त्तरीयकम्।
स्थितं वा कल्पयेद्देवमेकबेरं विधेः पदे।। 17.56 ।।
बहुबेरे पदे दिव्ये देवीं वामे प्रकल्पयेत्।
चतुर्भुजा च कमार्चा जामदग्न्येन वासमा।। 17.57 ।।
भङ्गत्रयसमेपेतं त्रयस्त्रिंशत्सुलक्षणम्।
यद्वा चतुर्भुजं कुर्याज्जामदग्न्यं चतुर्मुख।। 17.58 ।।
शङ्खचक्रधरं शार्ङ्गशरहस्तं यथापुरम्।

  • श्री राममूर्तिः*

रामस्य राघवस्याथ लक्षणं वक्ष्यतेऽधुना।। 17.59 ।।
त्रिभङ्गं द्विभुजं रम्य श्यामवर्णं किरीटिनम्।
श्रीवत्साङ्कं प्रसन्नाभं यद्वा रामं चतुर्भुजम्।। 17.60 ।।
ऋजु स्थितं दक्षिणेन चरणेनेतरेण तु।
कुञ्चितेनाङ्घ्रिणा स्तोकं शरशार्ङ्गधनुर्धरम्।। 17.61 ।।
उद्धरेच्च ललाटान्तं वामहस्तं धनुर्धरम्।
अन्तरालं मुखमितं शरहस्तं तु दक्षिणम्।। 17.62 ।।
कटिसूत्रसमं कुर्यास्मुखमानं सगोलकम्।
अन्तरालं भवेस्मुष्टेः कटिसूत्रस्य च द्वयोः।। 17.63 ।।
अपराभ्यां च हस्ताभ्यां शङ्खं चक्रं च धारयेत्।
मुखं दक्षिणतो भङ्गं मध्यकायं तु वामतः।। 17.64 ।।
कट्यां दक्षिणतो भङ्गः किञ्चिद्भङ्गत्रयं मतम्।
कम्बुग्रीवं महूरस्कं त्रयस्त्रिंशत्सुलक्षणम्।। 17.65 ।।
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम्।
सप्तरक्तं त्रिगम्भीरं त्रिविस्तीर्णं (28) प्रशस्यते।। 17.66 ।।
(28. यथातथा)
बाहू नेत्रान्तरं चैव हनुर्नासा तथैव च।
स्तनयोरन्तरं चैव पंचदीर्घं प्रशस्यते।। 17.67 ।।
ग्रीवा प्रजननं पृष्ठं ह्रस्वे जङ्घ च पूज्यते।
सूक्ष्माण्यङ्गुलिपर्वाणि केशदन्तनखत्वचः।। 17.68 ।।
इमानि पंच सूक्ष्माणि कथितानि मयाऽनघ।
कक्षः कूक्षिश्च वक्षश्च घ्रूणं स्कन्धो ललाटिका।। 17.69 ।।
षडुन्नतमिदं प्रोक्तं सप्तरक्तमतः शृणु।
(29) पाणिपादतलं रक्तं नेत्राद्यन्तं नखानि च।। 17.70 ।।
(29. पाणिपादतले रक्ते.)
तालुजिह्वाऽधरेष्ठं च सप्तरक्ता इमे स्मृताः।
स्वरस्सत्वं च नाभिश्च त्रिगम्भीरं प्रशस्यते।। 17.71 ।।
उरश्शिरो ललाटश्च त्रिविस्थिणं प्रकीर्ततम्।
एवं लक्षणसंयुक्तं सर्वलोकसुखावहम्।। 17.72 ।।
कुर्याद्धाशरथिं रामं मानादित्रयसंयुतम्।

  • लक्ष्मणादीनांस्थितिः*

लक्ष्मणं कारयोद्वामे तथा लक्षणलक्षितम्।। 17.73 ।।
जानकीं दक्षिणे पार्श्वे देवीं (30) वेदिसमुस्थिताम्।
भरतं दक्षिणे भित्तौ ससुग्रीवविभीषण्।। 17.74 ।।
(30. वेदसमाश्रिताम्.)
शत्रुघ्नं चाङ्गदं चैव हनूमन्तं च वामतः।
दिव्ये भागे स्थितस्येव परिवारादिकल्पनम्।। 17.75 ।।
भद्रासने (31) समासीनं त्यक्त्वा तत्सशरं धनुः।
(31. सुखासीनम्)
अभयो दक्षिणो हस्तो वामस्तु वरदो भवेत्।। 17.76 ।।
जानकी तु सूखासीना भवेद्दक्षिणपार्श्वतः।
लक्ष्मणो वामपार्श्वे तु स्थितश्च रचिताञ्जलिः।। 17.77 ।।
यद्वा महार्हशयने (32) शयानं परिकल्पयेत्।
(33) पृष्ठतो मौलिपार्श्व तु जानकी स्यात्सुखासना।। 17.78 ।।
(32. शयितम्.) (33. तत्पृष्ठतो वामपार्श्व.)
कुड्यस्थाः पूर्ववत्सर्वे कर्तव्या लक्ष्मणादयः।
पवनात्मजमारूढो यानं वा सशरासनः।। 17.79 ।।
एकबेरविधाने तु राघवो ब्रह्मणः पदे।
शरचापधरं कुर्यात् स्थितं लक्षणलक्षितम्।। 17.80 ।।
अथवाऽभयदं हस्तं (34) दक्षिणं दक्षिणेतरम्।
कटिस्पृशं करं कुर्याद्वरदं वा यथारुचि।। 17.81 ।।
दक्षिणोत्तरयोर्भित्त्यौः परिवारा यथापुरम्।
रामस्य भ्रूप्रदेशान्तं भरतं परिकल्पयेत्।। 17.82 ।।
लक्ष्मणं च कपोलान्तं चुबुकान्तमथापि वा।
शत्रुघ्नं कण्ठमध्यान्तं सर्वे चापशरान्विताः।। 17.83 ।।
भङ्गादयश्च तद्वत्स्युः केश (35) बन्धसन्विताः।
मुखद्विगुणा (36) याममध्यर्धं वा समुन्नतम्।। 17.84 ।।
(35. वर्म.) (36. यामं मध्यं भाह्वोः)
केशबन्धो भवेदेषां श्रीवत्सरहिता स्तथा।
वामं यष्टिधरं हस्तं दक्षिणं भरतस्य वा।। 17.85 ।।
वामं देव्या भुजे न्यस्तं स्वातन्त्ये परिकल्पयेत्।
शत्रुघ्नो लक्ष्मणश्छापि स्वातन्य्रै भरतो यथा।। 17.86 ।।
भरतश्श्यामलाकारो लक्ष्मणः कनकप्रभः।
शत्रुघ्नो रक्तवर्णाभश्श्रीमल्लक्षणसंयुतः।। 17.87 ।।
माण्‍डवी भरतस्य स्यादूर्मिला लक्ष्मणस्य तु।
श्रुतकिर्तिर्भवेद्धेवी शत्रुघ्नस्याम्बुजासन।। 17.88 ।।
सीता श्रीरिव कर्तव्या कल्याणबहुलक्षणा।
करण्डिकामौलिधरा (37) कबरीवालकै र्युता।। 17.89 ।।
(37. कबलीजालकै)
बिभ्राणा वामहस्तेन नरसीरुहकुट्मलम्।
ऊरुप्रदेशविश्रान्तवामेतरभुजाऽथवा।। 17.90 ।।
(38) ऊरुप्रदेशविश्रान्तसव्यहस्तसरोरुह।
सव्येत रेण बिब्राणा (39) रक्तकञ्चुकबन्धना।। 17.91 ।।
(38. जानुप्रदेश.) (39. रक्तपज्कजकुट्मलम्.)
हिरण्यवर्णा सीता स्यान्माण्डवी पाटलप्रभा।
ऊर्मिला श्यामवर्णाभा श्रुतकीर्तस्सितप्रभा।। 17.92 ।।
(40) धम्मिल्लसंयुता देव्यो (41) भरतादेश्चतुर्मुख।
हनूमान्वारनाकारः कर्तव्यो हेवसन्निभः।। 17.93 ।।
(40. संपूल्लसंयुता देव्यो रक्तवेषाः) (41. रक्तदेहाः।)
कुञ्चिताग्रमहावालं प्रह्वकायमवस्थितम्।
आस्यं पिधाय हस्तेन दक्षिणेनेतरेण तु।। 17.94 ।।
वस्त्रप्रदेशमाच्छाद्य विनीतपदवस्थितम्।
केशबन्धयुतं कुर्यादुच्छ्रायस्तस्य वक्ष्यते।। 17.95 ।।
रामस्य बाहुपर्यान्त (42) मुन्मानं त्य्रंशमेव वा।
(42.मुपानत्त्य्रंश)
अर्धं वा पादमथवा यथाविभवमुन्नतिः।। 17.96 ।।
सुग्रीवं वानराकारं रामबाहुसमुच्छ्रयम्।
(43) प्राञ्जलिं वेत्रसहितं स्थितं मुकुटधारिणम्।। 17.97 ।।
(43. साञ्जलिं वस्त्रं)
हारादिभूषणै र्युक्तं कुर्यात्कनकपिङ्गलम्।
अङ्गदं वानराकारं राममानार्धमुन्नतम्।। 17.98 ।।
कृताञ्जलिपुटं वेत्रक्षुरिकामौलिधारिणम्।
केशबन्धयुतं वापि बन्धुजीवसमद्युतिम्।। 17.99 ।।
विभीषणं महाकायं घोरं कालायसप्रभं।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।। 17.100 ।।
रक्ताक्षं मुकुटोपेतं कृताञ्जलिपुटं स्थितम्।
रामस्य बाहुपर्यन्तं समुच्छ्रायं प्रकल्पयेत्।। 17.101 ।।
कृतांजलिपुटं सौम्यं निषादाधिपतिं गुहम्।
नील (44) नीरद सङ्काशं राममानार्धमुन्नतम्।। 17.102 ।।
(44.जीमूत.)
स्वातन्त्य्रं पारतन्त्य्रं च रघवस्योभयं भवेत्।
दिव्ये भागेऽथवा ब्राह्मे गर्भगेहे स्थितो यदि।। 17.103 ।।
स्वतन्त्रो राघवः प्रोक्तः पदे पूर्वोदिते यदि।
चतुर्भुजो गर्बगेहे (45) कल्पितः कमलासन।। 17.104 ।।
(45. विशेषात्.)
पश्चाद्विमानशोभार्थं कल्पितः परवानयम्।
स्वतन्त्रे राघवे भिम्भान् कर्माद्यर्थं प्रकल्पयेत्।। 17.105 ।।
अन्यांस्तत्सदृशं रामं लक्ष्मणं जनकत्मजाम्।
सिंहासने सहैकस्मिन् प्रभया च (46) परिष्कृतान्।। 17.108 ।।
यद्वा चतुर्भुजान्कुर्या (47) त्कर्माद्यर्चां चतुर्मु।
(46. विशेषात्.) (47. परिष्कृतम्.)
दौवारिकांश्च स्वातन्य्रै कल्पयेद्द्वारपार्श्वयोः।। 17.109 ।।
नलं च दक्षिणे पार्श्वे जाम्बवन्तं तथोत्तरे।
जाम्बवान् स्वर्णवर्णाभो नलश्शुक्लसमप्रभः।। 17.110 ।।
क्षुरिकावेत्रहस्तौ च बद्धनल्याणकञ्चुकौ।
नीलं (48) सेनापतिं कृत्वा विष्वक्सेनपदे न्यसेत्।। 17.120 ।।
(48. सेनापतिं चापि.)
गुहो वा तत्र संस्थाप्यो विष्वक्सेनोऽथवा स्वयम्।
रामस्य पुरतः कल्प्यः मारुतिर्मुखमण्डपे।। 17.121 ।।
गरुडो वा यथापूर्वं परिवारान् प्रकल्पयेत्।
रामस्य बलभद्रस्य लक्षणं वक्ष्यतेऽधुना।। 17.122 ।।
द्विभुजं धवलं दिव्ये भागेऽथ परिकल्पयेत्।
मुसलं लाङ्गलं चैव प्रसव्येतरहस्तयोः।। 17.123 ।।
बिभ्राणमथवा न्यस्तवामहस्तं कटिस्थले।
दक्षिणाभयदं यद्वा चतुर्भुजमुदायुधम्।। 17.124 ।।
हलं च दक्षिणे हस्ते वामे च मुसलायुधम्।
धारयन्तं विभुं निलवसनं शङ्खचक्रिणम्।। 17.125 ।।
किरीटिनं बद्धकेशमथवा वामपार्श्वतः।
रेवतीं कल्पयेद्देवीं दक्षिणे वा यथारुचि।। 17.126 ।।
करण्डिकामकुटिनीमथवा कबरीधराम्।
असितां पारतन्त्र्य च स्वातन्त्र्य च यथापुरम्।। 17.127 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे मत्स्यादिमुर्ति लक्षणं नाम
सप्तदशोध्यायः


*************-------------