प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ज्ञानपादः
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
ज्ञानपादस्य अध्यायाः

श्रीरस्तु
श्रीमते रामानुजायनमः
पाद्मसंहितायां ज्ञानपादः
आसीनमाश्रमे कण्वं कण्वाश्रमनिवासिनः।
निश्रेयसकरं कर्म प्रष्टुमारोभिरो मुनिम्।। 1.1 ।।
ऋषयः---
अधीताः कण्व भगवन् साङ्गो पङ्गास्सवितुराः।
वेदास्त्वत्त(1) स्तदर्थानि शास्त्राणिच यथातथम् ।। 1.2 ।।
(1. समस्तानि)
एतेषु यदधीतेषु कैवल्यायनकल्पते।
कारणं तदपि त्वत्तश्श्रोतव्यं नान्यथागतिः।। 1.3 ।।
कण्वः---
श्रूयतां मुनयस्सर्वै यथापूर्वं मया श्रुतं।
उपसङ्गम्य संवर्तमृषिमर्कमिवापरम्।
प्रदीप्तमेतमेवार्थं पृष्टवानभिवाद्यतम्।। 1.4 ।।
शृरण्वतां स महर्षीणां संवर्त(2) स्सर्ववित्स्वयं।
(2. पा. स्संयतस्स्वयम्)
मह्यं शुश्रूषमाणाय प्रत्युवाच यथातथम्।। 1.5 ।।
संवर्तः--
अधीतास्सकलावेदा स्साङ्गोपङ्गास्सविस्तराः।
इतिहासपुराणानि वाकोवाक्य युतानिच।। 1.6 ।।
श्रुतानि तेषु सर्वेषु दृश्यन्ते सर्वदेवताः।
स्वतन्त्राः फलमप्येषु स्वर्गादन्यन्न दृश्यते।। 1.7 ।।
विविधानि च शास्त्राणि न तर्काश्च प्रतिष्ठिताः।
अपवर्गफलोपायं न च पश्यामि कुत्तचित्।। 1.8 ।।
श्रुतिरेव च तस्यापि प्रमाणमिति शश्रुम।
निश्चयं नाधिगच्छामि मनसा विमृशन्नपि।। 1.9 ।।
ततोऽहं भृशनिर्विण्णस्सन्तप्तहृदयस्तथा।
सिद्धाश्रमं समासाद्य द्रुहिणं समपूजयम्।। 10 ।।
अत्युग्रं तप आतिष्ठं ततः प्रीतः प्रजापतिः।
ऋषिभिर्दैवतैस्सार्धं स्वयमागान्मदन्तिकम्।। 1.11 ।।
ब्रह्माः---
वरं वृणीष्व भद्रं तेयत्ते मनसि वर्तते।
वरार्थिनां द्विजश्रेष्ठ दर्शनं वरदं मम।। 1.12 ।।
संवर्तः---
इत्युक्तोऽहं भगवता प्रत्यवोचं कुताञ्जलिः।
ज्ञानं भवतु मे शुद्धं निस्संशयमनाकुलम्।। 13 ।।
येन सांसारिकं दुःखं तरामि ज्ञानवर्त्मना।
इत्युक्तो देवदेवस्तु प्रहसन्निदमब्रवीत्।। 1.14 ।।
ब्रह्माः---
शृणु विप्र प्रवक्ष्यामि सिद्ध्युपाय मनामयम्।
श्रुतिरेव द्विजातीनां निश्श्रेयसकरी परा।। 1.15 ।।
यतो वै श्रुतिमन्त्रेण नित्यमाराधयन् हरिम्।
कैवल्यं परमं प्राप्तो न भूयस्संसरेदिह।। 1.16 ।।
संवर्तः----
भगवन् केन(3) शास्त्रेण देन आराध्यते परः।
कीदृश(4)स्तु परो देवो विधिः को वा तदर्चने।। 1.17 ।।
(3. मन्त्रेण )(4. कीदृशः परमोदेवो)
ब्रह्माः---
वैष्णवं शासनं श्रुद्धमच्छिद्रं पापनाशनम्।
हितार्धं सर्वदेवानामादिदेवेन चोदितम्।। 1.18 ।।
चतुष्पादसमायुक्तं चतुर्वर्गफनप्रदम्।
तेन शास्त्रविधानेन समाराधय केशवम्।। 1.19 ।।
तच्छास्त्रं श्रुतवान् मत्तः कपिलो मुनिपुङ्गवः।
मच्छासनात्तु पातालं तत्समीपमितो प्रज।। 1.20 ।।
संवर्तः---
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवा न्तरधीयत।
पातालगमनार्थाय पुन (5) स्तप्तं तपोमया।। 1.21।।
(5. स्वतस्तप्तं)
तपोबलेन पातालं प्रनिशन्नागपालितम्।
तत्रापश्यं सुखासीनं नागेशैः(6) परिवारितम्।। 1.22 ।।
(6. कपिलंवृतं)
अवोचं कपिलं विष्णुं दण्डवत् प्रणतः क्षितौ।
जम्बूद्वीपादुवृत्तस्संवर्तोहं प्रसीदमे।। 1.23 ।।
विद्धि मां भगवन् विष्णो प्राप्तं द्रुहिणशासनात्।
ज्ञानयोगक्रियाचर्या मृग्यते यन्महर्षिभिः।। 1.24 ।।
तदशेषेण विदितं भवविध्वंसनं तव।
संसारापारपाथोधिमग्नं मां भृशदुःखितम्।। 1.25 ।।
त्रायस्व भगवन्नार्तं कृपया परयाविभौ।
त्वदृतेऽन्योन वेत्तास्य मोक्षोपायस्य(7) वर्त्मनः।। 1.26 ।।
(7. दर्शकः)
इत्युक्तः कपिलो देवः(8) प्रसादात्पद्मजन्मनः।
पार्श्वस्थं पद्ममालोक्य प्रसीदन्निदमब्रवीत्।। 1.27 ।।
(8.प्रसादाभिमुखस्तदा)
कपिलः---
हे पद्म नागराजेन्द्र जन्मविध्वंसहेतुकम्।
महोपनिषचं सर्वं श्रुतवानसि मन्मुखात्।। 1.28 ।।
श्राव्यतां सकलं चायं संवर्तो वेदपारगः।
ज्ञानानां परमं ज्ञानं साक्षा (9) द्देवसमाश्रितम्।। 1.29 ।।
(9.द्वेद)
सात्विकं देव देवस्य समाराधनकर्मजम्।
मोक्ष्यमाणैश्च सततं मृग्यमाणं दुरासदम्।। 1.30 ।।
संवर्तः---
उक्तेन कपिलेनैवं पद्माख्येन महात्मना।
उदितं (10) यन्महच्छास्त्रं तत्सर्वं प्रब्रवीमिते।। 1.31 ।।
(10. ईरितं)
सार्धकोटिप्रमाणेन (11) ब्रह्मणाकेशवाच्च्रुतम्।
कपिलाय ददौब्रह्मलक्षाणां प़ञ्चकंपुनः।। 1.32 ।।
(11.प्रमाणंतत्)
कपिलोऽपिचमद्माय प्रीददौ लक्षमात्रया(12)।
पद्मोऽपि(13) दत्तवान्मह्य मयुतग्रन्धसङ्ख्यया।। 1.33 ।।
(12.संख्यया) (13.प्रददै)
यस्मात् पद्मो पदिष्टेयं तस्मात्सा पाद्मसंहिता।
मोक्षैकफलदं धर्ममाद्यमस्मिन् प्रजा{14} पते।। 1.34 ।।
(14.यते)
तेनै वाद्येन धर्मेण (15) ब्रह्मालोक पितामहः।
आराधयन् महादेवं हरिं नारायणं(16) परम्।। 1.35 ।।
(15.सततं) (16. प्रभुं)
यज्ञेन यज्ञं यष्टव्यं यजन्त इतिचश्रुतिः।
आद्यं (17) धर्मं समास्थाय ये यजन्ते विचक्षणाः।। 1.36 ।।
(17.इमं)
ते यान्ति वैष्णवंस्थानं पुनरावृत्तिवर्जितम्।
एवं सर्वेषुकुर्वत्सु मानवेषु मुमुक्षुषु।। 1.37 ।।
सृष्टिक्षयो महानासी न्नारकी भूस्तृणावृता।
पञ्चकालपरास्सर्वे सर्वेचभगवन्मयाः।। 1.38 ।।
नान्यं यजन्तेध्यायन्ति ऋते नारायणान्नराः।
एवं कार्तयुगेधर्मे वर्तमाने महामुने।। 1.39 ।।
लोककर्तास्वयं ब्रह्मा नारायणमुपागमत्।
तुष्टावच हृषीकेशं पुण्डरीकाक्षविद्यया।। 1.40 ।।
भूमौ दण्डप्रणामंच कृत्वातूष्णीं व्यतिष्ठत।
श्रीभगवान्---
लोकाः किन्नानुवर्तन्ते शासनं तवशाश्वतं।
ब्रह्मन् तवाधिकारोवा प्राप्यते किन्नुराक्षतैः।। 1. 41।।
तदीयंवापदंप्राप्तुं नतपस्यन्ति किंसुराः।
इत्युक्तो देव देवेन प्रत्यभाषतपद्मभूः।। 1.42 ।।
ब्रह्माः----
भगवन् भूतभव्येश ममश्रेय सि जाग्रति।
त्वयि सर्वत्रकुशलं वतर्ते सार्वकालिकम्।। 1.43 ।।
किन्तु वक्ष्यामि देवेश श्रद्दधाना जितेन्द्रियाः।
महारहस्यमास्थाय यजन्तेसर्वमानवाः।। 1.44 ।।
ते यान्ति वैष्णवंस्थानं पुनरावृत्तिवर्जितम्।
सस्वर्गोनापि नरकोन जन्ममरणे उभे।। 1.45 ।।
संवतन्---
इत्युक्तो ब्रह्मणादेवः शङ्खचक्रगदाधरः।
पार्श्वस्थं रुद्रमालोक्य व्याजहार स्वयंहरिः।। 1.46 ।।
श्रीभगवन्---
षट् प्रकाराणि तन्त्राणि त्वद्दैवत्याशङ्कर।
परस्वरविरुद्धानि कुरुष्व त्वं यथातथम्।। 1.47 ।।
अवतारैश्च बहुभिर्मत्स्यादिभिरहं पुनः।
त्वत्प्रणीतानिशास्त्रणि स्थापयामि महीतले।। 1.48 ।।
अल्पाया सेनसुलभं भूयिष्ठं फलमद्भुतम्।
षट् प्रकारेचशास्त्रेऽस्मिन् दर्शय स्थेम (19) कारणम्।। 1.49 ।।
(19. क्षेम)
योगशास्त्रस्य कर्तृत्वेविरिञ्चोऽधिकरिष्यति।
साङ्ख्यस्यचापिनिर्माणे कपिलोऽधिकरिष्यति।। 1.50 ।।
बुद्धमूर्तिं समास्थाय बुद्धशास्त्रं सृजाम्यहम्।
ज्ञानापह्नवनिष्णातां ज्ञातृज्ञेयापलापिच।। 1.51 ।।
आर्हतीं मूर्तिमास्थाय शास्त्रं शास्मि तथार्हतः।
पञ्चरात्राभिधं शास्त्रं मयापूर्वं कृतंकिल।। 1.52 ।।
कापालं शुद्धशैवं च तथा पाशुपतंत्रयम्।
कुरुष्वत्रीणिशास्त्राणि लोकानां मोहनायवै।। 1.53 ।।
शास्त्राणि मत्प्रणीतानि भवद्भिर्व्याकृतानिच।
आभूतसंप्लवं लोकेस्थास्यन्ति मम शासनात्।। 1.54 ।।
भाढमित्येवतेसर्वे प्रणिपत्याब्रुवन् हरिम्।
कृतकृत्यस्तदाब्रह्मा सार्धं देवैस्स्वमालयम्।। 1.55 ।।
जगाम सिद्धगन्धर्व चारणादिभिरर्चितः।।
संवर्तः----
पञ्चरात्रेणतुल्यानि तदा प्रभृतिवैमुने।
शैवादीनचशास्त्राणि प्रथन्ते शासनाद्धरेः।। 1.56 ।।
वैष्णव्यामाययालोके प्रचपन्तिनिरङ्कुशाः।
शैवादयोपि समयास्तत्र तत्र प्रतिष्ठिताः ।। 1.57 ।।
पञ्चेतरे पञ्चरात्रमदूषितमपि स्वयं।
दूषयन्त्येव सृष्टत्वात् तद्धूषयितुमीश्वरैः।। 1.58 ।।
पाषण्‍डेषु निरस्तेषु हेतुवादानुकूलता।
जायते विष्णुमायाभिः पतितानां दुरात्मनां।। 1.59 ।।
नास्तिकानिन्दकाजाताः व्याधिभिः परिपीडिताः।
जायन्ते चम्रियन्ते च पच्यन्ते निरयोष्वपि।। 1.60 ।।
स्वर्गेषु च वतन्त्यन्ये मायामलिनचेतसः।
तरन्तिचभवाम्भोधिं माययाये बहिष्कृताः।। 1.61 ।।
आलोड्यसर्वशास्त्राणि विचार्य च पुनः पुनः।
नारायणामृतध्यानमुशन्ति ब्रह्मवादिनः।। 1.62 ।।
ब्राह्मणस्सर्ववर्णेषु यतिश्चाश्रमिषूत्तमः।
यद्यद्गङ्गा चतीर्थेषु दैवतेष्वपिचाच्युतः।। 1.63 ।।
तद्वत्सर्वेषु शास्त्रेषु पञ्चरात्रं प्रशस्यते।
पञ्चरात्रो क्तवधिना यस्समाराधयेद्धरिं।। 1.64 ।।
कैवर्यं परमंप्राप्तो न भूयस्संसरेदिह।
अक्षय्यं फलमाप्नोति स पुमान्नात्र संशयः।। 1.65 ।।
कल्याणकारिण स्तस्य पितरस्स्वर्गवासिनः।
ब्रह्मलोके पि पूज्यन्ते का कथा नरकार्णवे ।। 1.66 ।।
मन्त्रैश्च वैष्णवैर्दत्तं हव्यं वा कव्यमेन वा ।
तदक्षयं भवेत्तेन तृप्यन्ति पित्रृ देवताः।। 1.67 ।।
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः।
वैष्णवोजायते येषामन्वयेषु महामतिः।। 1. 68 ।।
पाञ्चरात्रोक्तवधिना वासुदेवं समाश्रितः।
नारायणामृतध्यान निरस्ताशेषविप्लवः।। 1.69 ।।
एतच्चास्त्रं च दातव्यं शिष्यायानभ्यसूयवे।
मोक्षमाणाय नान्यस्त्मे कस्त्मेच यदृच्छया।। 1.70 ।।
त्रयीनिष्ठाय दातव्यमध्येतव्यं च वेदवत्।
महोपनिषदाख्यस्य शास्त्रस्यास्य महामते।
पञ्चरात्रसमाख्यासौ कथंलोके प्रवर्तते।। 1.71 ।।
संवर्तः---
पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि।
तत्सन्निधौसमाख्यासौ तेन लोके प्रवर्तते।। 1.72 ।।
चन्द्रतारागणं यद्वच्छोभते नैव वासरे।
तथेतराणि शोभ न्तेपञ्चनैवास्य सन्निधौ।। 1.73 ।।
पञ्चत्वमथवा यद्वद्धीप्यमाने दिवाकरे।
ऋच्छन्तिरात्रय स्तद्वदितराणि तदन्तिके।। 1.74 ।।
इदं पवित्रं पापघ्नं शास्त्रं भवविनाशनं।
संसारार्णवमग्नानां कर्मपाशानुपेयुषां।। 1.75 ।।
महापोतेन सदृशं तारकं भवसागरात्।
ऋगादिभेदवत् तन्त्रचातुर्विध्यं---
ऋगादिसंज्ञया वेदश्चतुर्दा भिद्यतेयथा।। 1.76 ।।
तद्वत्सिद्धान्तभेदेन पञ्चरात्रं चतुर्विधं।
ऋगादयो यथा चैकं भिद्यते भहुशाखया।। 1.77 ।।
तथा सिद्धा न्तमेकेकं वक्तृभेदेन भिद्यते।
सिद्धान्तं नामचान्वर्थं निराहुरिति वण्‍डिताः।। 1.78 ।।
मीमांसादिषु शास्त्रेषु ये सिद्धार्थामनीषिणः।
तेषामन्तेऽधिकारोस्मिन्निति सिद्धंत संज्ञितं।। 1.79 ।।
सिद्धान्तभेद निरूपणं----
एकमूर्तिप्रधानंतु मन्त्रसिद्धान्तमुच्यते।
चतुर्मूर्तिप्रधानंतु यत्तदागमसंज्ञितं।। 1.80 ।।
सिद्धान्तमुच्यतेसद्भर्द्वतीयं लोकविश्रुतं।
नवमूर्तिप्रधानंच तन्त्रसिद्धन्तमुच्यते।। 1.81 ।।
चतुर्वक्त्रे त्रिवक्त्रे वा देवे यत्रार्चनाविधिः।
तत्तन्त्रान्तवमिष्टं स्यात्तन्त्रमेतच्चतुर्विधं।। 1.82 ।।
चतस्रः कथिताः पूर्वं वासुदेवादय स्तथा।
नारायणो हयग्रीवो विष्णु र्नृहरिसूकरौ।। 1.83 ।।
तन्त्रसङ्क र्येदोषः---
साङ्कर्यं नतु कुर्वीत सिद्धान्तेषु परस्परं।
यदि सङ्करतो मोहात् राजाराष्टंच नश्यति।। 1.84 ।।
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता।
तेनैव सकलं कर्म कुर्यात्तन्त्रविभागवित्।। 1.85 ।।
तत्तन्त्रान्तरमिष्टं स्यात् सर्वे सर्वफलप्रदाः।
तेष्वयं मन्त्रसिद्धान्तः पाद्मसंज्ञो भिधीयते।। 1.86 ।।
एकैकवक्तृ भेदेन सिद्धान्ता भहुधास्मृताः।
पङ्ग्रहो विस्तरश्चैव तन्त्राणां प्रकटीकृतः।। 1.87 ।।
(20) सिद्धान्ते मन्त्रसंसिद्धै श्शिष्याणां हितकाम्यया।
तन्त्राणांचैवसर्वेषां वक्ता नारायणस्स्वयम्।। 1.88 ।।
(20. सिद्धाद्यैर्मन्त्रसिद्धाने)
अनुग्रहार्थं भक्तानां श्रावयामास चस्वयम्।
श्रोतारोमूर्तिभेदाश्च मुनयश्च पितामहः।। 1.89 ।।
प्रयोजनं च शास्त्रस्य मोक्षः प्रकृतिदुर्लभः।
अभिधेयं भगवतस्समाराधनमुत्तमम्।। 1.90 ।।
सम्बन्धो पीष्यते सद्भि स्साध्य साधन लक्षणः।
श्रुतिमूलमिदंतन्त्रं प्रमाणं कल्पसूत्रवत्।। 1.91 ।।
सर्गे सर्गे प्यविच्छिन्नं देवदेवस्यशासनात्।
चिन्तामणिर्यथा लोके शबला कल्पकद्रुमः।। 1.92 ।।
अर्थिभ्यो वाञ्छितं सर्वं प्रयच्छति गतिं विना।
पञ्चरात्राख्य(21) शास्त्रंतु चतुर्वर्गफलप्रदम्।। 1.93 ।।
(21 . रत्नं)
शास्त्रान्तरव्यसनिनामभ्यासः कालयापनम्।
फलं वा किङ्चि (22) देवस्सात् यत्तत्साधुबहिष्कृतम्।। 1.94 ।।
(22. देवास्य-देवस्यात्)
वासुदेवं परित्यज्य येऽन्यं देवमुपासते।
नरकाय भवन्येते नात्रकार्या विचारणा।। 1.95 ।।
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।
वेदशास्त्रात्परंना स्ति नदैवं केशवात्परं।
तस्माद्भजस्व देवेशं विधिनानेनवै मूने।। 1.96 ।।
कण्वः---
कति भेदानि तन्त्राणाम् नामधेयानि कानि वा।
श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलंहिमे।। 1.97 ।।
108 संहितानाम् नामानि.
संवर्तः----
शतमेकमथाष्टौ च पुराणे कण्व शुश्रुम।
नामधेयानिचै तेषाम् श्रूयताम् कथ्यते मया।। 1.98 ।।
पाद्मम् पद्मोद्भवम् मायावैभवम् नलकूबरम्।
त्रैलोक्यमोनम् विष्णुतिलकम् परमाह्वयम्।। 1.99 ।।
नारदीयम् धनदीयम् वासिष्ठम् पौष्क राह्वयम्।
सनत्कुमारं ससकं सत्याख्यं विश्वसंहिता।। 1.100 ।।
अनन्ताख्यं महीप्रश्नं श्रीप्रश्नं पुरुषोत्तमम्।
माहेन्ध्र संहितापञ्च प्रश्नाख्यं तत्वसागरम्।। 1.101 ।।
(23) वागीशम् सात्वतंचैव(24) द्रविणं श्रीकराह्वयम्।
सांवर्तं विष्णुसद्भावं सिद्धान्तं विष्णुपूर्वकम्।। 1.102 ।।
(23. वासिष्ठं) (24. तेजौद्रविणं)
विष्णुतन्त्रं च कौमारं (25) तथाहिर्बुध्न्यसंहिता।
विष्णुवैभविकं सौरं सौम्य मीश्यरसंहिता।। 1.103 ।।
(25. गहस्यंविष्णुपूर्वकं)
अनन्ताख्यं भागवतं जयाख्यं मूलसंहिता।
पुष्टितन्त्रं शौनकीयं मारीचं दक्षसंहिता।। 1.104 ।।
औपेन्द्रं योगहृदयं हारीतं पारमेश्वरम्।
आत्रेयं मान्दरं विष्वक्तेवमौशनसाह्वयम्।। 1.105 ।।
वैखानसं विहज्गेन्द्रं भार्गवं परपूरुषम्।
याज्ञवल्क्यं गौतमीयं पौलस्त्यं शाकलाह्वयम्।। 1.106 ।।
ज्ञानार्णवं जामदग्न्यं याम्यं नारायणाख्यकम्।
पाराशर्यं च जाबालं कापिलं वामनाह्वयम्।। 1.107 ।।
जयोत्तरं भार्हस्पत्यं जैमिनं सात्वताह्वयम्।
कात्यायनीयं वाल्मीक मौपगायनसंहिताः।। 1.108 ।।
हैरण्यगर्भमागस्त्यं काण्वं बोधायनाह्वयम्।
भारद्वाजं नारसिंहं गार्ग्यमुत्तरपूर्वकम्।। 1.109 ।।
शातातपं चाङ्गिरसं काश्यपं पैङ्गलाह्वयम्।
त्रैलोक्यं विहयंयोगं वायवीयं च वारुणम्।। 1.100 ।।
(26) कृष्णं चाम्भरमाग्नेयं मर्कण्डेयस्य संग्रहः।
महासवत्कुमाराख्यं व्यासाख्यं विष्णुसंहिता।। 1.111 ।।
(26. कृष्णचामर)
मार्कंडेयं पारिषदं (27) ब्रह्मनारदसंहिता।
संवादंशुकरुद्राभ्यामुमामाहेश्वराह्वयम्।। 1.112 ।।
(27. ब्रह्मन्नरकसंहिता)
दत्तात्रेयं च शर्वाख्यं वाराहमिहिराह्वयम्।
सङ्कर्षणाख्यं प्रद्युम्नं वामनं (28) कल्कि राघवम्।। 1.113 ।।
(28. कलिराघवौ.)
प्राचेतसाख्यमित्येते शतमष्टोत्तरं स्मृतम्।
एतानि तन्त्र नामानि मयोक्तानि महामते।। 1.114 ।।
(29) तन्त्रास्त्वनेके भोध्यन्ते मुक्त्युपायाः पृथक्पृथक्।
इति तन्त्रं समाख्यातं शास्त्रमेव मनीषिभिः।। 1.115 ।।
(29.पा. मस्त्रसै योन भौध्यनै.)
तन्त्राणां नामधेयानि यो नित्यं पठते नरः।
सर्वपाप विनिर्मुक्तौ याति ब्रह्म सनातनम्।। 1.116 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम्
ज्ञानपादे शास्त्रावतारकम् नाम प्रथमोऽध्यामः


******------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_१&oldid=206919" इत्यस्माद् पुनः प्राप्तिः