ज्ञानपादः/अध्यायः ६
← अध्यायः ५ | ज्ञानपादः अध्यायः ६ [[लेखकः :|]] |
अध्यायः ७ → |
ज्ञानपादस्य अध्यायाः |
---|
पाद्मसंहितायाम्
षष्ठोऽध्यायः।
ब्रह्माः----
सर्वतः पाणिपादादि ब्रह्मणो रूपमिरितम्।
अरूपस्यापि तत्सर्वं कथयस्व यथातथम्।। 6.1 ।।
भगवतस्सर्वतः पाणु पादादित्य निर्वचनम्।
श्रीभगवान्----
चराचरमिदं कृत्स्नमाक्षिप्तं परमात्मना।
यतस्तत्सर्वपाणित्वं तस्य लक्षणमुच्यते।। 6.2 ।।
देशकाला विशेषेण संयुक्तं परमेष्ठिना।
यौगपद्येन सततं सर्वतः पात्प्रभुस्तृतः।। 6.3 ।।
तिर्यगूर्द्वमधश्चोच्चैर्गत्वा भासयते जगत्।
रविर्यथा तथा कृत्वा विश्वतश्चक्षुरुच्यते।। 6.4 ।।
सर्वं पुरस्थ्सितं तस्य वस्तुजातं यत स्ततः।
विश्वतो मुखता तस्य ब्रह्मणः कमलासन।। 6.5 ।।
ज्ञानेन्धियाणि सर्वाणि श्रूयन्ते शिर उत्तमम्।
तथा ज्ञानाश्रयत्वेन ज्ञेयस्सर्वशिराः प्रभुः।। 6.6 ।।
विदूरमविदूरस्थं तथा व्यवहितेतरे।
शृणोति शब्दसङ्घातं तेनासौ सर्वतश्श्रवाः।। 6.7 ।।
भिन्नो वह्निरयः पिण्डादभिन्न इन दृश्यते।
तद्वद्व्यक्ताद्भहिर्भूतो व्यक्तमावृत्य तिष्ठति।। 6.8 ।।
(1) आदर्शे निर्मले यद्वदन्तस्था प्रतियातना।
दृश्यते तत्र तद्वत्स्याद्विभोरव्यक्तरूपता।। 6.9 ।।
(1.आदर्शो निर्मलो यद्वन्मलिनेन तिरोहितः)
नेन्द्रियाधीनविज्ञानो रूपादिषु चतुर्मुख।
भगवानमुतो हेतोस्सर्वज्ञः कथतो बुधै।। 6.10 ।।
परमेण महत्वेन संयोगात्परमात्मनः।
व्यापित्वमुच्यते विष्णोरीश्वरस्य (2) मनीषिभिः।। 6.11 ।।
(2. महर्षिभिः)
अनादित्व मजत्वेन तथै वानन्तता विभोः।
परोक्षत्वेन सर्वेषामपदित्युच्यते नृभिः।। 6.12 ।।
असंविद्वषयो ब्रह्मन् गन्धः पुष्पादिके यथा।
त्रिभिर्गुणैरबद्धोपि बद्धवत्तेषु तिष्ठति।। 6.13 ।।
यथा पुष्कारपर्णेषु स्वच्छमम्भः प्रतिष्ठितम्।
अन्तर्बहिरभिव्याप्य तिष्ठित्येको महार्णवे।। 6.14 ।।
निमग्नस्येव कुम्भस्य बहिरन्तरपां स्थितिः।
परक्षेत्रक्षयोरैक्यमात्मनो श्श्रुतिचोदितम्।। 6.15 ।।
क्षेत्रक्षस्यास्यबाहुल्यं देहभेदात्प्रतीयते।
एकस्यैवहि बिम्भस्य दर्पणेषु यथा तथा।। 6.16 ।।
भूतादि पञ्चपङ्घातं क्षेत्रं तत्र व्यवस्थितः।
जीवोयस्तं विदुः प्राज्ञाः क्षेत्रज्ञं परसंज्ञितम्।। 6.17 ।।
अबुद्धिबोध्यमस्पष्टं (3) व्यक्तस्योपरि विष्ठितम्।
परात्परतरं विषुं सूरयो ज्ञानचक्षुषा।। 6.18 ।।
(3.अव्यक्तोपरि.)
विदन्तिन तमज्ञानात् ज्ञानगोचरमक्षरम्।
परस्य व्यापिनो देहचलनाद्या न विभ्रमः।। 6.19 ।।
यथा घटस्थमाकाशं नीयमाने घटे मतिः।
यातीति वस्तुतो नैव भेदौस्ति परजीवयोः।। 6.20 ।।
पद्मपत्रसहस्रेषु सूचीभिन्नेष्वनु क्रमात्।
सूक्ष्मत्वात्कालभेदस्तु यथा नैवोपलभ्यते।। 6.21 ।।
तथैव परमात्मायां (4) नाम्नाणुः परिकीर्तितः।
दूरस्थमज्ञाः पश्यन्ति हृत्वद्मे विष्ठितं सदा।। 6.22 ।।
(4. विज्ञानात्. विज्ञातः)
वितत्य वायुराकाशं यथैक स्तिष्ठति प्रभुः।
तथा चराचरं विश्वं व्याप्य तिष्ठत्यजस्स्वयम्।। 6.23 ।।
(5) स्रष्टुं संहर्तुमीशानो रश्मीनभ्युदितो रविः।
यथा तथा जगत्सर्वं स्रष्टु हर्तुं प्रभुर्हरिः।। 6.24 ।।
(5. क्वचित् कोशे अयं श्लोकः `स्वंपरम्' इत्यस्मादनन्तरं दृश्यते. `वर्णैः' इत्याद्यर्द्धंच ना स्ति.)
स्वं परं चापि विषयं प्रकाशयति चिद्घनः।
यथा प्रदीपस्स्वस्यापि घटादेश्च प्रकाशकृत्।। 6.25 ।।
वर्णैस्सितादिभिर्हीनस्त द्वद्भासयते (6) हरिः।
षड्भिर्गुणै रन्वित त्वात् ज्ञानादिभिरनव्यगैः।। 6.26 ।।
(6. तद्वानध्यास्यते)
भगवान् कथितस्सद्भिः परमात्मा जगन्मयः।
दध्नि सर्पि स्तिले तैलं माधुर्यं च गुडादिषु।। 6.27 ।।
अभिन्नं तस्वतो द्वव्यादमूर्तं तत्र च स्थितम्।
उपलम्भन (7) सामर्थ्याद्दृश्यते न तदीक्ष्यते।। 6.28 ।।
(7.सान्निद्यात्.)
अजोप्यमूर्तस्स र्वेषामन्तरात्मा परः पुमान्।
ज्ञानिनांभावनायोगादुपलभ्धिपथं गतः।। 7.29 ।।
ब्रह्माः---
चराच रेषु सर्वेषु यद्वस्तु व्याव्य विष्ठितम्।
(8) अमूर्तमपृथग्भूतं स्वसं वेद्यं विदन्ति के।। 6.30 ।।
(8. अमूर्तं च पृथग्भूतम्.)
विद्ययाभगवन्मह्यं तानाचक्ष्व यथातथम्।
पञ्चरात्रविधिदीक्षितानां विष्णुमायो त्तरणम्।
श्रीभगवान्----
पञ्चरात्रोक्तमार्गेण यो दीक्षां चक्रम़ण्डले।
कृत्वा समर्चनं विष्णोः द्विषट्काक्षरविद्यया।। 6.31 ।।
आराधयन्ति शास्त्रोक्तविधिना देशिकोत्तमाः।
तेषां हृदम्बुजे साक्षादावि (9) रासैपरः पुमान्।। 6.32 ।।
(9. रस्मि. )
तरन्ति विष्णुमायां ते न तरन्तीतरे जनाः।।
ब्रह्माः---
वस्तु (10) साक्षात्कृतं कीदृग्लक्षणं तस्य कीदृशम्।
भगवन् कथ्यतां सर्वं मयि चेदस्त्यनुग्रहः।। 6.33 ।।
(10. वस्तुसाक्षात्कृतिः)
निदिध्यासितवस्तु स्वरूपम्
श्रीभगवान्----
वालाग्रशतभागस्थं प्रधान पुरुषात्मकम्।
गमनागमनैर्हीनमणिष्ठं तदणोपरि।। 6.34 ।।
महिष्ठं महतो वस्तु परमानन्दविग्रहम्।
वृद्धिक्षयविनिर्मक्तं सर्वगं संविदात्मकम्।। 6.35 ।।
सद्रूपं प्रणवा (11) वेद्यमप्रतर्क्यं प्रमाणवत्।
एवं (12) वस्तु च कांक्षन्ते हृदये योगिनस्सदा।। 6.36 ।।
(11. वेद्यं प्रतर्कप्रणवान्वितम्.) (12. रूपधरं बेवम्. वस्तु कार्त्स्न्ये इति पाठद्वयू.)
तस्यस्थूलादिरूपेण त्रैविद्यम्.
स्थूलं सूक्ष्मं परं तस्य त्रिविधं रूपमीरितम्।।
स्थूलादीनां लक्षणं
स्थूलं तत्सकलं ज्ञेयं सूक्ष्मं सकलनिष्कलम्।। 6.37 ।।
परं निष्कलमेवस्याद्रूपं कमलसम्भव।
रूपं सहस्रशीर्षादि सकलं परमात्मनः।। 6.38 ।।
(13) तेजः पुञ्जमिवाभाति रूपं सकलनिष्कलम्।
सच्चिदानन्दरूपादि रूपां निष्कलसंज्ञितम्।। 6.39 ।।
(13. तेजः रुञ्चं सपादादिरूपम्)
प्रकृति विकृति निरूपणम्।
प्रकृतिर्विकृतिश्च स्वे स्व रूपे परमात्मनः।
सत्वादिगुणसंघातः प्रकृतिर्विकृतिः पुनः।। 6.40 ।।
पुरुषः परमात्माख्यस्तेनेयंत्रिगुणात्मिका।
मरमात्मा धिष्ठितायाः प्रकृतेर्जगत्सर्गादिः।
अधिष्ठिता जगस्तर्वं प्रसूते चेतनात्मकम्।। 6.41 ।।
संहरत्यपि तत्सर्वं नियोगा देव तस्य सा।
सपरमात्मा नारायणः
एक एव परो देवो नानाशक्ति समन्वितः।। 6.42 ।।
करोति सर्गसंहारौ स च नारायणस्स्मृतः।
नानाथिक्कैः(14) पुरद्वारैर्यथा पुरनिवासिनः।। 6.43 ।।
(14. नवद्वारैः )
अन्तर्विंशन्ति यद्वच्च पुरुषाः पुरुषं परम्।
उपासका (15) विशन्त्यन्तर्विद्यया परया सदा।। 6.44 ।।
(15. विशन्त्यन्येतन्मय्या.)
- { ब्रह्मरन्ध्रादिषु रुक्माभत्वादिगुणविशिष्ट ब्रह्मस्वरूप ध्यातुर्दग्ध कल्मषस्य ब्रह्मप्राप्तिः} *
ज्योतिर्मण्डलमध्यस्थं रुक्माभं पुरुषं परं।
हृत्पद्मकर्णिकारूढं शङ्खचक्रगदाधरम्।। 6.45 ।।
चतुर्भुजं भावयन्ति (16) स्थानेष्वेतेषु योगिनः।
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नभिचक्रेगलावटे।। 6.46 ।।
(16. भावरूपमयोगिनः)
जीह्वाग्रे दालुमध्ये च भावयन्तो यतेन्द्रियाः।
पूर्वजन्मकृतं कर्म दग्ध्वा यान्ति सनातनम्।। 6.47 ।।
- निष्कामकर्मिणामन्येषामपि ब्रह्मप्राप्तिकथनम्.*
विष्णोराराधनपराः पञ्चकालपरायणाः।
अष्टाङ्गयोग(17) सिद्धाश्च द्वादशाक्षरचिन्तकाः।। 6.48 ।।
(17. निष्ठाश्च.)
(18) वाशुदेवश्रया मर्त्या वासुदेव परायणाः।
सर्वपापविशुद्धाश्च यान्ति ब्रह्म सनातनम्।। 6.49 ।।
(18. जवतोदिवः)
- मुक्तात्म परमात्मनोस्सदृष्टान्तं भेदगर्भाभेदनिरूपणम् *
वर्षधाराः पृथग्भूताः पतन्त्यो (18) दिवि मेघतः!
भूमावैक्यं यथा यान्ति तद्वद्ब्रह्मणि योगिनः।। 6.50 ।।
अर्णो नदीनां बहृधा (19) तत्स्वरूपादि भेदवत्।
(19. सरोरूपादि.)
प्रविष्टं वारिधेर्वारि नोदकाद्व्यतिरिच्यते।। 6.51 ।।
तथैव ब्रह्मणि परे मुक्तात्मावश्चतुर्मुख।
एकीभावेन तिष्ठन्ति तत्सालोक्यं यथा भवेत्।। 6.52 ।।
एतद्रहस्यमुदितं निषत्सूपनिषत्सु च।
(20) योगः प्रकाशितस्तुभ्यं मया कमलसम्भव।। 6.53 ।।
(20. उक्तं प्रकाशितं)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपाते ब्रह्मप्राप्त्युपायकथनं नाम
षष्ठोऽध्यायः
***********---------