← अध्यायः १ ज्ञानपादः
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
ज्ञानपादस्य अध्यायाः

द्वितीयोऽध्यायः
 संवर्तः----
हे पद्म नागराजेन्द्र श्रुतवानसि यत्पुरा।
तन्त्रं तदहमध्याप्यो मयि चेदस्त्यनुग्रहः ।। 2.1 ।।
श्रीपद्म उवाचः---
तत्प वक्ष्यामि विप्रर्षतन्त्रं वै लोकविश्रुतम्।
ज्ञान योग क्रिया चर्या चतुष्पाद समन्वितम् ।। 2.2 ।।
रहस्यमद्भुतं दिन्यं यन्मया कपिलाच्छ्रुतम्।
संक्षिप्तं च महार्थं च सर्वसिद्धि प्रसाधनम् ।। 2.3 ।।
सार्धकोटि प्रमाणेन ब्रह्मणा केशपाच्छ्रुतम्।
तस्मात्समुद्ध्रतं तन्त्रं वारिधेरमृतं यथा ।। 2.4 ।।
विज्ञानमादौ सकलं सृष्‌ट्युपोद्घातमुच्यते।
ततो योगः क्रिया पश्चाच्चर्या च तदनन्तरम् ।। 2.5 ।।
विज्ञान शभ्दार्थः---
विज्ञानं भगवज्ञानं तज्ञानान्मुक्तिरुच्यते।
भगवतः आद्यंरूपम्----
आदिमध्यान्त रहितमवृद्धि क्षयमच्युतम् ।। 2.6 ।।
नित्यं निरुपमं ज्योति र्नित्यतृप्तं निरञ्जनम्।
सर्वाकारं निराकारं तमसः परमव्ययम् ।। 2.7 ।।
तत्कारणवशा त्तस्मादाविरासीत्सनातनात्।
द्विहस्तमेकवक्त्रं च शुद्धस्फटिकसन्निभम् ।। 2.8 ।।
सहस्रसविवह्नीन्दु लज्ञकोटि समप्रभम्।
मरीचि चक्रमध्यस्थं चक्राद्ययुधलाञ्चितम् ।। 2.9 ।।
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्।
किरीटहारकेयूर वलयादि विभूषितम् ।। 2.10 ।।
पीताम्बरधरंसौम्यं रूपमाद्यं सनातनम्।
स वासुदेवो विज्ञेयस्सृज्यं सर्वं च तन्मुखात् ।। 2.11 ।।
ध्येयश्च योगिभिर्नत्यं हृत्वद्माह्वयविष्टरे।
पश्यन्ति सूरयश्शश्व त्तद्विष्णोः परमं पदम् ।। 2.12 ।।
वासुदेवात्ततो जातो वासुदेवाह्ययोऽपरः।
एकवक्त्रश्चतुर्बाहुश्चक्रा द्यायुधलक्षणः ।। 2.13 ।।
स्थित्यै चक्रं सरसिजं दधानं सृष्टये पुनः।
मुक्तये पाञ्चजन्यं च गदां संहृतये तथा ।। 2.14 ।।
श्रीवत्स कौस्तुभोरस्को वनमाला विभूषितः।
मयूरकण्ठवच्छ्यामः पीतनैसर्गिकाम्बरः ।। 2.15 ।।
स वासुदेवो भगवान् सृष्टिस्थित्यन्तमुक्तिदः।
आत्मानं स द्विधाचक्रे पुनः केनापि हेतुना ।। 2.16 ।।
तयोरेको वासुदेवश्शुद्धस्स्पटिकसन्निभः।
नारायणो द्वितीयस्तु नीलाम्बुदसमप्रभः ।। 2.17 ।।
सङ्कर्षणो वासुदेवात् तस्मात्प्रद्युस्नसंज्ञितः।
प्रद्युम्नादनिरुद्धौऽभूत् सर्व एते चतुर्भुजाः ।। 2.18 ।।
ज्ञानादि गुणसामान्ये वासुदेवः प्रकीर्तितः।
षण्णांगुणानां वैषम्येवक्ष्यंते मूर्तयः क्रमात् ।। 2.19 ।।
ज्ञानेऽधिको भवेद्भ्रह्मन् सङ्कर्षण समाह्वयः।
बलेऽधिकस्तुप्रद्यम्न स्स्यादैश्वर्येऽनिरुद्धकः ।। 2.20 ।।
मूर्तिभ्यश्च चतुर्भ्यश्च चतुर्विंशतिमूर्तयः।
जायन्तेक्रमशो ब्रह्मन् दीपाद्धीपान्तरं यथा ।। 2.21 ।।
सर्वे चतुर्भुजाः पद्म शङ्खचक्र गदाधराः।
वासुदेवादादिदेवात्प्रथमा त्केशवस्तथाः ।। 2.22 ।।
नारायणो माधवश्च जज्ञिरे भूसुरोत्तम।
सङ्कर्षणाच्च गोविंदो विष्णुश्च मधुसूदनः ।। 2.23 ।।
त्रमस्ते समजायंत प्रद्युम्नाच्च त्रिविक्रमः।
वामनश्श्री धरश्चै ते जज्ञिरेमुनिसत्तम ।। 2.25।।
अनिरुद्धाद्धृषीकेशः पद्मनाभश्च सुव्रत।
दामोदरश्च तेनेत्थं द्वादशांशाः प्रजज्ञिरे ।। 2.26 ।।
वासुदेवाच्च तन्नाम्ना तथा सङ्कर्षणादपि।
प्रद्ध्यम्नादपि तन्नाम्ना तन्नाम्नैवानिरुद्धकात् ।। 2.27 ।।
अभूवन् क्रमशस्तेभ्य श्चतुर्भ्यः पुरुषोत्तमाः।
अधोक्षजो नृसिंहश्च चतुर्थश्चाच्युतो मतः ।। 2.28 ।।
चतुर्भ्य एव तेभ्योमी जज्ञिरे च यथाक्रमम्।
जनार्दनत्तथोपेंद्रो हरिः कृष्णस्समाख्यया ।। 2.29 ।।
वासुदेवादादिदेवान्मूर्त्यष्टकम जायत।
ब्राह्मीच मूर्तिः प्रथमा प्राजापत्याच वैष्णवी ।। 2.30 ।।
दिव्या चार्षी मासुषी च सप्तमी चासुरी मता।
पैशाची चरमा तासां मूर्तीनामपरादश ।। 2.31 ।।
मीनाद्या जज्ञिरे विप्र चतुर्प्यूहाद्यथाक्रमम्।
मत्स्यः कूर्मो पराहश्च वासुदेवादजायत ।। 2.32 ।।
नृसिंहो वासुनो रामो जामदग्न्योऽप्यजायत।
सङ्कर्षणात्तथा जज्ञे प्रद्युम्ना द्राघवो बली ।। 2.33 ।।
अनिरुद्धादभूत्कृष्णः कल्कीति दश मूर्तयः।
सङ्कर्षणाच्च पुरुषस्सत्यः प्रद्युम्न सम्भवः ।। 2.34 ।।
जातोऽच्युतोऽ निरुद्धाच्च बुद्धस्तेलोक्य मोहनः।
दशार्हश्शौरिरन्नोशो वासुदेवादजायत ।। 2.35 ।।
सङ्कर्षणाद्धयग्रीवश्शज्खो दरनृ कोसरी।
वैकुण्ठमूर्तिराद्यातु मुकुन्दश्च वृषाकपिः ।। 2.36 ।।
तत्रैवादि पराहश्च ततस्सङ्णर्षणादपि।
अनंतः पन्नगो जातस्सहप्रफणवान् बली ।। 2.37 ।।
सुदर्शनाद्यायुधानि किरीटादि विभूषणम्।
मुर्त्या विर्भावसमये सहै वैतानि जज्ञिरे ।। 2.38 ।।
देव्यश्श्रियादयस्तद्वत् मूर्तभेदं समाश्रिताः।
श्रिवत्सादेव सकला ज्जज्ञिरे दिव्यलाञ्चनात् ।। 2.39 ।।
गरुडः पक्षिणामिन्द्रो वाहनं भलिनां वरः।
वासुदेवादि मूर्ति भ्यश्छन्दो मूर्तिरजायत ।। 2.40 ।।
कुमुदाद्यश्च भूतेशास्सर्वे पारिषदैस्सह।
पादतश्चा निरुद्धस्य समभूवन् सहस्रशः ।। 2.41 ।।
सहस्रशीर्ष चरणहस्त नेत्राद्भुताकृतेः।
अनिरुद्धाज्जगज्जज्ञे स्वाङ्णादेव यथाक्रमम् ।। 2.42 ।।
मुखादिन्द्रश्च वह्निश्च छन्धांस्यङ्णानि षट्तथा।
द्यौर्मूध्नो नयनात्सूर्यो मनसश्चन्द्रमा अपि ।। 2.43 ।।
श्रोत्राद्धिशो नभोनाभेः पद्भ्यां भूमि रजायत।
प्राणाद्यायुस्तथा पानान्मृत्युः केशात्तथम्बुदः ।। 2.44 ।।
त्रुट्यादि कालभेदश्च कालश्चाभूत्तथा धियः।
वनस्पतय ओषद्यो रोमकूपाद्विनिस्सृताः ।। 2.45 ।।
यज्ञाश्च जज्ञिरे तस्माद्बहवो बहृदक्षिणाः।
चातुर्वर्ण्यं क्रमाद्वक्त्र भाहूरु चरणोद्भवम् ।। 2.46 ।।
एवं सृष्ट्वा हगत्सर्वं विश्वरूपधरो हरिः।
आसैऽनन्तासनेदेवश्श्री भूमिभ्यां सहप्रभुः ।। 2.47 ।।
मध्ये क्षीरार्णवे श्वेतद्वीपाख्ये हेमनिर्मिते।
प्रासादे सेव्यमानश्च योगिभिर्विविधैरपि ।। 2.48 ।।
चण्‍डाद्यै र्द्वारपालैश्च कुमुदाद्यनुजीविभिः।
पक्षीन्द्र विष्वक्सेनाभ्यां सेव्यमानो मुदान्वतः ।। 2.49 ।।
श्रीवत्सवक्षा नित्य श्रीरजेयश्शाश्वतो ध्रुवः।
अनिरुद्धो जगत्स्वां शैरिन्द्राद्यैः परिपालयन् ।। 2.50 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहियाम्।
ज्ञानपादे मूर्त्युत्पत्ति भेदोनम


*********---------------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_२&oldid=206922" इत्यस्माद् प्रतिप्राप्तम्