ज्ञानपादः/अध्यायः ९
← अध्यायः ८ | ज्ञानपादः अध्यायः ९ [[लेखकः :|]] |
अध्यायः १० → |
ज्ञानपादस्य अध्यायाः |
---|
पाद्मसंहितायाम्
नवमोऽध्यायः
- भुवनकोशस्वरूपनिरूपणम् *
ब्रह्माः-----
अज्ञानसागरं तीर्त्वा (1) विद्यापारमुपेयिवान्।
(2) उच्यतां सांप्रतं मह्यं भुवनानि चतुर्दश।। 9.1 ।।
(1.पद्मागार.) (2. भगवन्)
रूपतो (3) नामतश्चापि जिज्ञासा परमेश्वर।
(3. मानतश्चापि विज्ञाने. इति क्वचित्. अन्यत्र---रूपतो वापि विज्ञापय पमेश्वर. इति.)
श्रीभगवान्----
यत्र प्रतिष्ठितं यच्च मानं रूपं च यादृशम्।
भुवनानां तदखिलं चतुर्मुखमुखै श्शतैः।। 9.2 ।।
वक्तुं निरवशेषेण कः (4) क्षमेत प्रपञ्चतः।
बोद्धुं वा निखिलं शक्तः को वा धारयितुं क्षमः।। 9.3 ।।
(4.क्षमस्तत्प्रपञ्चतः )
तद्भ्रवीमि समासेन (5) सर्वं त्वं बुध्यसे यथा।
(5. सुखं)
- पृधिव्याः परिमाणम् *
चतुरश्रा भवति भूः पञ्चौशत्कोटि योजनैः।। 9.4 ।।
विस्तीर्णा सर्वतो दिक्षु घनं वैकोटियोजनम्।
द्वीपानि सप्त सन्त्यत्र तावस्तस्तोयराशयः।। 9.5 ।।
आङ्गुलीयकवत्सर्वे भूमेरुपरि विष्ठिताः।
- सप्तद्वीपाः*
द्वीपानि नामभिस्तावत्कथ्यन्ते (6) क्रमशशृणु।। 9.6 ।।
(7) जम्भूप्लक्ष कुश क्रौञ्चाश्शाकद्वीपस्तथा परः।
शाल्मली पुष्करो नाम सप्तमश्चतुरानन।। 9.7 ।।
- सप्तसमुद्राः*
(6. तत्क्रमं.) (7. जम्भूः प्लक्षः कुशश्चैवशाकश्शाल्मलिकस्तथा। क्रौञ्चपुष्करनामानस्सप्तद्वीपाः प्रकीर्तताः इति क्वचित्. अन्यत्र तु जंबूप्लक्षश्शाल्मलिश्छकुशः क्रौञ्चस्तथा परः शाकः पुष्करनामा च सप्तमः)
आनुपूर्व्यात्समुद्रांश्च कथयामि यथातथम्।।
(8) लवणेक्षुरसौ पश्चात् मैरेय स्तदनन्तरम्।। 9.8 ।।
(8. लवणेक्षु सुराक्षीरदधिसर्पि स्तथोदकम्.)
सर्पिर्दधि (9) पयस्त्वव्यत्ततश्शुद्धोदकं परम्।
(9. पयांस्त्यव्यत् पयस्त्वस्वक् पश्चिमश्च शुभोदकः इतिच.)
- द्वीपसमुद्रपरिमाणम् *
(10) भूभागे मध्यमे जुम्भूद्वीपमानं च कथ्यते।। 9.9 ।।
(10. तन्मध्ये मध्यतोंबूनि द्वीपः निस्ताराद्वारिधि.क्षारस्तादृग्ध्वि पाह्यनन्तराः इति क्वचित्.)
लक्षयोजनविस्तारस्सर्वतस्तदनन्तरम्।
विस्तारं वारिधिः क्षारस्तादृग्द्वीपमनन्तरम्।। 9.10 ।।
उत्तरोत्तरमेकैकं द्वीगुणायाम (11) विस्तरः।
(12) द्वीपानि षट्समुद्राश्च परिशिष्ठाश्चतुर्मुख।। 9.11 ।।
(11. विस्तराः इति पाठः) (12. द्वीपाश्च सन्तिषट् तत्र.)
द्वीपं जम्भूसमाख्यातं विभजेन्नवदा पुनः।
- मेरोस्सन्निवेशविशेषः *
भागेतु मध्यमे मेरोरुच्छायो लक्षसंमितः।। 9.12 ।।
योजनानां क्षितेरस्त र्मग्नष्षोड़शकङ्ख्यया।
सहस्त्राणां योजनानां (13) शिष्टोभागः प्रकाशते।। 9.13 ।।
(13. मेरोर्भागः)
क्षीते रूर्ध्वं रैमयश्च सर्वतो मूर्ध्निविस्तृतः।
द्वात्रिंशच्च सहप्राणां योजना (14) नामयां पुनः।। 9.14 ।।
(14. नां शतम्.)
कर्णिकावच्च भूपद्ममध्ये सम्यगवस्थितः।
शृङ्गैश्शतसहस्रेण शतयोजन विस्तृतैः।। 9.15 ।।
तत्सङ्ख्यापरिणाहैश्च तस्य पार्श्वमहीधरान्।
वक्ष्यामि चानुपूर्व्येण यथा तदवधारय।। 9.16 ।।
- मोरोर्दक्षिणतस्त्रयो वर्षाचलाः *
हिमवान् हेमकूटस्च निषधश्छास्य दक्षिणे।
एते वर्षाचलाः प्रोक्ता स्त्रयः कमलसम्भव।। 9.17 ।।
- त्रीणिवर्षाणि*
वर्षं भारतमाख्यां प्रथमं तदन न्तरम्।
नाम्ना किंपुरुषं तस्माद्धरिवर्षमनन्तरम्।। 9.18 ।।
- उत्तरतस्त्रयो वर्षाचलाः *
उत्तरे मेरुशैलस्य क्रमा (15) द्वर्षमहीधराः।
नीलश्श्वेताह्वयश्शृङ्गी नाम्ना वर्षत्रयं पुनः।। 9.19 ।।
(15. वर्षेषुभूदराः)
- त्रीणिवर्षाणि*
रम्यं हिरण्मयं वर्षमुत्तराः कुरव (16) स्तथा।
उक्तानि षट्च वर्षणि प्रत्येकं परिमाणतः।। 9.20 ।।
(16. स्त्रिधा)
योजनानां सहस्राणि नव वर्षंतु मध्यमम्।
इलावृतं समाख्यातं तन्मध्ये (17) मेरुरीरितः।। 9.21 ।।
(17. मेरुरुच्यते.)
मेरोश्चतुर्दशं तत्र विस्तीर्णं योजनानि षट्।
त्रिणी चैव सहस्राणि चत्वारस्तत्रपर्वताः।। 9.22 ।।
विष्कम्भरूपै रचिता योजनायुतमुच्भ्रिताः।
- दिशाचनानांसामानि*
मन्धरो दिशि पुर्वस्यां याम्यायां गन्धमादनः।। 9.23 ।।
प्रतीच्यां विपुलो नाम्ना...............
....................(18) कौभेरीमधितिष्ठति।।
(18. अत्र ग्रंधपातः सुपार्श्वनाम्ने गिरेर्नर्दशे नात्र भाव्यम्.)
- चतुर्दक्षु चत्वारो वृक्षाः *
दिशानु तानु चत्वारो पृक्षाः केतुवदुन्नताः।। 9.24 ।।
कदम्भभूरुहो जम्भूः पिप्पलो विटपी वटः।
शतानि दश चैकं च तेषां प्रत्येकमायतिः।। 9.25 ।।
- जम्भूवृक्ष प्रभावः *
जम्भ्वूतया समाख्या स्यात् द्वीपस्य कमलासन।
फलानि (19) गजमानानि पतितानि शिलातले।। 9.26 ।।
(19. गजमानं यथा----अरत्नीनां शतान्यष्टौवेकषष्ट्यधिकानितु। फलप्रमाणं संख्यात मृषिभिस्तत्वदर्शभिः इति वायुपुराणे. विष्णु पुराण व्याख्याने विष्णु चत्तीये---गजमानं यथा----पञ्चोन्नतिस्सप्तगजस्य दैर्घ्यमष्टौ चहस्ताः परिणाहमानम्। एकद्ववृद्धावथ मन्थ्रभद्रौ पज्कीर्णना गो नियतप्रमाणः इति.)
श्रीर्यन्ते शतधा तेषां (20) रसवाह स्सरिद्वरा।
जाम्भूनदीति कथिता तत्तटोर्वीनिवासिनः।। 9.27 ।।
(20. सुवह च सरिद्वरा.)
पीत्वा रसं जरामृत्युवलीपलितवर्जिताः।
न स्वेदो न च (21) दौर्गन्ध्यं नेन्द्रियाणामपि क्षयः।। 9.28 ।।
(21.दौर्बल्यमिन्द्रियाणाम्.)
भवन्ति तेषां तीरोर्वी मृदस्तद्रसरञ्जिताः।
जाम्भानदाख्यां कल्पन्ते सौवर्णा कल्पसम्पदः।। 9.29 ।।
- भद्र केतुमालेलावृतवर्षाणां स्थानविशेषः *
(22) भद्राश्ववर्षमाख्यातं मेरोः प्राच्यां चतुर्मुख।
(23) पश्चिमं केतुमालाख्यमेतयोर्वर्षयोः पुनः।। 9.30 ।।
(22. भद्राख्यं वर्षं) (23. पञ्चमम् .)
इलापृतं समाख्यातं मध्यमं तत्पुरोदितम्।।
- चतुर्दिक्षु चत्वार्युद्यानानि*
वनं चैत्ररथं पूर्वं दक्षिणं गन्धमादनम्।। 9.31 ।।
(24) वै भ्राजां पश्चीमं मेरोर्वनं नन्दन (25) मुत्तरम्।
- चत्वारि सरांसि *
अरुणोदं सरः पूर्वं महाभद्रं ततः परम्।। 9.32 ।।
(24.वैराजम्.) (25. मुत्तरे.)
(26) शीतोदकं प्रतीचीनमुदीचीनं तु मानसम्।
देवोपभोगयोग्यानि सरांसि कथितानि ते।। 9.33 ।।
(26. सहस्तोदम्, सितोदकम्.)
- मेरोश्चतुर्दिक्षु प्रत्येकं पञ्चपञ्च केसराचलाः *
(27) शतातश्च मुकुन्दश्च कुररी माल्यवानथ।
वैकङ्को नामपञैते पौरस्त्याः केसराचलाः।। 9.34 ।।
(27. शीताम्भुश्च सिताम्भ कु मुध्वांश्च.)
त्रिकूटोङ्गिरसश्चो भौ पन्नगः (28) कूटलाह्ययः।
निषदो दक्षिणे तस्य तावन्तः केसराचलाः।। 8.35 ।।
(28. रुचकाह्वयः)
शिखिवासो थ (29) वै दूर्यः कपिलो गन्धमादनः।
(30) जारुधिः पञ्चमो ब्रह्मन् केसराः पञ्चभूधरा।। 8.36 ।।
(29. वैदूर्मफलको.) (30.चारुश्चपश्चीमो)
शङ्खकूटस्समाख्यात स्समाख्यात (31) स्तथर्षभः।
हंसस्समाख्यया नागस्तथा कालाञ्जनप्रभः।। 9.37 ।।
(31. स्तुदर्शितः)
उदीच्यां केसराः पञ्च विंशतिः केसराचलाः।
- मेरुशृंगमध्ये ब्रह्मपुरी सन्निवेशः *
योजनानां सहस्राणां द्वात्रिंशन्मानसम्मिते।। 9.38 ।।
विस्तारे मूर्ध्ना शैलस्य मेरोर्भागेऽथ मध्यमे।
चतुर्भीर्दशभिश्चैव सहस्रैर्निर्मिता पुरी।। 9.39 ।।
योजनैस्संमितो धातुः कर्णि केवाचलाम्भुजे।
विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी।। 9.40 ।।
- पूर्वादिदिक्षु लोकपालनगर्यः *
इन्द्रादिलोकपालानां (32) पुरः पूर्वादिषु स्थिताः।
(32.पुर्यः)
विस्तारायाममानेन शतयोजनसंमिताः।। 9.41 ।।
पुरी भवति माघौनी नाम्ना चै वामरावती।
सहस्रगोपुरद्वार प्राकार परिघाकुला।। 9.42 ।।
तेजोवती पुर्याग्नेयी याम्या संयमनी पुरी।
रक्षोवती राक्षसी पूश्सुद्ध वत्यथ वारुणी।। 9.43 ।।
वायोर्गन्धवती ख्याता (33) नाम्ना सौम्या महोदया।
यशस्पिनी भवस्योक्ता केसराचलभूमिषु।। 9.44 ।।
भगवस्मूर्ती भेदानां पुरस्सन्ति परिष्कृताः।
(33. ख्याता.)
- चतुर्दिक्षु गंगा विभागः *
भित्वेन्दुमण्डलं गङ्गा भगवत्पाद जन्मभूः।। 9.45 ।।
दिवः पतन्ती प्रत्याशमभ्याशं भ्रह्मणः पुरः।
चतुर्तिक्षु वहन्ती सा (34) चतुर्धाभवतिस्वयम्।। 9.46 ।।
(35) सिता चालकनन्दा च सुचक्षुर्भद्रया सह।
चतस्रो नाम (36) भेदाश्च दिग्भेदाश्च चतुर्मुख।। 9.47 ।।
(35. चत्वारि वहति स्वयम्.) (36. सीता.)
स्तीता न्तरिक्षगा पूर्व शैलान्निष्क्रम्य निम्नगा।
याति पूर्वेण वर्षेण भद्राश्वेन च संज्ञया।। 9.48 ।।
प्रविष्टा सागरमुखं दक्षिणेन तथा (37) ध्वना।
भारतं वर्षमभ्येति शैलात्सप्तमुखा ततः।। 9.49 ।।
(37. स्वयम्.)
प्रविष्टालकनन्धा (38) सा नदी त्रैलोक्यपावनी।
सुचक्षुः पश्चिमाच्छैला त्केतुमालात् (39) स्वयं पुनः।। 9.50 ।।
अतीत्य वर्षमम्भोधिमेति योषिद्यथा पतिम्।
भद्रा गिरेरुधीचिना देशा (40) नुत्तरतः कुरून्।। 9.51 ।।
(38. ख्याम्भोदिं) (39. मालाह्ययम्.) (40. न्मन्दनतः पुनः)
अतीत्य वारिधिं याति निम्नगा सरितां पतिम्।
- लोकपद्मप्रकार कल्पनम् *
आनीन विषदायामौ माल्यवान् गन्दमादनः।। 9.52 ।।
मध्ये तयोर्मेरुशैलः कर्णका पङ्कजे यथा।
भारतं केतुमालं च भद्राश्वं (41) कुरुसंज्ञकम्।। 9.53 ।।
(41. कुरवस्तथा)
पत्राणि लोकपद्मस्य मर्यादा शैलतो बहि।
हेमकूटश्च निषधो दक्षीणोत्तरमाय तौ।। 9.54 ।।
मर्यादापर्वतौ ज्ञेयौ कैलासो गन्धमादनः।
अशीतियोजनामामौ पूर्वापरमहोदधी।। 9.55 ।।
(42) संस्पृशन्तौ पारियात्र निषधावधिभूभृतौ।
मेरोः पश्चिमभूभागे पूर्रोत्तर (43) मथाश्रितौ।। 9.56 ।।
(42. निषधः पारियात्रश्च स्पृशन्तावधिभूदरौ.) (43. धरोस्मृतौ मुन्नतानां प्रपञ्चितम्.)
त्रिशृङ्गो जारुधिर्वर्ष पर्वतौ मेरुभूभृतः।
उत्तरेण स्थितौ प्राप्य पूर्वापरमहोदधी।। 9.57 ।।
पर्वतानामवस्थान (44) मानन्त्यान्न प्रपञ्च्यते।
शैलानामन्तरद्रोण्यस्सेव्यन्ते सिद्धचारणैः।। 9.58 ।।
(44. पापदेहिनां)
अन्यैश्च पुण्यकृद्भिस्ता दैत्यदानवकिन्नरैः।
भौमा ह्येते कृतास्स्वर्गाः दुर्लभाः (45) पापकर्मभिः।। 9.59 ।।
- लोकरक्षार्थां भद्राश्वादिषु भगवतो वासः *
ज्ञानमूर्तिर्हयग्रिवो भद्राश्वे वसति स्वयम्।
वर्षेषु मूर्तयोविष्णो र्मर्यादापर्वतेषुच।। 9.60 ।।
वसन्ति लोकरक्षायै नानारूपविशेषिताः।
- किंपुरुषादीनां भोगभूमित्वोपपादनम्*
यानि किंपुरुषादीनि वर्षा (46) ण्येतेषु पद्मज।। 9.61 ।।
(46.ण्येतानि)
निरातङ्काः प्रजाश्शश्वन् शोको न भयं तथा।
नोदन्या च बुभुक्षा च न द्वेषो ना युषुः क्षयः।। 9.62 ।।
सन्ति तेषां सहस्राणि वर्षाणि द्वौ च विंशतिः।
आयुर्व तेषु देशेषु (47) भौममम्भो न वर्षति।। 9.63 ।।
(47. भूमिमिन्द्रो.)
(48) देवो न चर्तुभेदोस्ति न कालो युगभेदवान्।
सदा कृतयुगः कालो वर्तते चतुरानन।। 9.64 ।।
(48. देवोनरो नभेदोस्ति.)
धर्मश्चतुष्पात्सकलो ध्यानमेवार्चनं हरेः।
पर्वतास्सरितश्चापि (49) यत्र यत्र पुराणि च।। 9.65 ।।
(49. सन्ति तत्र.)
ग्रामाश्च सन्ति बहवस्स्य धर्मनिरतास्सदा।
ब्राह्मणा भूमिपाश्चापि प्रजापालनतत्पराः।। 9.66 ।।
स्वे स्वे कर्मण्यभिरताश्चातुर्वर्ण्यमवस्थिताः।
चारुराश्रम्यमप्येवं यथोक्तमवतिष्ठते।। 9.67 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे (50) जम्बूद्वीप्रमाणवर्णनं नाम
नवमोऽध्यायः
**************--------------