ज्ञानपादः/अध्यायः ७
← अध्यायः ६ | ज्ञानपादः अध्यायः ७ [[लेखकः :|]] |
अध्यायः ८ → |
ज्ञानपादस्य अध्यायाः |
---|
पाद्मसंहितायाम्.
सप्तमोऽध्यायः।
- ब्रह्मप्राप्ति साधनज्ञानोत्पत्ति कारण प्रश्नः*
ब्रह्माः----
ब्रह्मणः प्राप्त्युपायस्य ज्ञानस्यो (1) त्पत्तिकारणम्।
उच्यतां तदशेषेण प्रसादो मयि चेत्तव।। 7.1 ।।
(1. त्पाद.)
श्रीभगवान्---
- निष्कामकर्मभिर्निर्मलीकृत चित्तस्य ब्रह्मज्ञानोत्पत्तिनिरूपणम् *
बाह्यो परागरहितं निर्मलं तस्य जायते।
विज्ञानं यस्य भगवत्समाराधन कर्मभिः।। 7.2 ।।
अनाद्यविद्याविरयो योगङ्गैश्च यमादिभिः।
(2) शौचमिज्या तपश्चर्या स्वाध्याया भ्यसनं तथा।। 7.3 ।।
(2.इदमर्धं क्वचिन्न.)
ब्रह्माचर्या मिताहारो मौनमिन्द्रियनिग्रहः।
अहिंसा चोपवासश्च स्नानं तीर्थनिषेवणम्।। 7.4 ।।
वैराग्यं पुत्रदा रेषु दुष्टाहारविवर्जनम्।
अक्रूरता वृद्धसेवा क्षमा (3)मैत्य्रनृशंसता।। 7.5 ।।
(3. मैत्य्रादयस्तथा)
परदारपरस्वेषु वै मुख्यं शास्त्रसेवनम्।
असक्तता (4) भोग्यवस्तुष्व्तेतै श्चित्तप्रसाधनैः।। 7.6 ।।
(4. भोजना दावेतै.)
ज्ञानं प्रत्यङ्मुखं जातं तेन जानन्ति तत्पदम्।
यत्प्राप्य न निवर्तनै जन्ममृत्यु विवर्जिताः।। 7.7 ।।
पुरुषाः (5) कर्मनिरता (6) ज्ञान विज्ञानजन्मनि।
(5. कथितो हेतुरिति) (6. जाता विज्ञान.)
- जीवस्य संसारहेतु निरूपणम् *
संसारहेतु (7) मधुना कथयामि चतुर्मुख।। 7.8 ।।
(7. बन्दत्वम्.)
शुभाशुभात्मकं कर्म कृत्वा मायावशं गताः।
(8) भोगायतनमास्थाय तत्तत्कर्म (9) प्रवाहजम्।। 7.9 ।।
(8. भोगाङ्णां तनुम्.)(9.प्रभावजम्)
- मोक्षसंसारौ प्रति ज्ञानाधिक्य कर्माधिक्ययोर्हेतुता*
दुःखं सुखं वा पुरुषा भुञ्जते(10) नियतेन्द्रियाः।
संसृतिस्सा चतुर्वक्त्र तस्याः कर्मैव कारणम्।। 7.10 ।।
(10.योत्वतन्द्रिताः।)
मुक्तीर्ज्ञानादिके तस्यास्संसृतेरात्मनो भवेत्।
(11) कर्माधिके पुवस्सैव जायते निरवग्रहा।। 7.11 ।।
(11.धर्मधिकैः पुनर्त्वेवं जायते निरवग्रहः)
संसारहेतुभूतं तत्कर्मज्ञानेन नश्यति।
क्षीणे कर्मणि संसारहेतौ मुक्ति (12) रनन्तरा।। 7.12 ।।
(12.रनन्तरम्)
कल्पते संसृतिः (12) कर्महेतु रुक्ता विनिश्चिता।
करोति कर्म चाविद्याविवशः पुरुषस्स्वयम्।। 7.13 ।।
(12. कर्मरूपा हेतुर्वनिश्चिता---कर्महेतुर्मुक्ता विनिश्चिता----इति च पाठः)
- सत्वरजस्तमसां शुभाशुभकर्महेतुत्वम्*
गुणा एव त्रयो विद्या समासव्यासवृत्तयः।
(13) तैरेव कुरुते कर्म शुभं वा यदि वा शुभम्।। 7.14 ।।
(13. तेनैव.)
तैस्त्रिभिर्विविधा निद्रा जायते कर्मकारणम्।
सैषाऽविद्या च माया च कथ्यतेकोविदोत्तमैः।। 7.15 ।।
सत्वात्सुखमयी निद्रा रजसः कर्मसङ्कुला।
तमसो मोहिनी: नाम ताभिर्निगलितः पुमान्।। 7.16 ।।
संसा (14) रतोऽवशः कर्म करोति जनिकारणम्।
(14. रादवश)
- उक्तार्थप्रपञ्चनम्*
सत्वादिगुणसंयुक्तं मनो भूतेषु पञ्चसु।। 7.17 ।।
(15) प्रयुक्तं पञ्चधा (16) भिन्नं प्रसूते बहुधा (17) क्रियाः।
मनस्सत्वगुणोपेतं (18) पृथिवीस्थं यदा भवेत्।। 7.18 ।।
(15. प्रवृत्तम्.) (16. भिन्नां) (17. क्रियाम्.) (18.पृथिव्यां)
तदा करोति पृथिवीखननादिक्रियां नरः।
आराधयेत्प्रतिच्छायां (19) पालनाय नृणां तथा ।। 7.19 ।।
(19.पालनं वा. पालनायाम्. तृणंतथा.)
रजसिस्थे प्राणहिंसां मृगयाबुद्धिमेव च।
तमसिस्थे तु हृदये च्छेदनं भेदनं तथा।। 7.20 ।।
अभिचार वशीकार परस्वहरणादिकम्!
सत्वस्थेऽप्सु जलक्रीडा जलपानं चतुर्मुख।। 7.21 ।।
नदीतनरणमित्यादि करोति विवशः पुमान्।
(20) रजसा च जलद्रोण्यामवगाहू निवज्जनम्।। 7.22 ।।
(20.रजसिस्थे.)
सेतुबन्धं समुद्रादौ बाहूभ्यां तरणं तथा।
तमसिस्थे (21) तु मनसि जलतीरे विमोचनम्।। 7.23 ।।
(21.मनस्यप्यु. वापितले.)
कूपे वा पतनं श्वभ्रे करोति पुरुषस्सदा।
(22) मनस्तेजसि सत्वस्थे सूर्यचंद्रादि दर्शनम्।। 7.24 ।।
(22. अग्नौ तेजसि. हृदितेजपि.)
पटुत्वमुष्णभावश्च रत्न हेमादि दर्शनम्।
करोति रजसि प्रापै खड्गहस्तस्समु (23) त्थितः।। 7.25 ।।
(23. द्यतः)
मृगान्हन्ति तथा मुष्टिदण्डैश्च भृशताडनम्।
तमसिस्थे मनस्यग्नौ रक्तपुप्पादिषु स्पृहा।। 7.26 ।।
श्वसनस्थे गुणे सत्वे शीघ्रयानं च नर्तनम्।
गानं प्रलापनं कर्म करोति रजसि स्थिते।। 7.27 ।।
(24) चित्ते गजाश्वरोहादि तथोर्ध्वगमनादिकम्।
तमोगुणस्थे मनसि प्रासादारोहणादिकम्।। 7.28 ।।
(24.नरो.)
चित्ते व्योमनि सत्वस्थे निराभासं निराश्रयम्।
गमनं राजसे चित्ते धृष्ठं जागर्ति यत्पुनः।। 7.29 ।।
स्वापे तदीक्षितं सर्वं मानसे (25) तमसि स्थिते।
सर्वदष्ठ वदा (26) त्मायं सुखदुःखं न बुध्यते।। 7.30 ।।
(25. ज्ञानवर्जीतः) (26. त्मानं.)
एवं बहुविधां कर्म पुमान् माया (27) वशङ्गतः।
करोति त्रिगुणैर्यक्तः कर्मभिस्तैः पुमानयम्।। 7.31 ।।
(27. वशासुगः)
संसारे (28) पि गतो जन्म नाशं च प्रतिपद्यते।
यदा प्रसादसुमुखः परमात्मा सनातनः।। 7.32 ।।
(28.पतते.)
तदा मायावि (29) मुक्तश्च योगयुक्तो जितेन्द्रियः।
विज्ञानेन परं ब्रह्म प्राप्नोति सुखलक्षणम्।। 7.33 ।।
(29. मुक्तस्सन्.)
- जीवस्य गुणत्रय योगायोगकारणनिरूपणम्*
ब्रह्माः----
एभिर्गुणै स्तथा योगो वियोगो वा कथं भवेत्।।
श्रीभगवान्-----
पुरुषस्य गुणा एते त्रयोपि कमलासन।। 7.34 ।।
मायायोग वियोगाभ्यां भवन्ति न भवन्ति च।
मायानपायिनी नित्या मयि तिष्ठति शाश्वती।। 7.35 ।।
मायावशंगतास्सर्वे भ्रमन्त्य ज्ञानमोहिताः।
ब्रह्मामयो पि किमुत देवाद्याः कमलासन।। 7.36 ।।
- भगवत्प्रसादान्मायानिवृत्तिः *
(30) मत्प्रसादावसाना या मदधीना विनश्यति।
मायायोगेन बध्यन्ते मुच्यन्तेतां (31) जयन्तियो।। 7.37 ।।
(30. प्रसादातेव सा माया. प्रसादातेव मायायाः इति च कोशा स्तरे. प्रसादादेव सा माया. इति क्वचित्.)(31.तरस्ति.)
- भगवत्प्रसादकारण निरूपणम्*
ब्रह्मा----
परिपूर्णस्य भगवन् प्रसादस्तव किंकृतः।
न (32) वेद्वि कारणं तत्र तन्मे ब्रूहि यथातथम्।। 7.38 ।।
(32. विधिः)
श्रीभगवान्----
श्रद्धा भक्तिस्समाधिश्च मयि सम्यक्समर्पिता।
कारणं शास्त्रदृष्टेन विधिना नान्यथा भवेत्।। 7.39 ।।
सर्वेषां मोक्ष्यमाणानां कारण त्रयमीरितम्।
तैर्विना संसरन्त्यन्ये मायापर (33) वशा जनाः।। 7.40 ।।
(33. वशङ्गताः)
- श्रद्धाभक्ति समाधीनां विषयविशेषनै यत्यम्*
ममावताररूपाणि बुध्वा सृष्टानि मन्मुखात्।
(34) अधर्मस्योपशान्त्यर्थं धर्म काम प्रषृद्धये।। 7.41 ।।
(34. अदर्मोत्थान.)
बहूनि बोद्धं योग्यानि त्रयं तत्र समाचरेत्।
सर्वाकारविनिर्मुक्तं रूपं यत्परमात्मनः।। 7.42 ।।
दुर्विज्ञानं तदेतेषां (35) श्रद्धादीनामगोचरम्।
मुक्तिकारणमुद्धष्टं ब्रह्मन् भूयः किमिष्यते।। 7.43 ।।
(35. मत्स्यादीनामगोचरम्। मुक्तिकारण मित्युक्तम्,)
- चेतना चेतनयोरभिन्नकारणत्व निरूपणम्*
ब्रह्माः----
अचेतनं चेतनं च रूपं स्रष्टुं समीक्ष्यते।
किमेकयोनि स्सा सृष्टि र्योनि भेदः किमेतयोः।। 7.44 ।।
श्रीभगवान्---
अभिन्नमेकमव्यक्तं (36) रूपं तत्पर मात्मनः।
अविभक्तं विभक्तं च दध्नि सर्पिरिव स्थितम्।। 7.45 ।।
(36. पूपेण परमात्मनः)
अव्यक्तं व्यक्तिमापन्नं कदाचित्पुरुषेच्छया।
महान् जात स्ततोव्यक्तादहङ्कारत्ततोऽजनि।। 7.46 ।।
(37) आहङ्कारान्मनो जातं तन्मात्रा पञ्चकं ततः।
इन्द्रियाणि दशैकं च समजायत पद्मज।। 7.47 ।।
(37.तन्मात्रपञ्चकं जातमहङ्करान्मत्ततः)
महाभूतं पृथिव्यादि पञ्चकं तदन न्तरम्।
अचेतनाच्चेतनाच्च सृष्ठिरेवमुदाहृता।। 7.48 ।।
- गुणत्रयवशादुत्तमाधममद्यमभावोत्पत्तिः*
त्रिभिरेवं गुणै रेतै रुत्तमाधममद्यमाः।
जायनै कारणवशात्तान्भ्रवीमि क्रमादहम्।। 7.49 ।।
- तेषां स्वरूपम्*
भावेषु तेषु भूयुष्ठं सत्वं श्रेयां श्चतुर्मख।
भूयुष्ठराजसो मध्यो जघन्यस्त समाधिकः।। 7.50 ।।
- उत्तमसत्वभावार्चनायाः भोगमोक्ष साधनस्वम्*
तत्र सत्वाधिकै र्भवै (38) रर्चना मम तोषिणी।
भोगो वाप्यपवर्गो वा फलं तेषां यथेप्सितम्।। 7.51 ।।
(38. नराणाममरैषिणाम्.)
- रजस्तमोभावयोः क्षयुफलत्वम्*
(39) रजसाधिकभावेन (40) यजन्ते ये द्विजातयः।
(41) तेषां त्रिविष्टपे वासः पुनरावृत्तिलक्षणः।। 7.52 ।।
(39. रजोधिकेन भावेन.) (40. जायनै.) (41.तेयान्ति विष्टवे वासं)
संसृतिश्च क्षणे तस्य यहन्ते ये तमोऽधिकाः।
तेषां भुवस्थ्सले वासः क्षये भूलोकसंसृतिः।। 7.53 ।।
यक्षभूत पिशाचादि (42) यजन्ते तमसाधिकाः।
उषित्वा नरके घोरे जन्म स्याज्जङ्गमादिषु।। 7.54 ।।
(42. यजनं तमसाधिकैः)
- भगवद्याजिनामेवापुन रावृत्तिलक्षण फरावापिः *
गत्वा गत्वा निवर्त न्ते यज्ञ (43) धर्म परायणाः।
अद्वापि न निवर्त न्ते ये ममाराधने स्थिताः।। 7.55 ।।
(43. कर्म.)
आब्रह्मसदनाल्लोकाः जायनेऽगवस्थिताः।
मल्लोक वासिनो भूयस्संसरन्ति न कुत्रचित्।। 7.56 ।।
तस्माद्भजस्वमां ब्रह्मन् सत्वभावस्थितस्सदा।
- आहारत्रैविध्यम्*
सत्वादि गुणयुक्ताना (44) माहार स्त्रिविधः स्मृतः।
स्निग्थाश्च मधुरा हृद्या स्तिष्ठतः प्रथमे गुणे।। 7.57 ।।
(44. माहारास्त्रीविधास्स्मृताः)
कट्वम्ललवणप्राया मद्यमे (45) तिष्टतः प्रियाः।
रसहीनं यातयामं पूतिगन्थं चिरोषितम्।
उच्छिष्टं प्रीतिजननं जघन्य गुण (46) वर्तिनः।। 7.58 ।।
(45. पि गुणे स्मृताः.) (46.वर्तिनाम्)
सत्वात्सुखमयी निद्रा रजसः कर्मसङ्कुला।
निद्रा दिवानिशं तस्य तमो यस्याधिको गुणः।। 7.59 ।।
- सत्सादिनिष्ठानां गतित्रैविध्यम् *
(47) सत्त्वस्थस्योर्ध्वगमनं स्थितर्म ध्ये रजोऽधिके।
अधो गतिस्तामसानां त्रिविधानां त्रिधा गतिः।। 7.60 ।।
(47. सत्वस्य चोर्ध्व)
- सत्यज्ञानादय स्सत्वनिष्ठस्य गुणाः*
तत्र सत्वं नर्मलत्वात्प्र काशकमनावृतम्।
सत्वं ज्ञानं तपो मौनं धृतिश्शौचं शमः क्षमा।। 7.61 ।।
इत्यादयस्सत्वनिष्ठे गुणाः कल्याण (48) कारिणः।
(48. कारणाः.)
- अहङ्कारादयो रजोनिष्ठस्य गुणाः *
अहङ्कार (49) स्त्रिधा दर्मः क्रोधो दम्भ (50) इतीरितः।। 7.62 ।।
गुणा रजोगुणस्यैते तामसस्य तु कथ्यते।
(49. तथा दर्वः।) (50. इति दुशः।)
* पैशुन्यादयस्तमोनिष्ठस्य गुणाः *
पै शुन्यं परनिन्दा च निद्रा लस्यंऽवृशंसता।। 7.63 ।।
इत्यादयस्तमोऽधीना गुणाः प्रोक्ताश्चतुर्माख।
- रजस्तमसोर्वलयो सत्वविवृद्ध्याज्ञानादिप्राप्तिः *
प्रलीनयोरितरयोर्गुणयोश्च जघन्ययोः।। 7.64 ।।
सत्वे प्रवृद्धे विज्ञानमुत्कृष्टं जायतेऽधिकम्।
तेन प्राप्नोति परमं स्थानं प्रकृति दुर्लभं।। 7.65 ।।
यत्प्राव्य न निवर्त न्ते संसारे दुःख (51) सम्भवे।
देहं त्यजन्तस्सत्वस्था लोकान् यान्ति सनातनान्।। 7.66 ।।
(51. सागरे---सङ्कले.)
रजस्थ्सस्य प्रलीनस्य जस्म (52) मात्रं महाकुले।
प्रलये तमसिस्थस्य पुरुषस्य चतुर्मुख।। 7.67 ।।
(52. कर्मसमाकुले.)
मूढयोनिषु जन्म स्यान्निकृष्टासु पुनः पुनः।
(53) त्यजतोऽन्ते स्मृतिर्येषु देवसम्भन्धमात्मनः।। 7.68 ।।
(53. त्यजत स्संस्मृतीः---नित्यतोन्ते--स्मृतिर्योषु)
भावेषु तं तमाप्नोति पुरुषो भावनावशात्।
पुंसामेवं बहुविधाः गतयस्समुदाहृताः।। 7.69 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे गतिवि शेषकथनं नाम
सप्तमोऽध्यायः
****