प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९ ज्ञानपादः
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्.
दशमोऽद्यायः

  • भारतवर्षवर्णनम् *

श्रीभगवान्------
आदाक्षिणात्यादम्भोधेराशै लाच्च हिमालयात्।
देशोऽयं भारतं वर्षं भूरेषा कर्मणां नृणाम्।। 10.1 ।।
(1) योजनानि सहस्राणि (2) विस्तारश्चैव कथ्यते।
स्वर्गापवर्ग फलदं कर्म कार्यं नृणामिह।। 10.2 ।।
(1. योजनानां) (2. विस्तारो नच. विस्तारे नव.)
सह्यो महेन्द्रो मलयश्शुक्तिमानृक्षनामवान्।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः।। 10.3 ।।
इहैव क्रियमाणस्य कर्मणो नरकं फलम्।
वर्शेष्वन्येषु सर्वेषु केवलं भुज्यते फलम्।। 10.4 ।।
इहैव चातुराश्रम्यं चातुर्वर्ण्य (3) मवस्थितम्।
कृतादियुगभेदानां चतुर्णामिह सम्भवः।
दानां यज्ञं तपो मर्त्याः परलोक फलार्थिनः।
इह कुर्वन्ति यज्ञेशं यजन्ते पुरुषोत्तमम्।। 10.5 ।।
(3.व्यवस्थ्सितिः)
श्रेष्ठं तद्भारतं वर्षं सर्ववर्षेऽषु संमतम्।
फलार्थिनः कामयन्ते कर्मभूषु जनिं भुधाः।। 10.6 ।।
सहस्ताणि तथै वास्मिन् दिव्यानि पुरुषः परः।
आस्ते धामानि सद्यश्च पुण्यास्सन्ति सहस्रशः।। 10.7 ।।
ग्रामाः पुरः पत्तनानि भवन्ति च परश्शतम्।
द्वीपेषु षट्सु चान्येषु सन्ति वर्षाणि सप्त वै।। 10.8 ।।
प्रत्येकं सप्त च ब्रह्मन् भवन्ति कुलपर्वताः।
वर्णानामाश्रमाणां च भेदास्तत्र व्यवस्थिताः।। 10.9 ।।

  • पुष्करद्वीपवर्णनम् *

अन्तिमे पुष्करद्वीपे मानसोत्तरपर्वतः।
मध्ये वलयवद्भाति तस्योच्छ्रायो भिधीयते।। 10.10 ।।
योजनानां सहस्त्राणि पञ्चाशत्तत्समुन्नतिः।
तावानेवस्य विस्तारो द्वीपं तद्विभजन्निव।। 10.11 ।।
स्थितश्शैलवरो ब्रह्मन् द्वे वर्षे परिम़ण्डले।
(4)शैलस्य चान्तर्मानस्य बहिश्च सदृशे उभे।। 10.12 ।।
(4. शैलस्तास्तं मानसस्य.)
तन्मूर्ध्नि लोकपालाना मिन्द्रादीनां यधा (5) पुनः।
पुरस्सन्ति (6) पुवस्तासां नामान्यपि यथापुरम्।। 10.13 ।।
(5.क्रमाम्.) (6. पुरान्तानाम्.)
देवानामपि चान्येषां तत्र सन्ति पुरः पृथक्।
असङ्ख्याता ब्रह्मणश्च पुरी भवति पुष्करे।। 10.14 ।।
स्वादुस्स्वच्छोदकैः पूर्णो वारिधिः पुष्कराद्बहिः।
तेन तद्वेष्टितं द्वीपं यथा (7) न्यान्यर्णवोत्तरैः।। 10.15 ।।
(7. नाभ्यर्णनान्तरैः न्यान्यर्णवान्तरैः)

  • लोकालोकाचलवर्णनम् *

स्वादूदकाद्बहिर्भूमिस्सर्वा चैव हिरण्मयी।
तपनीयमयो ब्रह्मन् लोकालोकाचलो बहिः।। 10.16 ।।
भूलोकस्य समस्तस्य (8) सालव(9) च्चतुरश्रकम्।
आवृत्य तिष्ठतस्तस्य योजनायतमुन्नतिः।। 10.17 ।।
(8.समिपम्.) (9.च्छतुरानन.)
विस्तारश्च न एवास्य मूर्ध्नि सर्वत्र च स्वयम्।
मूर्तिभेदैरपर्यन्तेः परमः पुरुषः स्थितः।। 10.18 ।।
कुमुदादिगणाश्चात्र चक्राधीन्यायुधानि च।
देव्यौ मही च लक्ष्मीश्च विष्वक्सेनः पतत्रिराट्।। 10.19 ।।
स्थानानि मूर्तिभेदानां विष्णोः परिजनस्य च।
सन्ति भूयांसि रम्याणि तत्र तत्र चतुर्मुख।। 10.20 ।।
परं पार्श्वं रविस्तस्य न द्योतवति भानुभिः।
आवृत्य तं तमश्शैलभागं बाह्यमवस्थितम्।। 10.21 ।।
(10) लोकालोकस्स च पुनस्समन्ताद्वेष्टितो गिरिः।
बहिरण्‍डकटाहेन (11) महता समनन्तरम्।। 10.22 ।।
(10. लोकस्य च पुनस्तस्य.) (11. मानसात्.)
योजनानामियं पृथ्वी पञ्चाशत्कोटिभिर्मता।
सहैवाण्‍डकटाहेन सद्वीपाभ्धिमहीधरा।।
अनया ध्रियते सर्वं जगद्धात्री ततः स्मृता।। 10.23 ।।
इति श्री पञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे भूलोकविस्तारकथनं नाम
दशमोऽध्यायः.


**************-------------