← अध्यायः २ ज्ञानपादः
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्।
तृतीयोऽध्यायः
पद्मः----
ब्रह्मण स्सृष्टिरधुना वक्ष्यते द्विजसत्तम।
नारायणोऽसृहजत्तोयं तत्रैवासीन्महार्णवः।। 3.1 ।।
अनिरुद्धांशजा दुर्गा मायारूपा सुमोहिनी।
न्यग्रोधमसृजत्तस्मिन् मायारूपे महाद्रुमे।। 3.2 ।।
अनिरुद्धांशजश्श्रीमान् पद्मनाभः पुरातनः।
संहृत्य लोकान् पुरुषः पर्णपर्यङ्कमेयिवान्।। 3.3 ।।
वटपत्रशायिनो नाभीपद्मे चतुर्मुखसृष्टिः।
तत्र पुंसश्शयानस्य नागपर्यङ्कभूषिते।
हिरण्मयं पद्मगर्भम् नाभेरण्डमजायत।। 3.4 ।।
तदण्डं पञ्चभूतात्मभूतं शुद्धमतर्कितम्।
अण्डस्य पर्धमानस्य मध्ये पद्मं सितप्रभम्।। 3.5 ।।
सहस्रदलपर्यन्तमन्तः केसरमण्‍डितम्।
मध्ये (1) कर्णिकया युक्तमद्भुतम् सृष्टिकारणम्।। 3.6 ।।
स्रष्टारमसृजत्तस्मिन् पद्मनाभश्चतुर्मुखम्।
(1. मणिकया)
पद्मासनम्.
आसनं ब्रह्मणो यस्मात्पद्म मादावभूत्ततः।। 3.7 ।।
अन्येषामपि देवाना मासनं पद्ममिष्यते।
सनन्दनादीनां सृष्टिकार्यविमुखता
सनन्दनादीनसृजत्सष्ट्यर्थं पद्मभूस्स्वयम्।। 3.8 ।।
स्रष्टुं मनो न दधिरे ते च स्वायम्भवास्तदा।
सर्वे ते योगिनो जाता वीतरागा विमत्सराः।। 3.9 ।।
ब्रह्मणः क्रोधाद्रुद्रसृष्टिः
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मसु।
ब्रह्मणो भून्महान् क्रोधस्त्रैलोक्यदहनक्षमः।। 3.10 ।।
भ्रुकुटीकुटिला त्तस्य ललाटात्क्रोधदीपितात्।
समुत्पन्नस्तदा रुद्रो युगान्ताग्नि समप्रभः।। 3.11 ।।
अर्धनारीनरवपु र्महाकायः प्रतापवान्।
संविभज्यात्मनो देवं नरं नारीं च निर्ममे।। 3.12 ।।
मिथुनाज्जज्ञिरे तस्माद्रुद्राणां कोटयस्तथा।
सर्वे चतुर्भुजाः क्रूराः त्रिणेत्राश्शूलपाणयः।। 3.13 ।।
तेषु प्रधाना विप्रेन्द्र रुद्रा एकादश स्मृताः।
मरीच्यादिभिर्जगत्सृष्षिः
रुद्रसृष्ठिमपि ब्रह्मा व्यर्थमालोक्य लोककृत्।। 3.14 ।।
मरीच्यादीन् षडपरान् मनसा विर्ममे पुनः।
तैरेतदखिलं सृष्ठं त्रैलोक्यं सचराचरम्।। 3.15 ।।
ब्रह्मणः परमपुरुषदर्शनम्।
एवं सृष्ट्वा जगदिदं पद्मयोनिश्चतुर्मुखः।
ध्यानं परममातस्थौ कारणं स्वस्य चिन्तयन्।। 3.16 ।।
ध्यायतस्तस्य पुरतः तेजः पुञ्जमिवाभवते।
दिवाकरसहस्राभं विद्युत्सङ्घातसन्निभम्।। 3.17 ।।
तन्मध्ये पुरुषश्रेष्ठं पीतनिर्मलवाससम्।
शङ्खचक्रगधापद्मं धारयन्तं चतुर्भुजम्।। 3.18 ।।
श्रीवत्साङ्णं प्रसस्नास्यं कौस्तुभेन विराजितम्।
स्फुत्किरीटहाराद्यै र्भूषणै रुपशोभितम्।। 3.19 ।।
(2) तं दृष्ट्वा पुरुषश्रेष्ठं पद्मयोनिरचिन्तयत्।
एष एव परो देवस्सर्वस्य जगतः प्रभुः।। 3.20 ।।
(2. श्रुश्रूषमाणाय.)
नास्मात्परतरः कश्चीद्धृश्यते पुरुषः स्थितः।
तमेव संशर्यान् प्रष्टुं विविधानुपचक्रमे।। 3.21 ।।
ब्रह्माः---
कस्त्वमत्यद्भुताकारः पुरुषः पुरुषोत्तम।
मह्यं (3) जिज्ञातमानाय आत्सानं दर्शयस्वमे।। 3.22 ।।
श्रीभगवान्----
स्रष्टारं सर्वलोकानां पुराणं पुरुषं परम्।।
अनादिमध्यनिधनं विद्धि मामचलं ध्रुवम्।। 3.23 ।।
कारणं सर्वलोकस्य मा च भूत्संशयस्तव।
संशयस्य त्वदीयस्य च्छेत्तारं मामुपस्थितम्।। 3.24 ।।
ब्रह्माः---
धन्योस्म्यनुगृहीतोऽस्मि पूर्णाकामोऽस्मि शाश्वत।
अज्ञातं नास्ति ते ज्ञेयं कर्तव्यं नास्ति चाकृतम्।। 3.25 ।।
नानवाप्तमवाप्तव्यं त्रिषु लोकेषु विद्यते।
कस्य हेतोर्जगत्स्रष्टुं भवान् प्रेरयसे वद।। 3.26 ।।
श्रीभगवन्---
क्रीडामि केवलं ब्रह्मन् सृष्टिसंहारपालनैः।
लोकानामपि सर्वेषामहं केनापि हेतुना।। 3.27 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे ब्रह्मादिसृष्टिप्रकारो नाम


*********--------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_३&oldid=206954" इत्यस्माद् प्रतिप्राप्तम्