प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय १३ ॥

               ॥ श्रीरस्तु ॥

        भरतमुनिप्रणीतं नाट्यशास्त्रम्
           अथ त्रयोदशोऽध्यायः
ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः ।
तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ १॥

ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते ।
तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ २॥

कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् ।
परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ ३॥

कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च ।
उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ ४॥

पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् ।
वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ ५॥

अलोकश्चैव लोकश्च रसातलमथापि च ।
दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ ६॥

नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा ।
यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ ७॥

बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः ।
दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ ८॥

पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः ।
पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ ९॥

तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् ।
दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् ॥ १०॥

यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च ।
सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे न नित्यशः ॥ ११॥

निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् ।
यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ १२॥

निष्क्रान्तोऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् ।
यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ १३॥

अथवार्थवशाच्चापि तेनैव सह गच्छति ।
तथैव प्रविशेत् गेहमेकाकी सहितोऽपि वा ॥ १४॥

तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् ।
परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ १५॥

समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः ।
अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ १६॥

सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः ।
मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ १७॥

नगरे वा वने वापि सागरे पर्वतेऽपि वा ।
दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ १८॥

आकाशेन विमानेन माययाप्यथ वा पुनः ।
विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १९॥

नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः ।
मानुषे कारणादेषां यथा भवति दर्शनम् ॥ २०॥

भारते त्वथ हैमे वा हरिवर्ष इलावृते ।
रम्ये किम्पुरुषे वापि कुरुषूत्तरकेषु वा ॥ २१॥

दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् ।
भारते मानुषाणाञ्च गमनं संविधीयते ॥ २२॥

गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः ।
अङ्कच्छेदे तमन्यस्मिन् निर्दिशेद्धि प्रवेशके ॥ २३॥

अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् ।
तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ २४॥

क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके ।
एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ २५॥

अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा ।
नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ २६॥

एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः ।
मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ २७॥

हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे ।
यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ २८॥

रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः ।
हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ २९॥

सर्वे नागाश्च निषधे शेषवासुकितक्षकाः ।
महामेरौ त्रयस्त्रिंशद् ज्ञेया देवगणा बुधैः ॥ ३०॥

नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा ।
दैत्यानां दानवानाञ्च श्वेतपर्वत इष्यते ॥ ३१॥

पितरश्चापि विज्ञेया शृङ्गवन्तं समाश्रिताः ।
इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ ३२॥

तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् ।
तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ ३३॥

परिच्छ(च्छे)दविशेषस्तु तेषां मानुषलोकवत् ।
सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ ३४॥

तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः ।
इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ ३५॥

दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते ।
एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ ३६॥

पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् ।
चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः ।
आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी ॥ ३७॥

अत्राह प्रवृत्तिरिति कस्मात् ? उच्यते पृथिव्यां
नानादेशवेषभाषाचारवार्ताः प्रख्यापयतीति वृत्तिः ।
प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो
देशाः सन्ति , कथमासां चतुर्विधत्वम् उपपन्नं,
समानलक्षणश्चासां प्रयोग उच्यते , सत्यमेतत् ।
समानलक्षण आसां प्रयोगः । किन्तु
नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन
वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया
चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी
चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः
प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र
दाक्षिणात्यास्तावत् बहुनृत्तगीतवाद्या कैशिकीप्रायाः
चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा -
महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः ।
एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ ३८॥

कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः ।
द्रविडान्ध्रमहाराष्ट्रा वैष्णा वै वानवासजाः ॥ ३९॥

दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे ।
ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ ४०॥

आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा ।
सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ ४१॥

दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः ।
कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ ४२॥

सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता ।
भवेत् प्र्योगो नाट्येऽत्र स तु कार्यः प्रयोक्तृभिः ॥ ४३॥

अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः ।
पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ ४४॥

तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः ।
ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ ४५॥

प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः ।
प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ ४६॥

अन्येऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः ।
तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ ४७॥

पाञ्चाला सौरसेनाश्च काश्मीरा हस्तिनापुराः ।
बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ ४८॥

हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् ।
ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥ ४९॥

पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता ।
प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ ५०॥

द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे ।
प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ ५१॥

आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे ।
अपसव्यप्रदेशास्तु पाञ्चाली चोढ्रमागधी ॥ ५२॥

आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् ।
पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ ५३॥

एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः ।
पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ ५४॥

येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता ।
तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ ५५॥

एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि ।
अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ ५६॥

सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् ।
येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ ५७॥

प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ।
सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ ५८॥

यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् ।
मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ ५९॥

पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च ।
सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ ६०॥

डिमः समवकारश्च व्यायोगेहामृगौ तथा ।
एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ ६१॥

एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः ।
उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ ६२॥

नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके ।
सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ ६३॥

अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते ।
विदिक्ष्वपि भवेद्रङ्गः कदाचिद् भर्तुराज्ञया ॥ ६४॥

पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः ।
सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ ६५॥

द्वाराणि षट् चैव भवन्ति चास्य
रङ्गस्य दिग्भागविनिश्चितानि ।
नाट्यप्रयोगेण खलु प्रवेशे
प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ ६६॥

विधानमुत्क्रम्य यथा च रङ्गे
विना प्रमाणाद्विदिशः प्रयोगे ।
द्वारन्तु यस्मात्समृदङ्गभाण्डं
प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ ६७॥

वयोऽनुरूपः प्रथमन्तु वेशो वेशोऽनुरूपश्च गतिप्रचारः ।
गतिप्रचारानुगतश्च पाठ्यं
पाठ्यानुरूपाभिनयश्च कार्यः ॥ ६८॥

धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः ।
लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ ६९॥

स्वभावभावोपगतं शुद्धं त्वविकृतं तथा ।
लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ ७०॥

स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् ।
यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ ७१॥

अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् ।
लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ ७२॥

स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् ।
यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ ७३॥

लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते ।
मूर्तिमत् साभिलाषञ्च नाट्यधर्मी तु सा स्मृता ॥ ७४॥

आसन्नोक्तन्तु यद्वाक्यं न शृण्वन्ति परस्परम् ।
अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ ७५॥

शैलयानविमानानि चर्मवर्मायुधध्वजाः ।
मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ ७६॥

य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् ।
कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ ७७॥

या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते ।
गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ ७८॥

ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः ।
नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ ७९॥

योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः ।
सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ ८०॥

यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः ।
दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ ८१॥

यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः ।
रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ ८२॥

नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् ।
न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ ८३॥

सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः ।
अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ ८४॥

एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च ।
विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ ८५॥

उक्तो मयेहाभिनयो यथावत् शाखाकृतो यश्च कृतोऽङ्गहारैः ।
पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ ८६॥

इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम
त्रयोदशोऽध्यायः ।