प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय २० ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ विंशोऽध्यायः ।
समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः ।
यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम् ॥ १॥

एकार्णवं जगत् कृत्वा भगवानच्युतो यदा ।
शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ॥ २॥

अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ ।
तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया ॥ ३॥

निजबाहू विमृदनन्तौ भूतभावनमक्षयम् ।
जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ ४॥

बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् ।
नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम् ॥ ५॥

तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा ।
श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् ॥ ६॥

किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते ।
उत्तरोत्तरसम्बद्धा नन्विमौ निधनं नयः ॥ ७॥

पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः ।
कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ ८॥

वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति ।
तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ॥ ९॥

शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् ।
योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ ॥ १०॥

भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा ।
अतिभारोऽभवद् भूमेर्भारती तत्र निर्मिता ॥ ११॥

वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ ।
सत्वाधिकैरसम्भ्रान्तैः सात्त्वती तत्र निर्मिता ॥ १२॥

विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १३॥

संरम्भावेगबहुलैर्नानाचारी समुत्थितैः ।
नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः ॥ १४॥

यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् ।
तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत् ॥१५॥

यदा हतौ तावसुरौ हरिणा मधुकैटभौ ।
ततोऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् ॥ १६॥

अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि ।
अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ १७॥

तस्मादयं हि लोकस्य नियुद्धसमयक्रमः ।
सर्वशस्त्रविमोक्षेषु न्यायसन्ज्ञो भविष्यति ॥ १८॥

न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ।
यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः ॥ १९॥

[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः ।
न्यायसन्ज्ञः कृतो ह्येष द्रुहिणेन महात्मना॥ २०॥

ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना ।
पुनरिष्वस्त्रजाते च नानाचारीसमाकुले ॥ २१॥

पुनर्नाट्यप्रयोगेषु नानाभावसम्न्विताः ।
वृत्तिसन्ज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः] ॥ २२॥

चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् ।
ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता ॥ २३॥

नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका ।
मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ २४॥

ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती ।
कैशिकी सामवेदाच्च शेषा चाथर्वणादपि ॥ २५॥

या वाक्प्रधाना पुरुषप्रयोज्या
स्त्रीवर्जिता सङ्कृतपाठ्ययुक्ता ।
स्वनामधेयैर्भरतैः प्रयुक्ता
सा भारती नाम भवेत्तु वृत्तिः ॥ २६॥

भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः ।
प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ २७॥

जयाभ्युदयिनी चैव मङ्गल्या विजयावहा ।
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ २८॥

[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया ।
सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना] ॥ २९॥

नटी विदूषको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्तु कुर्वते ॥ ३०॥

चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा ।
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ॥ ३१॥

[लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च ।
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः] ॥ ३२॥

उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु ॥ ३३॥

उद्धात्यकावलगितलक्षणं कथितं मया ।
शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः ॥ ३४॥

सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।
गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः ॥ ३५॥

प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् ।
ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ ३६॥

कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते ।
तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ॥ ३७॥

एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः ।
[तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते ॥ ३८॥

पात्रग्रन्थैरसम्बाध प्रकुर्यादामुखं ततः ।
एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ॥ ३९॥

लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ।
[इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता ।
सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ] ॥ ४०॥

या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः
॥ ४१॥

वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु ।
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ४२॥

वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा ।
उद्धतपुरुषप्राया परस्पराधर्षणकृता च ॥ ४३॥

उत्थापकश्च परिवर्तकश्च सल्लापकश्च सङ्घात्यः ।
चत्वारोऽस्या भेदा विज्ञेया नाट्यकोविदैअः ॥ ४४॥

अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् ।
इति सङ्घर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः ॥ ४५॥

उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् ।
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ ४६॥

[निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः ।
सङ्घर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः] ॥ ४७॥

साधर्षजो निराधर्षजोऽपि वा रागवचसंयुक्तः ।
साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि ॥ ४८॥

[धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् ।
साधिक्षेपं च वचो ज्ञेयः संलापको नाम] ॥ ४९॥

मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा ।
सङ्घातभेदजननस्तज्ज्ञैः सङ्घात्यको ज्ञेयः ॥ ५०॥

[बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् ।
कूटानां सङ्घातो विज्ञेयः कूटसङ्घात्यः ] ॥ ५१॥

इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता ।
कैशिक्यास्त्वथ लक्षणमतःपरं सम्प्रवक्ष्यामि ॥ ५२॥

या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता ।
कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५३॥

[बहुवद्यनृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या ।
माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च ॥ ५४॥

चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः ।
स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः] ॥ ५५॥

नर्म च नर्मस्फुञ्जो नर्मस्फोटोऽथ नर्मगर्भश्च ।
कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ ५६॥

आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ ५७॥

ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च ।
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ ५८॥

नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः ।
ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव ॥ ५९॥

विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः ।
असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ ६०॥

विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र ।
प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भोऽसौ ॥ ६१॥

[पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् ।
तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ] ॥ ६२॥

इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता ।
अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि ॥ ६३॥

आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता ।
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ ६४॥

[आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् ।
चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति
॥ ६५॥

शाड्गुण्यसमार्ब्धा हठातिसन्धानविद्रवोपेता ।
लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी ॥ ६६॥

संक्षिप्तकावपतौ वस्तूत्थापनमथापि सम्फेटः ।
एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि ॥ ६७॥

अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः ।
संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम ॥ ६८॥

भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् ।
क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ॥ ६९॥

सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि ।
नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ ७०॥

संरम्भसम्प्रयुक्तो बहुयुद्धकपटनिर्भेदः ।
शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः ॥ ७१॥

एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया ।
रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ ७२॥

हास्यशृङ्गरबहुला कैशिकी परिचक्षिता ।
सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः ॥ ७३॥

रौद्रे भयानके चैव विज्ञेयारभटी बुधैः ।
बीभत्से करुणे चैव भारती सम्प्रकीर्तिता ॥ ७४॥

[ न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः ।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ ७५॥

सर्वेषां समवेतानां यस्य रूपं भवेद्बहु ।
स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः] ॥ ७६॥

वृत्यन्त एशोऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् ।
आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः ॥ ७७॥

इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नाम विंशोऽध्यायः ।