1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७


॥ नाट्यशास्त्रम् अध्याय ३३ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ त्रयस्त्रिंशोऽध्यायः ।
गुणात् प्रवर्तते गानं दोषं चैव निरस्यते ।
तस्माद्‍यत्‍नेन विज्ञेयौ गुणदोषौ समासतः ॥ १ ॥

गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः ।
लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥

रूपगुणकान्तियुक्‍ता माधुर्योपेतसत्वसम्पन्नाः ।
पेशलमधुरस्‍निग्धानुनादिसमरक्‍त गुरु (शुभ) कण्ठाः ॥ ३
सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः ।
आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ४ ॥

प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः ।
स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ ५ ॥

यत्र स्त्रीणां पाठ्यात्(ठ्यं) गुणैर्नराणां च गानमधुरत्वम् ।
ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ६ ॥

सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ ।
गातृगुणैश्‍चोपेताववहितमनसौ सुसङ्गीतौ ॥ ७ ॥

स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च ।
चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ ८ ॥

बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः ।
श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ ९ ॥

अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् ।
स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ १० ॥

ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि
 षडाचार्यगुणा इति ।
तत्र ज्ञानं शास्त्रावबोधः । यथा च
क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् ।
जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः ।
शिष्यस्वभावमविशेष्योपात्तय
उपदेशाच्छिष्यनिष्पादनमिति ॥ ११ ॥

श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् ।
त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः ॥ १२ ॥

उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते ।
श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ १३ ॥

अरूक्षध्वनिसंयुक्‍तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः ।
मनःप्रह्‍लादनकरः स वै मधुर उच्यते ॥ १४ ॥

स्वरेऽधिके च हीने च ह्यविरक्‍तो विधानवान् ।
शिरःकण्ठेष्वभिहितन्त्रिस्थानमधुरस्वरः ।
त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥

कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च ।
काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ १६ ॥

वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् ।
कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ १७ ॥

ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते ।
रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ १८ ॥

दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः ।
यो न विस्तरति स्थाने स्वरमुच्‍चारणागतम् ॥ १९ ॥

नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते ॥ २० ॥

अन्ये तु
समप्रहरणे चैव जविनौ विशदौ तथा ।
जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ ।
तथा बृयन्‍नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ २२ ॥

पूर्वं यदुक्‍तं प्रपितामहेन ।
कुर्यात् य एवं तु नरः प्रयोगे
सम्मानमग्रयं लभते स लोके ॥ २३ ॥

इति भरतीये नाट्यशास्त्रे गुणदोषविचारो
नामाध्यायस्त्रयस्त्रिंशः ॥ ३३ ॥