प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय २४ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
चतुर्विंशोऽध्यायः
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता ।
पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ १॥

जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा ।
दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥२॥

नानाशास्त्रार्थसम्पन्ना गाम्भीर्यौदार्यशालिनी ।
स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ ३॥

लोकोपचारचतुरा शिल्पशास्त्रविशारदा ।
विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ ४॥

रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः ।
क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ ५॥

पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः ।
मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ ६॥

सूचकाः पापकर्माणः परद्रव्यापहारिणः ।
एभिर्दोषैस्तुसम्पन्ना भवन्तीहाधमा नराः ॥ ७॥

एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता ।
स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ ८॥

मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा ।
गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ ९॥

रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता ।
गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ १०॥

नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः ।
अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ ११॥

अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता ।
विज्ञेया सैव नारीणामधमानां समासतः ॥ १२॥

नपुंसकस्तु विज्ञेयः सङ्कीर्णोऽधम एव च ।
प्रेष्यादिरपि विज्ञेया सङ्कीर्णा प्रकृतिद्विजाः ॥ १३॥

शकारश्च विटश्चैव ये चान्येप्येवमादयः ।
सङ्कीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ १४॥

एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः ।
आसां तु सम्प्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ १५॥

अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः ।
मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ १६॥

धीरोद्धता धीरललिता धीरोदात्तास्तथैव च ।
धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ १७॥

देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ १८॥

धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा ।
एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ १९॥

लिङ्गी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् ।
देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ २०॥

विप्रलम्भसुहृदोमी सङ्कथालापपेशलाः ।
व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ॥ २१॥

तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः ।
यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ २२॥

सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः ।
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ २३॥

एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः ।
धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ २४॥

दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि ।
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ २५॥

ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके ।
[प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ॥ २६॥

बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् ।
तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ २७॥

ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते ।
अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ २८॥

स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । ]
राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ २९॥

महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि ।
भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥३०॥

अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः ।
तथा सञ्चारिकाश्चैव तथा प्रेषणकारिकाः ॥ ३१॥

महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि ।
आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ ३२॥

अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता ।
गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ ३३॥

मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा ।
शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ ३४॥

शान्ता पतिव्रता धीरा अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ ३५॥

एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः ।
गर्विताश्चातिसौभाग्याः पतिसम्भोगतत्पराः । ३६॥

शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः ।
वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ॥ ३७॥

सेनापतेरमात्यानां भृत्यानामथवा पुनः ।
भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ ३८॥

शीलरूपगुणैर्यास्तु सम्पन्ना नृपतेर्हिताः ।
स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ ३९॥

रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः ।
रतिसम्भोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ ४०॥

दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा ।
नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ ४१॥

उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः ।
मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ ४२॥

कुलशीललब्धपूजामृदवो नातिचोद्भटाः ।
मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ ४३॥

नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः ।
गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ ४४॥

शयनासनभागज्ञाश्चतुरा मधुरास्तथा ।
दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ ४५॥

ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः ।
चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ ४६॥

रूपयौवनसम्पन्ना नाटकीयास्तु ताः स्मृताः ।
हेलाभावविशेषाढ्या सत्वेनाभिनयेन च । ४७॥

माधुर्येन च सम्पन्ना ह्यातोद्यकुशला तथा ।
अङ्गप्रत्यङ्गसम्पन्ना चतुष्षष्ठिकलान्विता ॥ ४८॥

चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः ।
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ४९॥

नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा ।
अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसम्पन्ना ॥ ५०॥

पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च ।
समागतासु नारीषु रूपयौवनकन्तिभिः ॥ ५१॥

न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता ।
सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्। ॥ ५२॥

विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका ।
शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ ५३॥

संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका ।
तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ ५४॥

एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः ।
नानाकक्ष्या विचारिण्यः तथोअपवनसञ्चराः ॥ ५५॥

देवतायतनक्रीडा प्रासादपरिचारिकाः ।
यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ ५६॥

सञ्चारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः ।
प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ ५७॥

नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः ।
सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ ५८॥

या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः ।
सन्धिविग्रहसम्बद्धनानाचारसमुत्थितम् ॥ ५९॥

निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः ।
अप्राप्तरससम्भोगा न सम्भ्रान्ता न चोद्भटाः ॥ ६०॥

निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः ।
पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ ६१॥

पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः ।
भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ ६२॥

फलमूलौषधीनां च तथा चैवान्ववेक्षकी ।
गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ ६३॥

बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः ।
इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ ६४॥

विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः ।
अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ ६५॥

या नियुक्ता नियोगेषु कार्येषु विविधेषु च ।
न चोद्भटा असम्भ्रान्ता न लुब्धा नापि निष्ठुराः ॥ ६६॥

दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः ।
अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ ६७॥

सा त्वन्तःपुरसञ्चारे योज्या पार्थिववेश्मनि ।
कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ ६८॥

औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि ।
रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ ६९॥

अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् ।
सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ ७०॥

विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः ।
जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१॥

ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः ।
प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ ७२॥

एतदष्टादशविधं प्रोक्तमन्तःपुरं मया ।
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसम्भवम् ॥ ७३॥

राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा ।
सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ॥ ७४॥

एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु ।
वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ ७५॥

बलवान् बुद्धिसम्पन्नः सत्यवादी जितेन्द्रियः ।
दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ॥ ७६॥

दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः ।
लोकपालव्रतधरः कर्ममार्गविशारदः ॥ ७७॥

उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् ।
परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ ७८॥

ऊहापोहविचारी च नानाशिल्पप्रयोजकः ।
नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ ७९॥

धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः ।
कुलीना बुद्धिसम्पन्ना नानाशास्त्रविपश्चिताः ॥ ८०॥

स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः ।
अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ ८१॥

पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि ।
बुद्धिमान्नीतिसम्पन्नस्त्यक्तालस्यः प्रियंवदः ॥ ८२॥

पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् ।
अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ ८३॥

देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा ।
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ८४॥

मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः ।
क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ ८५॥

ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः ।
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ ८६॥

स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा ।
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ८७॥

सर्वशात्रार्थसम्पन्नाः कुमाराधिकृतास्तथा ।
बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ ८८॥

विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् ।
इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः ॥ ८९॥

अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ॥

इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो
नामाध्यायश्चतुर्विंशः ॥