नाट्यशास्त्रम्/अध्यायः ३७
॥ नाट्यशास्त्रम् अध्याय ३७ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ सप्तत्रिंशोऽध्यायः ।
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः ।
प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥
प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् ।
गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ २ ॥
स चिन्तयित्वा मनसा कथमेष गृहे मम ।
नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥
कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः ।
अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥
प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः ।
दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥
हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् ।
आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः ।
इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥
पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् ।
व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥
पितामहगृहेऽस्माकं तदन्तःपुरे जने ।
पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥
तस्याः प्रणाशशोकेन उन्मादोपरते नृपे ।
विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥
प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् ।
तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥
तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् ।
स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥
तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा ।
सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ १३ ॥
अयं हि नहुषो राजा याचते नः कृताञ्जलिः ।
गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ १४ ॥
करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते ।
ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥
तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले ।
न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥
अस्माकं चैव सर्वेषां नहुषस्य महात्मनः ।
आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयम्भुवा ॥ १७ ॥
शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति ।
प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥
अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् ।
अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः ।
स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥
अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः ।
बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥
पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् ।
ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ २२ ॥
एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् ।
भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥
कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः ।
मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ २४ ॥
एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् ।
त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् ।
मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा ।
कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ २६ ॥
या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् ।
या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ २७ ॥
दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् ।
प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥
न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः ।
यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥
गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् ।
स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३० ॥
एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् ।
नोक्तं यच्चात्र लोकादनुकृतिकरणात् ।
संविभाव्यं तु तज्ज्ञैः ॥
किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा ।
शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥
इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥
॥ नाट्यशास्त्रम् सम्पूर्णम् ॥