नाट्यशास्त्रम्/अध्यायः १६
॥ नाट्यशास्त्रम् अध्याय १६ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ षोडशोऽध्यायः
विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ।
प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयश्च हेतुः ॥ १॥
सारूप्यमिथ्याध्यवसायसिद्धि
पदोच्चयाक्रन्दमनोरथाश्च ।
आख्यानयाञ्चाप्रतिषेधपृच्छा
दृष्टान्तनिर्भासनसंशयाश्च ॥ २॥
आशीः प्रियोक्तिः कपटः क्षमा च
प्राप्तिश्च पश्चात्तपनं तथैव ।
अर्थानुवृत्तिर्ह्युपपत्तियुक्ती
कार्योऽनुनीतिः परिदेवनं च ॥ ३॥
षट्त्रिंशदेतानि हि लक्षणानि
प्रोक्तानि वै भूषणसंमितानि ।
काव्येषु भावार्थगतानि तज्ज्ञैः
सम्यग् प्रयोज्यानि यथारसं तु ॥ ४॥
अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् ।
भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम् ॥ ५॥
यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते ।
तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ ६॥
सिद्धैरर्थैस्समं कृत्वा ह्यसिद्धोऽर्थः प्रसाध्यते ।
यत्र श्लक्ष्णविचित्रार्था सा शोभेत्यभिधीयते ॥ ७॥
धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः ।
न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः ॥ ८॥
कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः ।
दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् ॥ ९॥
लोके गुणातिरिक्तानां बहूनां यत्र नामभिः ।
एकोऽभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम् ॥ १०॥
उत्साहजननैः स्पष्टैरर्थैरोपम्यसंश्रयैः ।
प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः ॥ ११॥
यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि ।
यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ १२॥
निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव वा ।
सिद्धिप्रसाधितं तथ्यमतथ्यं चाप्रसाधितम् ॥ १३॥
गुणानुवादो हीनानामुत्तमैरुपमाकृतः ।
उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ १४॥
बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् ।
सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ १५॥
अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन ।
लक्षणसमानकरणात् सारूप्यं तत्तु निर्देश्यम् ॥ १६॥
अभूतपूर्वैर्यत्रार्थैस्तुल्यस्यार्थस्य निर्णयः ।
स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ १७॥
बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते ।
एकार्थसाधनकृतं सा सिद्धिरिति कीर्त्यते ॥ १८॥
गुणैर्बहुभिरेकार्थैः पदैर्यः सम्प्रशस्यते ।
पदोच्चयं तु तद्विद्यान्नानार्थग्रथनात्मकम् ॥ १९॥
आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः ।
तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ २०॥
हृदयस्थस्य भावस्य सुस्पष्टार्थप्रदर्शनम् ।
अन्यापदेशकथनैर्मनोरथ इति स्मृतः ॥ २१॥
अपृष्टैरथवा पृष्टैर्निर्णयः क्रियते तु यः ।
आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ २२॥
आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् ।
यत्तु प्रियं पुनर्वाक्यं सा याञ्चा परिकीर्तिता ॥ २३॥
कार्येषु विपरीतेषु यदि किञ्चित् प्रवर्तते ।
निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः ॥ २४॥
यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् ।
पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ २५॥
विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् ।
निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ २६॥
अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम् ।
अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते ॥ २७॥
अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते ।
सोऽनेकत्वाद्विचाराणाअं संशयः परिकीर्तितः ॥ २८॥
यत्र शास्त्रार्थसम्पन्नां मनोरथसमुद्भवाम् ।
अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥ २९॥
आदौ यत् क्रोधजननमन्ते हर्षप्रवर्धनम् ।
तत् प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ ३०॥
छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकङ्कपटम् ।
द्वित्रिप्रयोगयुक्तो विज्ञेयः कपटसङ्घातः ॥ ३१॥
दुर्जनोदाहृतै रूक्षैः सभामध्येऽतिताडितः ।
अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ ३२॥
दृष्ट्वैवावयवं कञ्चिद्भावो यत्रानुमीयते ।
प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ ३३॥
अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा ।
सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ ३४॥
प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् ।
स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ ३५॥
प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः ।
सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ॥ ३६॥
साध्यते योऽर्थसम्बन्धो महद्भिः समवायतः ।
परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ ३७॥
यत्रापसारयन् दोषं गुणमर्थेन योजयेत् ।
गुणाभिवादं दोषान् वा कार्यं तल्लक्षणं विदुः ॥ ३८॥
अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् ।
सेवार्थं मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ ३९॥
दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजयेत् ।
अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिदेवनम् ॥ ४०॥
उपमा रूपकं चैव दीपकं यमकं तथा ।
अलङ्कारास्तु विज्ञेया चत्वारो नाटकाश्रयाः ॥ ४१॥
यत्किञ्चित् काव्यबन्धेषु सादृश्येनोपमीयते ।
उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ ४२॥
एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः ।
अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ ४३॥
तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया ।
शशाङ्कवत् प्रकाशन्ते ज्योतींषीति भवेत्तु या ॥ ४४॥
एकस्यानेकविषया सोपमा परिकीर्तिता ।
श्येनबर्हिणभासानां तुल्यार्थमिति या भवेत् ॥ ४५॥
एकस्य बहुभिः साम्यादुपमा नाटकाश्रया ।
बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ ४६॥
प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।
या किञ्चित्सदृशी ज्ञेया सोपमा पञ्चधा बुधैः ॥ ४७॥
प्रशंसा यथा -
दृष्ट्वा तु तां विशालाक्षीं तुतोष मनुजाधिपः ।
मुनिभिः साधितां कृच्छ्रात् सिद्धिं मूर्तिमतीमिव ॥ ४८॥
निन्दा यथा -
सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् ।
वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् ॥ ४९॥
कल्पिता यथा -
क्षरन्तो दानसलिलं लालामन्थरगामिनः ।
मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ॥ ५०॥
सदृशी यथा -
यत्त्वयाद्य कृतं कर्म परिचित्तानुरोधिना ।
सदृशं तत्तवैव स्यादतिमानुषकर्मणः ॥ ५१॥
किञ्चित्सदृशी यथा -
सम्पूर्णचन्द्रवदना नीलोत्पलदलेक्षणा ।
मत्तमातङ्गगमना सम्प्राप्तेयं सखी मम ॥ ५२॥
उपमाया बुधैरेते भेदा ज्ञेयाः समासतः ।
शेषा ये लक्षणैर्नोक्तास्ते ग्राह्याः काव्यलोकतः ॥ ५३॥
नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् ।
एकवाक्येन संयुक्तं तद्दीपकमुच्यते ॥ ५४॥
प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् ।
काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ ५५॥
यथा - सरांसि हंसैः कुसुमैश्च वृक्षा
मत्तैर्द्विरेफैश्च सरोरुहाणि ।
गोष्ठीभिरुद्यानवनानि चैव
तस्मिन्नशून्यानि सदा क्रियन्ते ॥ ५६॥
स्वविकल्पेन रचितं तुल्यावयवलक्षणम् ।
किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥ ५७॥
नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् ।
रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ ५८॥
यथा - पद्माननास्ताः कुमुदप्रहासा विकासिनीलोत्पलचारुनेत्राः ।
वापीस्त्रियो हंसकुलैर्नः
स्वनद्भिर्विरेजुरन्योन्यमिवाह्वयन्त्यः ॥ ५९॥
शब्दाभ्यासस्तु यमकं पदादिषु विकल्पितम् ।
विशेषदर्शनञ्चास्य गदतो मे निबोधत ॥ ६०॥
पादान्तयमकं चैव काञ्चीयमकमेव च ।
समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ ६१॥
यमकं चक्रवालं च सन्दष्टयमकं तथा ।
पदादियमकञ्चैव ह्याम्रेडितमथापि च ॥ ६२॥
चतुर्व्यवसितञ्चैव मालायमकमेव च ।
एतादृशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ ६३॥
चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् ।
तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ ६४॥
दिनक्षयात् संहृतरश्मिमण्डलं
दिवीव लग्नं तपनीयमण्डलम् ।
विभाति ताम्रं दिवि सूर्यमण्डलं
यथा तरुण्याः स्तनभारमण्डलम् ॥ ६५॥
लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः ।
जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ ६६॥
पादस्यान्ते तथा चादौ स्यातां यत्र समे पदे ।
तत्काञ्चीयमकं चैव विज्ञेयं सूरिभिर्यथा ॥ ६७॥
यामं यामं चन्द्रवतीनां द्रवतीनां
व्यक्ताव्यक्ता सारजनीनां रजनीनाम् ।
फुल्ले फुल्ले सम्भ्रमरे वाभ्रमरे वा
रामा रामा विस्मयते च स्मयते च ॥ ६८॥
अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते ।
समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ ६९॥
केतकीकुसुमपाण्डुरदन्तः
शोभते प्रवरकाननहस्ती ।
केतकीकुसुमपाण्डुरदन्तः
शोभते प्रवरकाननहस्ती ॥ ७०॥
एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदि ।
विक्रान्तयमकं नाम तद्विज्ञेयमिदं यथा ॥ ७१॥
स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः ।
अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ॥ ७२॥
पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः ।
चक्रवच्चक्रवालं तु विज्ञेयं नामतो यथा ॥ ७३॥
तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः ।
सर्वत्र चक्रवालन्तु तद्विज्ञेयं बुधैर्यथा ॥ ७४॥
शैला यथा शत्रुभिराहता हता
हताश्च भूयस्त्वनुपुङ्खपुङ्खगैः ।
खगैश्च सर्वैर्युधि सञ्चिताश्चिता-
श्चिताधिरूढा निहितास्तलैस्तलैः ॥ ७५॥
आदौ द्वौ यत्र पादौ तु भवेतामक्षरे समौ ।
सन्दष्टयमकं नाम विज्ञेयं तद्बुधैर्यथा ॥ ७६॥
पश्य पश्य रमणस्य मे गुणान्
येन येन वशगां करोति माम् ।
येन येन हि समेति दर्शनं
तेन तेन वशगां करोति माम् ॥ ७७॥
आदौ पादस्य तु यत्र स्यात् समावेशः समाक्षरः ।
पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥ ७८॥
विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः ।
विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ ७९॥
पादस्यान्तं पदं यत्र द्विर्द्विरेकमिहोच्यते ।
ज्ञेयमाम्रेडितं नाम यमकं तत्र सूरिभिः ॥ ८०॥
विजृम्भितं निःश्वसितं मुहुर्मुहुः
कथं विधेयं स्मरणं पदे पदे ।
यथा च ते ध्यानमिदं पुनः पुन-
र्धुवङ्गता ते रजनी विना विना ॥ ८१॥
सर्वे पादाः समा यत्र भवन्ति नियताक्षराः ।
चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ ८२॥
वारणानामयमेव कालो
वारणानामयमेव कालः ।
वारणानामयमेव कालो
वारणानामयमेव कालः ॥ ८३॥
नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् ।
तन्मालायमकं नाम विज्ञेयं पण्डितैर्यथा ॥ ८४॥
लली बली हली माली खेली माली सली जली ।
खलो बलोऽबलो माली मुसली त्वाभिरक्षतु ॥ ८५॥
असौ हि रामा रतिविग्रहप्रिया
रहःप्रगल्भा रमणं मनोगतम् ।
रतेन रात्रिं रमयेत् परेण वा
न चेदुदेष्यत्तरुणः परो रिपुः ॥ ८६॥
न पुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेव्यः
क्षतजन्दुरीक्षः ।
क्षतैर्गवाक्षैरिव संवृताज्ञः साक्षात्
सहस्राक्ष इवावभाति ॥ ८७॥
एभिरर्थक्रियापेक्षैः कार्यं काव्यं तु लक्षणैः ।
अतः परं प्रवक्ष्यामि काव्ये दोषान् गुणांस्तथा ॥ ८८॥
गूढार्थमर्थान्तरमर्थहीनं
भिन्नार्थमेकार्थमभिप्लुतार्थम् ।
न्यायावपेतं विषमं विसन्धि
शब्दच्युतं वै दश काव्यदोषाः ॥ ८९॥
पर्यायशब्दाभिहतं गूढार्थमभिसंज्ञितम् ।
अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥ ९०॥
अर्थहीनं त्वसम्बद्धं सावशेषार्थमेव च ।
भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ ९१॥
विवक्षितोऽन्य एवार्थो यत्रान्यार्थेन भिद्यते ।
भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः ॥ ९२॥
अविशेषाभिधानं यत् तदेकार्थमिति स्मृतम् ।
अभिप्लुतार्थं विज्ञेयं यत् पदेन समस्यते ॥ ९३॥
न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् ।
वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् ॥ ९४॥
अनुपशिष्टशब्दं यत् तद्विसन्धीति कीर्तितम् ।
शब्दच्युतञ्च विज्ञेयमशब्दस्वरयोजनात् ॥ ९५॥
एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः ।
गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ ९६॥
श्लेषः प्रसादः समतासमाधिर्माधुर्यमोजः पदसौकुमार्यम् ।
अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥ ९७॥
ईप्सितेनार्थजातेन सम्बद्धानां परस्परम् ।
श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ ९८॥
विचारगहनं यत्स्यात् स्फुटञ्चैव स्वभावतः ।
स्वतः सुप्रतिबद्धञ्च श्लिष्टं तत् परिकीर्त्यते ॥ ९९॥
अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते ।
सुखशब्दार्थसंयोगात् प्रसादः परिकीर्त्यते ॥ १००॥
नातिचूर्णपदैर्युक्ता न च व्यर्थाभिदायिभिः ।
दुर्बोधनैश्च न कृता समत्वात् समता मता ॥ १०१॥
अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः ।
अलङ्कारा गुणाश्चैव समाः स्युः समतां मताः ॥ १०२॥
अभियुक्तैर्विशेषस्तु योऽर्थस्येहोपलक्ष्यते ।
तेन चार्थेन सम्पन्नः समाधिः परिकीर्त्यते ॥ १०३॥
उपमास्विह दृष्टानामर्थानां यत्नतस्तथा ।
प्राप्तानां चातिसङ्क्षेपात् समाधिर्निर्णयो यतः ॥ १०४॥
बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः ।
नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ १०५॥
समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् ।
सानुस्वारैरुदारैश्च तदोजः परिकीर्त्यते ॥ १०६॥
अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः ।
यत्र शब्दार्थसम्पत्तिस्तदोजः परिकीर्तितम् ॥ १०७॥
सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः ।
सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते ॥ १०८॥
सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता ।
या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रतीयते ॥ १०९॥
यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते ।
अनन्तरं प्रयोगस्तु साऽर्थव्यक्तिरुदाहृता ॥ ११०॥
दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् ।
अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् ॥ १११॥
अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः ।
उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते ॥ ११२॥
यन्मनश्श्रोत्रविषयमाह्लादयति हीन्दुवत् ।
लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ ११३॥
यो मनश्श्रोत्रविषयः प्रसादजनको भवेत् ।
शब्दबन्धः प्रयोगेण स कान्त इति भण्यते ॥ ११४॥
एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः ।
प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ ११५॥
लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् ।
काव्यं कार्यं तु नाट्यज्ञैः वीररौद्राद्भुताश्रयम् ॥ ११६॥
गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा ।
कदाचिद्रौद्रवीराभ्यां यदाघर्षणजं भवेत् ॥ ११७॥
रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् ।
शृङ्गारे च रसे वीरे काव्यं स्यान्नाटकाश्रयम् ॥ ११८॥
उत्तरोत्तरसंयुक्तं वीरे काव्यं तु यद्भवेत् ।
जगत्यतिजगत्यां वा सङ्कृत्यां वापि तद्भवेत् ॥ ११९॥
तथैव युद्धसम्फेटा उत्कृत्यां सम्प्रकीर्तितौ ।
करुणे शक्वरी ज्ञेया तथैवातिधृतिर्भवेत् ॥ १२०॥
यद्वीरे कीर्तितं च्छन्दः तद्रौद्रेऽपि प्रयोजयेत् ।
शेषाणामर्थयोगेन च्छन्दः कार्यः प्रयोक्तृभिः ॥ १२१॥
यच्छन्दः पूर्वमुद्दिष्टं विषमार्धसमे समम् ।
उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ १२२॥
शब्दानुदारमधुरान् प्रमदाभिधेयान्
नाट्याश्रयेषु कृतिषु प्रययेत कर्तुम् ।
तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः
पद्माकरा विकसिता इव राजहंसैः ॥ १२३॥
त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् ।
ह्रस्वं दीर्घं प्लुतञ्चैव रसभावविभावकम् ॥ १२४॥
एकमात्रं भवेद् ह्रस्वं द्विमात्रं दीर्घमिष्यते ।
प्लुतं चैव त्रिमात्रं स्यादक्षरं स्वरयोजनात् ॥ १२५॥
स्मृते चासूयिते चैव तथा च परिदेविते ।
पठतां ब्राह्मणानाञ्च प्लुतमक्षरमिष्यते ॥ १२६॥
अकारस्तु स्मृते कार्यं ऊकारश्चाप्यसूयिते ।
परिदेविते तु हाकार ॐकारोऽध्ययने तथा ॥ १२७॥
ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् ।
काव्ययोगेषु सर्वेषु ह्यक्षराणि प्रयोजयेत् ॥ १२८॥
चेक्रीडितप्रभृतिभिर्विकृतैस्तु शब्दैः
युक्ता न भान्ति ललिता भरतप्रयोगाः ।
यज्ञक्रियेव रुरुचर्मधुरैः कृताक्तैः
वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ १२९॥
मृदुललितपदार्थं गूढशब्दार्थहीनं
बुधजनसुखभोग्यं युक्तिमन्नृत्तयोग्यम् ।
बहुरसकृतमार्गं सन्धिसन्धानयुक्तं
भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ १३०॥
अनुबन्धः
भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा ।
हेतुसंशयदृष्टान्ताः प्राप्ताभिप्राय एव च ॥ १३१॥
निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् ।
गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ १३२॥
दृष्टं चैवोपदिष्टं च विचारस्तद्विपर्ययः ।
भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ १३३॥
अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च ।
मनोरथश्च लेशश्च क्षोभोऽथ गुणकीर्तनम् ॥ १३४॥
ज्ञेयान्यनुक्तसिद्धिश्च प्रियं वचनमेव च ।
षट्त्रिंशल्लक्षणान्येव काव्यबन्धेषु निर्दिशेत् ॥ १३५॥
अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् ।
भूषणैरिव चित्रार्थैस्तद् भूषणमिति स्मृतम् ॥ १३६॥
यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते ।
तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ १३७॥
सिद्धैरर्थैः समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते ।
यत्र श्लिष्टा विचित्रार्था सा शोभेत्यभिधीयते ॥ १३८॥
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ १३९॥
यत् प्रयोजनसामर्थ्यात् वाक्यमिष्टार्थसाधकम् ।
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ १४०॥
अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते ।
अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ १४१॥
सर्वलोकमनोग्राहि यस्तु पक्षार्थसाधकः ।
हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ १४२॥
दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते ।
प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ १४३॥
अभूतपूर्वो योऽप्यर्थः सादृश्यात्परिकल्पितः ।
लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः ॥ १४४॥
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परापेक्षाद्युदासार्थं तन्निदर्शनमुच्यते ॥ १४५॥
निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये ।
यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ १४६॥
बहूनां च प्रधानानां नाम यत्राभिकीर्त्यते ।
अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ १४७॥
सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते ।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १४८॥
गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः ।
गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ ॥ १४९॥
बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् ।
विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः ॥ १५०॥
रूपकैरुपसाभिर्वा तुल्यार्थैः सुप्रयोजितैः ।
अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ १५१॥
बहूनां च प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १५२॥
यथादेशं यथाकालं यथारूपं च वर्ण्यते ।
यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि वा ॥ १५३॥
परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते ।
विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ १५४॥
पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः ।
अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ १५५॥
विचारस्यान्यथाभावस्तथा दृष्टोपदिष्टयोः ।
सन्देहात्कल्प्यते यस्तु स विज्ञेयो विपर्ययः ॥ १५६॥
वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा ।
अन्यस्मिन्नेव पतनादिह भ्रंशः स इष्यते ॥ १५७॥
उभयोः प्रीतिजननो विरुद्धाभिनिविष्टयोः ।
अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः ॥ १५८॥
ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यते यत्र सूरिभिः ।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ १५९॥
हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् ।
क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमिति स्मृतम् ॥ १६०॥
यत्र सङ्कीर्तयन् दोषं गुणमर्थेन दर्शयेत् ।
गुणातिपाताद् दोषाद्वा गर्हणं नाम तद्भवेत् ॥ १६१॥
अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते ।
वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ॥ १६२॥
वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः ।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ १६३॥
यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् ।
पृच्छ्यते चाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ १६४॥
दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ १६५॥
हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् ।
अन्यापदेशैः कथनं मनोरथ इति स्मृतः ॥ १६६॥
यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते ।
सदृशार्थाभिनिष्पत्त्याः स लेश इति कीर्तितः ॥ १६७॥
परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते ।
अदृष्टोऽप्यन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः ॥ १६८॥
लोके गुणातिरिक्तानां गुणानां यत्र नामभिः ।
एकोऽपि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १६९॥
प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते ।
वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ १७०॥
यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः ।
हृष्टप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ १७१॥
एतानि काव्यस्य च लक्षणानि
षट्त्रिंशदुद्देशनिदर्शनानि ।
प्रबन्धशोभाकरणानि तज्ज्ञैः
सम्यक् प्रयोज्यानि रसायनानि ॥ १७२॥
इति भरतीये नाट्यशास्त्रे वागभिनये
काव्यलक्षणो नाम षोडशोऽध्यायः ।