नाट्यशास्त्रम्/अध्यायः १९
॥ नाट्यशास्त्रम् अध्याय १९ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ एकोनविंशोऽध्यायः ।
इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् ।
पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः ॥ १॥
इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् ।
आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् ॥ २॥
यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते ।
तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः ॥ ३॥
कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् ।
तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ ४॥
कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् ।
कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च ॥ ५॥
(लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा ।
दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता ॥) ६॥
संसारे फलयागे तु व्यापारः कारणस्य यः ।
तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः ॥ ७॥
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ ८॥
औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते ।
महतः फलयोगस्य स फलारम्भ इष्यते ॥ ९॥
अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति ।
परं चौत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः ॥ १०॥
ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते ।
भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ ११॥
नियतां तु फलप्राप्तिं यदा भावेन पश्यति ।
नियतां तां फलप्राप्तिं सगुणां परिचक्षते ॥ १२॥
अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् ।
इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ १३॥
सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः ।
एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १४॥
आसां स्वभावभिन्नानां परस्परसमागमात् ।
विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १५॥
इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् ।
तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १६॥
पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः ।
नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् ॥ १७॥
एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः ।
द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १८॥
प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् ।
यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः ॥ १९॥
इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः ।
अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ २०॥
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २१॥
स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति ।
फलावसानं यच्चैव बीजं तत्परिकीर्तितम् ॥ २२॥
प्रयोजनानां विच्छेदे यदविच्छेदकारणम् ।
यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ २३॥
यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम्
प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २४॥
फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् ।
अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् ॥ २५।
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते ।
तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ २६॥
एतेषां यस्य येनार्थो यतश्च गुण इष्यते ।
तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २७॥
एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् ।
प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते ॥ २८॥
आगर्भादाविमर्शाद्वा पताका विनिवर्तते ।
कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ २९॥
यत्रार्थे चिन्तितेऽन्यस्मिन्स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३०।
सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३१॥
वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् ॥ ३२॥
अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ ३३॥
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥ ३४॥
[यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् ।
विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ]॥ ३५॥
चतुष्पताकापरमं नाटके कार्ययिष्यते ।
पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ॥३६॥
मुखं प्रतिमुखं चैव गर्भो विमर्श एव च ।
तथा निर्वहणं चेति नाटके पञ्च सन्धयः ॥ ३७॥
[पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते ।
शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः ]॥ ३८॥
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ।
काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३९॥
बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् ।
मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ४०॥
उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा ।
पुनश्चान्वेषणं यत्र स गर्भ इति सन्ज्ञितः ॥ ४१॥
गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा ।
क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४२॥
समानयनमर्थानां मुखाद्यानां सबीजिनाम् ।
नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ४३॥
एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः ।
तथा प्रकरणास्यापि शेषाणां च निबोधत ॥ ४४॥
डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ ।
न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४५॥
व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ ।
गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ ४६॥
द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च ।
मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा ॥ ४७॥
[वीथी चैव हि भाणश्च तथा प्रहसनं पुनः ।
कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ]॥ ४८॥
एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः ।
पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत ॥ ४९॥
सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः ।
स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥५०॥
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ५१॥
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् ।
अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ॥५२॥
अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ ५३॥
उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् ।
हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः ॥ ५४॥
काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् ।
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ ५५॥
[तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् ।
कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ॥ ५६॥
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ ५७॥
उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे ।
तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः ॥ ५८॥
विलासः परिसर्पश्च विधूतं तापनं तथा ।
नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः ॥ ५९॥
निरोधश्चैव विज्ञेयः पर्युपासनमेव च ।
पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ ६०॥
एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ ६१॥
सङ्ग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च ।
तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ॥६२॥
एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत ।
अपवादश्च सम्फेटो विद्रवः शक्तिरेव च ॥ ६३॥
व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ॥
विरोधनमथादानं छादनं च प्ररोचना ॥ ६४॥
व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च ।
सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ६५॥
द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् ।
भाषणं पूर्ववाक्यं च काव्यसंहार एव च ॥ ६६॥
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ।
चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ ६७॥
[सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च ।
कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ] ॥ ६८॥
पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् ।
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ ६९॥
यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः ।
तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ ७०॥
गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् ।
सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते ॥ ७१॥
सुखार्थस्याभिगमनं प्राप्तिरित्यभिसन्ज्ञिता ।
बीजार्थस्योपगमनं समाधानमिति स्मृतम् ॥ ७२॥
सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ।
कुतूहलोत्तरावेगो विज्ञेया परिभावना ॥ ७३॥
बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः ।
प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ॥ ७४॥
सङ्घातभेदनार्थो यः स भेद इति कीर्तितः ।
[एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ॥ ७५॥
समीहा रतिभोगार्था विलास इति सन्ज्ञितः ।
दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ ७६॥
कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः ।
अपायदर्शनं यत्तु तापनं नाम तद्भवीत् ॥ ७७॥
क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम्
दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता ॥ ७८॥
उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः ।
या तु व्यसनसम्प्राप्तिः स निरोधः प्रकीर्तितः ॥ ७९॥
क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् ।
विशेषवचनं यत्तु तत्पुष्पमिति सन्ज्ञितम् ॥ ८०॥
प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते ।
उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः ॥ ८१॥
चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ।
कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ ८२॥
तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते ।
चित्रार्थसमवाये तु वितर्को रूपमिष्यते ।
यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ ८३॥
भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते ।
सामदानादिसम्पन्नः सङ्ग्रहः परिकीर्तितः ॥ ८४॥
रूपानुरूपगमनमनुमानमिति स्मृतम् ।
रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् ।
गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ ८६॥
संरम्भवचनं चैव तोटकं त्विति सन्ज्ञितम् ।
कपटेनातिसन्धानं ब्रुवतेऽधिबलं बुधाः ॥ ८७॥
भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः ।
शङ्का भयत्रासकृतो विद्रयः समुदाहृतः ॥ ८८॥
दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः ।
रोषग्रथितवाक्यं तु सम्फेटः परिकीर्तितः ॥ ८९॥
गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः ।
विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ॥९०॥
व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसम्भवः ।
प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् ॥ ९१॥
वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता ।
मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ ९२॥
ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः ।
कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ ९३॥
बीजकार्योपगमनमातानमिति सन्ज्ञितम् ।
अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ ९४॥
प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी ।
[प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ ९५॥
सविच्छेदं वचो यत्र सा युक्तिरिति सन्ज्ञिता ।
ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत] ॥ ९६॥
[एतान्यवमृशेऽङ्गानि संहारे तु निबोधत] ।
मुखबीजोपगमनं सन्धिरित्यभिधीयते ॥ ९७॥
कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः ।
उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ॥ ९८॥
अनुभूतार्थकथनं निर्णयः समुदाहृतः ।
परिवादकृतं यस्यात्तदाहुः परिभाषणम् ॥ ९९॥
लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः ।
समागमस्तथार्थानामानन्दः परिकीर्तितः ॥ १००॥
दुःखस्यापगमो यस्तु समयः स निगद्यते ।
शुश्रूषाद्युपसम्पन्नः प्रसादः प्रीतिरुच्यते ॥ १०१॥
अद्भुतस्य तु सम्प्राप्तिरूपगूहनमिष्यते ।
सामदानादि सम्पन्नं भाषणं समुदाहृतम् ॥१०२॥
पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् ।
वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते ॥ १०३॥
नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते ।
यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ १०४॥
कविभिः काव्यकुशलै रसभावमपेक्ष्य तु ।
संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ १०५॥
ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु ।
एतेषामेव चाङ्गानां सम्बद्धान्यर्थयुक्तितः ॥ १०६॥
सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः ।
सामभेदस्तथा दण्डः प्रदानं वध एव च ॥ १०७॥
प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च ।
साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ १०८॥
ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् ।
दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् ॥ १०९॥
[विष्कम्भचूलिका चैव तथ चैव प्रवेशकः ।
अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥११०॥
मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसञ्चारः ।
विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ १११॥
शुद्धः सङ्कीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेयः ।
मध्यमपात्रैः शुद्धः सङ्कीर्णो नीचमध्यकृतः ॥ ११२॥
अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा ।
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ ११३॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ ११४॥
अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य ।
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ ११५॥
विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ।
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ] ॥ ११६॥
अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि ।
अस्माद्विनिःसृतानि तु भाण इवैअकप्रयोज्यानि ॥ ११७॥
[भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा ।
प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ॥ ११८॥
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ ११९॥
उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ १२०॥
आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् ।
गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते ॥ १२१॥
[या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् ।
साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते ] ॥ १२२॥
प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता ।
मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ १२३॥
[बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् ।
चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ]॥ १२४॥
आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् ।
अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् ॥ १२५॥
नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् ।
चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका ॥ १२६॥
[यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् ।
सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ १२७॥
नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् ।
स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ॥ १२८॥
प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः ।
स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥ १२९॥
अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् ।
नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् ॥ १३०॥
पात्रं विभ्रष्टसङ्केतं सुव्यक्तकरणान्वितम् ।
प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ १३१॥
[रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् ।
नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ॥ १३२॥
मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् ।
श्लिष्टभावरसोपेतं वैचित्र्यार्थं द्विमूढके ॥ १३३॥
उत्तमोत्तमकं विद्यादनेकरससंश्रयम् ।
विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् ॥ १३४॥
कोपप्रसादजनितं साधिक्षेपपदाश्रयम् ।
उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ॥ १३५॥
यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् ।
मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥ १३६॥
दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता ।
करोतिविविधान् भावांस्तद्वै भाविकमुच्यते ॥ १३७॥
एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः ।
तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ॥१३८॥
पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् ।
षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् ॥ १३९॥
महारसं महाभोगमुदात्तवचनान्वितम् ।
महापुरुषसञ्चारं साध्वाचारजनप्रियम् ॥१४०॥
सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥१४१॥
अवस्था या तु लोकस्य सुखदुःखसमुद्भवा ।
नानापुरुषसञ्चारा नाटकेऽसौ विधीयते ॥ १४२॥
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
न तत् कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते ॥ १४३॥
योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः ।
सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ १४४॥
देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् ।
पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्। ॥१४५॥
यस्मात्स्वभावं सन्त्यज्य साङ्गोपाङ्गगतिक्रमैः ।
प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्। ॥१४६॥
सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः ।
नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १४७॥
[अनेकशिल्पजातानि नैककर्मक्रिअयाणि च ।
तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ] ॥ १४८॥
लोकस्वभावं सम्प्रेक्ष्य नराणां च बलाबलम् ।
सम्भोगं चैव युक्तिं च ततः कार्यं तु नाटकम् ॥ १४९॥
भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः ।
ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः ॥ १५०॥
कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च ।
सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ १५१॥
तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् ।
मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ।१५२॥
चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये ।
वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः ॥ १५३॥
दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः ।
अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥१५४॥
इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः ॥