नाट्यशास्त्रम्/अध्यायः १५
॥ नाट्यशास्त्रम् अध्याय १५ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ पञ्चदशोऽध्यायः
छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः ।
वृत्तानि तेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १॥
आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् ।
सा स्यात्तनुमध्या गायत्रसमुत्था ॥ २॥
यथा - सन्त्यक्तविभूषा भ्रष्टाञ्जननेत्रा ।
हस्तार्पितगण्डा किं ? त्वं तनुमध्या ॥ ३॥
लघुगण आदौ भवति चतुष्कः ।
गुरुयुगमन्त्ये मकरकशीर्षा ॥ ४॥
यथा - स्वयमुपयान्तं भजसि न कान्तम् ।
भयकरि किं ? त्वं मकरकशीर्षा ॥ ५॥
एकमात्रं षट्के स्याद् द्वितीयं पादे ।
ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ ६॥
षडक्षरकृते पादे लघु यत्र द्वितीयकम् ।
शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ७॥
स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः ।
व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ ८॥
द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् ।
शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ ९॥
शोभते बद्धया षट्पदाविद्धया ।
मालतीमालया मानिनी लीलया ॥ १०॥
द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु ।
यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ ११॥
सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः ।
उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ १२॥
दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् ।
शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ १३॥
आदौ द्वे निधने चैव गुरुणी यत्र वै सदा ।
पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४॥
पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ ।
अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ १५॥
यथा - नानाकुसुमचित्रे प्राप्ते सुरभिमासे ।
एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ १६॥
आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा ।
गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ १७॥
जातु यस्य गौ न , पादे संस्थितः समस्वरूपे ।
तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ १८॥
यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि ।
तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ १९॥
चतुर्थं च द्वितीयं च षष्ठमष्टममेव च ।
गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ २०॥
यदा तु जात्परौ रलौ गकार एव च स्थितः ।
अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ २१॥
यथा - चरावघूर्णितेक्षणं विलम्बिताकुलालकम् ।
असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ २२॥
अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि ।
गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ २३॥
मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च ।
सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ २४॥
साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि ।
आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ २५॥
पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा ।
छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ २६॥
स्मितवशविप्रकाशैर्दशनपदैरमीभिः ।
वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ २७॥
नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च ।
गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८॥
षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् ।
बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ २९॥
कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् ।
वनमतिशयगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ ३०॥
दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने ।
यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ ३१॥
त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये ।
पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ ३२॥
यथा - अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये ।
शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३३॥
द्वितीयं च चतुर्थं च षष्टमष्टममेव च ।
ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४॥
जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ ।
पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥
३५॥
यथा - नैव तेऽस्ति सङ्गमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् ।
गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥
३६॥
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा ।
गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ ३७॥
भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् ।
त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ ३८॥
यथा - प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् ।
पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ ३९॥
आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा ।
गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ ४०॥
एषोऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः ।
श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ ४१॥
नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु ।
सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ ४३॥
एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा ।
उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ ४४॥
प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः ।
अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ ४५॥
आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा ।
गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ४६॥
किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् ।
यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥
४७॥
यथा - किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् ।
यद् गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ ४८॥
आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु ।
यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९॥
यथा - अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् ।
आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥
५०॥
षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि ।
गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१॥
दुःशीलं वा निर्गुणं वापरं वा
लोके धैर्यादप्रियं न ब्रवीषि ।
तस्माच्छीलं साधुहेतोः सुवृत्तं
माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ ५२॥
तृतीयं चैव षष्ठं च नवमं द्वादशं तथा ।
गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ ५३॥
यदि सोऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः ।
सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ ५४॥
यथा - किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् ।
स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥
५५॥
आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च ।
तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ ५६॥
यौ त्रिकौ तथा न्यौ यदि खलु पादे
षड्भिरेव वर्णैर्यदि च यतिः स्यात् ।
नित्यसंनिविष्टा जगतिविधाने
नामतः प्रसिद्धा कुमुदनिभा सा ॥ ५७॥
यथा - मन्मथेन विद्धा सललितभावा
नृत्तगीतयोगा प्रविकसिताक्षी ।
निन्द्यमद्य किं त्वं विगलितशोभा
चन्द्रपादयुक्ता कुमुदवती च ॥ ५८॥
मतान्तरे - यदि खलु पादे न्यौ त्रिकौ यथा यौ
यतिरपि वर्णैः षड्भिरेव चेत्स्यात् ।
जगतिविधाने नित्यसंनिविष्टा
कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९॥
यथा - कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा ।
मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ ६०॥
द्वादशाक्षरके पादे सप्तमं दशमं लघु ।
आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ ६१॥
वक्त्रं सौम्यं ते पद्मपत्रायताक्षम्
कामस्यावासं सुनासोच्चप्रहासम् ।
कामस्यापीदं काममाहर्तुकामं
कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ ६२॥
तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु ।
द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ ६३॥
यथा - स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् ।
अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमाञ्जयति ॥ ६४॥
द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे ।
गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ ६५॥
यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ ।
तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ ६६॥
न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते परुषाभिभाषिणी ।
तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ ६७॥
चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु ।
भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ ६८॥
परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा ।
वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ ६९॥
सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु ।
द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ ७०॥
करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च ।
गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ ७१॥
आद्यं चतुर्थं दशमं सप्तमं च यदा लघु ।
पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ ७२॥
न ते काचिदन्या समा दृश्यते स्त्री
नृलोके विशिष्टा गुणैरद्वितीयैः ।
त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान्
जगत्यप्रमेयासि सृष्टा विधात्रा ॥ ७३॥
द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा ।
पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ ७४॥
रास्त्रिकाः सागराख्या निविष्टा यदा
स्यात् त्रिके च त्रिके युक्तरूपा यतिः ।
सन्निविष्टा जगत्यास्ततस्सा बुधैर्
नामतश्चापि सङ्कीर्त्यते पद्मिनी ॥ ७५॥
देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता ।
केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ ७६॥
फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी ।
पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ ७७॥
आदौ षट् दशमं चैव पादे यत्र लघून्यथ ।
शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ ७८॥
यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः ।
भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ ७९॥
उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः ।
मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ ८०॥
द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु ।
विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ ८१॥
कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे ।
अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ ८२॥
त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् ।
गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ ८३॥
भावस्थैर्मधुरकथैः सुभाषितैस्त्वं
साटोपस्खलितविलम्बितैर्गतैश्च ।
शोभाढ्यैर्हरसि मनांसि कामुकानां
सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ ८४॥
षष्ठं च सप्तमं चैव दशमैकादशे लघु ।
त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ ८५॥
विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा
वातोद्धूताः श्वेतवलाकाकृतशोभाः ।
एते मेघा गर्जितनादोज्ज्वलचिह्नाः
प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ ८६॥
आदौ द्वे चतुर्थं चैव चाष्टमैकादशे गुरु ।
अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ ८७॥
चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता ।
स्रग्दाममाल्यरचना सुविभूषिताङ्गी ।
नानावसन्तकविभूषितकर्णपाशा
साक्षाद्वसन्ततिलकेव विभाति नारी ॥ ८८॥
पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने ।
पञ्चाक्षरादौ च यतिरसम्बाधा तु सा यथा ॥ ८९॥
यथा - मानालोकज्ञः सुतबलकुलशीलाढ्यो
यस्मिन्सम्मानं न सदृशमनु पश्येद्धि ।
गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशम्
कीर्णा नानार्थैरवनिरियमसम्बाधा ॥ ९०॥
चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा ।
अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ ९१॥
एषा कान्ता व्रजति ललिता वेपमाना
गुल्मैश्च्छन्नं वनमभिनवैः सम्प्रविद्धम् ।
हा हा कष्टं किमिदमिति नो वेद्मि मूढो
व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ ९२॥
अदौ षट् दशमं चैव लघु चैव त्रयोदशम् ।
यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ ९३॥
यथा - न खलु तव कदाचित्क्रोधताम्रायताक्षं
भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् ।
किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था
त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ ९४॥
आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु ।
षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ ९५॥
भ्रौ यदि नाश्च नित्यमिह विरचितचरणः
गश्च तथा वै भवति निधनमुपगतः ।
स्यादपि चाष्टिमेव यदि सततमनुगतं
तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ ९६॥
कालतोयधरैः सुधीरधनपटुपटहरवैः
सर्जकदम्बनीपकुटजकुसुमसुरभिः ।
कन्दलसेन्द्रगोपकरचितमवनितलं
वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ ९७॥
आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः ।
अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ ९८॥
यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ
तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् ।
तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः
प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ ९९॥
यथा - नखालीढं गात्रं दशनखचितं चोष्ठगण्डं
शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् ।
गतिः खिन्ना चेयं वदनमपि सम्भ्रान्तनेत्रम्
अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ १००॥
आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् ।
अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ १०१॥
चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैः
यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते ।
यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितः
तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ १०२॥
यथा - महानद्या भोगं पुलिनमिव भाति ते जघनं
तथास्यं नेत्राढ्यं भ्रमरसहितं पङ्कजमिव ।
गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता
स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ १०३॥
यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे ।
षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ १०४॥
यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशिताः
यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः ।
यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं
वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥
१०५॥
यथा - जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो
विलिखितमहीशृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च ।
स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो
वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ १०६॥
चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं
चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ १०७॥
यदा सप्तदशे पादे शेषाणि च लघून्यथ।
भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ १०८॥
मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टा
श्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः ।
अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा
सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ १०९॥
स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः
पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः
।
नानारत्नैः कनकखचितैरङ्गसम्भोगसंस्थै
र्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ ११०॥
आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु ।
तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ १११॥
यथा एष गजोऽद्रिमस्तकतटे कलभपरिवृतः
क्रीडति वृक्षगुल्मगहने कुसुमभिरनते ।
मेघरवं निशम्य मुदितः पवनजवसमः
सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ११२॥
द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा ।
चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ ११३॥
भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ ।
विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ ११४॥
यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ
तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ ।
तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा
विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ ११५॥
यथा - विघूर्णितविलोचना पृथुविकीर्णहारा पुनः
प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा ।
न मे प्रियमिदं जनस्य बहुमानरागेण य
न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ ११६॥
पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु ।
चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ ११७॥
यथा नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै
र्नाना गन्धाढ्यैर्मदनजनकैरङ्गरागैर्विचित्रैः ।
केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः
कान्ते सङ्क्षेपात् किमिह बहुना चित्रलेखेव भासि ॥
११८॥
अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् ।
त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ ११९॥
त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके ।
पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ १२०॥
म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका
आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः ।
नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं
तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ॥ १२१॥
यथा - नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः
निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः ।
धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैः
वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् ॥ १२२॥
तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं
दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् ।
यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं
मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ॥ १२३॥
चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् ।
तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ १२४॥
एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ ।
पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १२५॥
म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशात्
विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता ।
यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा
विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ १२६॥
यथा - नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते
रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः ।
कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा
व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ १२७॥
चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् ।
अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ १२८॥
अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा ।
एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १२९॥
म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे
वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् ।
वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं
विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ १३०॥
यथा - चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः
पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः ।
एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैः
वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ १३१॥
चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा ।
षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ॥ १३२॥
द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ ।
भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ १३३॥
भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ
न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः ।
तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं
भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ १३४॥
उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं
वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् ।
भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैः
नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ १३५॥
अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् ।
एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ १३६॥
शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः ।
वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ १३७॥
यदि च नकार आदिरचितः पदे विरचितोऽन्त एव लगौ
यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा ।
यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैः
तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ १३८॥
विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं
शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् ।
रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं
कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ १३९॥
षडादावष्टमं चैव ह्येकादशचतुर्दशे ।
विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ १४०॥
एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च ।
चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ १४१॥
यदि खलु चरणस्थितौ नौ त्रिकौ
कृतिकारव्यास्तथा राः स्युः क्रमात् ।
भवति यदि यतिस्तथा सप्तभिः सप्तभि
स्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ॥ १४२॥
पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला
क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा ।
सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला
गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ १४३॥
आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च ।
नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ १४४॥
लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके ।
वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ १४५॥
भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता
नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् ।
पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः
क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ १४६॥
यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं
पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् ।
कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा
नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ १४७॥
या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना
दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः ।
आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया
सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ १४८॥
अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् ।
एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ १४९॥
एतानि गुरु सङ्ख्यानि शेषाणि च लघून्यथ ।
षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ १५०॥
यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ
गदितकास्त्रिका ह्यनुपूर्वशः
षड्विंशत्यामेकोनायां च यदि हि
खलु यतिरभिधा चतुर्भिरथाष्टाभिः ।
पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति
मनुजदयितां समाश्रितमुत्कृतिं
नाम्ना वृत्तं लोके ख्यातं कविवदन
विकसनपरं भुजङ्गविजृम्भितम् ॥ १५१॥
यथा - रूपोपेतां देवैः सृष्टां समदगज
विलसितगतिं निरीक्ष्य तिलोत्तमां
प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन
मचलनयनं शिरः कृतवान् हरिः ।
दीर्घं निश्वस्यान्तर्गूढं स्तनवदन
जघनरुचिरां निरीक्ष्य तथा पुनः
पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि
कनकवलयं भुजङ्गविजृम्भितम् ॥ १५२॥
दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् ।
मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ १५३॥
यथा - मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति
द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः ।
स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः
मुदितजलचराकुलाः सम्प्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ १५४॥
एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः ।
विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ १५५॥
यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः ।
ग्रथिताः पादयोगेन तद् वृत्तं विषमं स्मृतम् ॥ १५६॥
द्वौ समं द्वौ च विषमौ वृत्तेऽर्धविषमे तथा ।
सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ १५७॥
ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा ।
युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ १५८॥
पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् ।
द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ १५९॥
छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः ।
त्रिकैर्विषमवृत्तानां सम्प्रवक्ष्यामि लक्षणम् ॥ १६०॥
नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते ।
द्वितीये चरणे च स्यादित्यनुष्टुप् समासतः ॥ १६१॥
सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके ।
युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १६२॥
प्रियदैवतमित्रासि प्रियसम्बन्धिबान्धवा ।
प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ १६३॥
म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके ।
पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ १६४॥
नैवाचारो न ते मित्रं न सम्बन्धिगुणप्रिया ।
सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ १६५॥
अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च ।
पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ १६६॥
कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् ।
विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ १६७॥
चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः ।
अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ १६८॥
न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या ।
नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ १६९॥
विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु ।
सर्वत्र सप्तमस्यैव केषाञ्चिद्विपुला यथा ॥ १७०॥
सङ्क्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी ।
विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ १७१॥
गङ्गेव मेघोपगमे आप्लावितवसुन्धरा ।
कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ १७२॥
आगता मेघसमये भीरु भीरुकुलोद्गते ।
एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ १७३॥
एवं विविधयोगास्तु पथ्यापादा भवन्ति हि ।
युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ १७४॥
गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते ।
प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १७५॥
पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ ।
भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ १७६॥
दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च ।
रतिसम्भोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ १७७॥
इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते ।
तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ १७८॥
पादे षोडशमात्रास्तु गाथांशकविकल्पिताः ।
चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १७९॥
असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा ।
क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ १८०॥
स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके ।
केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ १८१॥
स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् ।
किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ १८२॥
वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः ।
नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ १८३॥
प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः ।
गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ १८४॥
सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् ।
किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ॥ १८५॥
नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे ।
यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ १८६॥
पवनबलविधूतचारुशाखं
प्रमुदितकोकिलकण्ठनादरम्यम् ।
मधुकरपरिगीयमानशब्दं
वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ १८७॥
स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः ।
स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ १८८॥
तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी ।
नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ १८९॥
स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके ।
स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ १९०॥
ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा ।
प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ १९१॥
एवमेतानि वृत्तानि समानि विषमाणि च ।
नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १९२॥
सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः ।
न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ १९३॥
यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् ।
ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ १९४॥
वृत्तलक्षणमेवं तु समासेन मयोदितम् ।
अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ १९५॥
पथ्या च विपुला चैव चषला मुखतोऽपरा ।
जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १९६॥
आसां तु सम्प्रवक्ष्यामि यतिमात्राविकल्पनम् ।
लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ १९७॥
यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः ।
द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ १९८॥
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः ।
अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ १९९॥
षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः ।
पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ २००॥
द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः ।
तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ २०१॥
द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः ।
प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ २०२॥
गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् ।
अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ २०३॥
अयुजः सर्वगुरवो गुरुमध्या गणा युजः ।
यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ २०४॥
त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे ।
उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ २०५॥
त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु ।
त्रीण्यक्षराणि चान्यानि न्यस्य सङ्ख्याविभागशः ॥ २०६॥
एतानि लघुसंज्ञानि निर्दिष्टानि समासतः ।
सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ २०७॥
अर्धाष्टमगणार्धा च सववार्या प्रकीर्तिता ।
षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ २०८॥
पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते ।
द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ २०९॥
यथा सर्वलघुश्चैव यतिः सङ्ख्यासमाश्रिता ।
सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ २१०॥
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः ।
अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ २११॥
प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या ।
विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ २१२॥
पथ्या यथा -
रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी ।
कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ २१३॥
विपुला यथा -
विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः ।
आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ २१४॥
द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् ।
उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ २१५॥
उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा ।
जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ २१६॥
पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु ।
पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ २१७॥
मुखचपला यथा -
आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् ।
दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ २१८॥
जघनचपला यथा -
वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये ।
कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ २१९॥
उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि ।
वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ २२०॥
कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ ।
अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ २२१॥
चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः ।
प्रस्तारयोगमासाद्य बाहुल्यं सम्प्रदर्शयेत् ॥ २२२॥
पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च ।
आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ २२३॥
त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् ।
शेषाणि गुरुसङ्ख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ २२४॥
सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् ।
सर्वेषां जातिवृत्तानां पूर्वमुत्तरसङ्ख्यया ॥ २२५॥
विकल्पगणनां कृत्वा सङ्ख्यापिण्डेन निर्दिशेत् ।
आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ २२६॥
इतरार्थे जः षष्ठस्तु नलघुगण इष्यते ।
वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः ।
काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ २२७॥
इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशोऽध्यायः ।