1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय ३० ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
त्रिंशोऽध्यायः
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः ।
वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ १ ॥

द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
कम्प्यमानार्थमुक्‍ताश्च व्यक्‍तमुक्‍तास्तथैव च ॥ २ ॥

तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे ।
प्राप्‍नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥ ३ ॥

द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्‍ख्यो भवेत् स्वरः ।
अनीरणात्तु शेषाणां स्वराणामपि सम्भवः ।
अङ्‍गुलीवादनकृतं तच्‍च मे सन्निबोधत ॥ ४ ॥

व्यक्‍तमुक्‍ताङ्‍गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः ।
कम्प्यमानाङ्‍गुलिश्‍चैव त्रिश्रुतिः परिकीर्तितः ।
द्विकोऽर्धाङ्‍गुलिमुक्‍तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ५ ॥

एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः ।
व्यक्‍तमुक्‍ताङ्‍गुलिकृताः षड्जमध्यमपञ्‍चमाः ॥ ६ ॥

ऋषभो धैवतश्‍चापि कम्प्यमानाङ्‍गुलीकृतौ ।
अर्धमुक्‍ताङ्‍गुलिश्‍चैव गान्धारोऽथ निषादवान् ॥ ७ ॥

स्वरसाधारणश्‍चापि काकल्यन्तरसंज्ञया ।
निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ ८ ॥

विपर्यया सन्‍निकर्षे श्रुतिलक्षणसिद्धितः ।
वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ ९ ॥

यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् ।
शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ १० ॥

अविचलितमविच्छिन्‍नं वर्णालङ्कारसंयुतं विधिवत् ।
ललितं मधुरं स्‍निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ ११ ॥

एवमेतत् स्वरगतं विज्ञेयङ्गानयोक्‍तृभिः ।
अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ १२ ॥

इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं
नामाध्यायस्त्रिंशः ॥