विष्णुपुराणम्/प्रथमांशः/अध्यायः १३

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच। 1.13
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत।
शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान्। १।
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम्।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्। २।
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम्।
प्रजापतेरात्मजायां वीरणस्य महात्मनः। ३।
मनोरजायन्त दश नड्वलायां महौजसः
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः। ४।
कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः।
अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव।
अभिमन्युश्च दशमो नड्वलायां महौजसः। ५।
कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान्।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम्। ६।
अङ्गात्सुनीथापत्यं वै वेनमेकमजायत।
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम्। ७।
वेनस्य पाणौ मथिते सम्बभूव महामुने।
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः। ८।
येन दुग्धा मही पूर्वं प्रजानां हितकारणात्। ९।
मैत्रेय उवाच
किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः।
यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम। १०।
श्रीपराशर उवाच
सुनीथा नाम या कन्या मृत्यो प्रथमतोऽभवत्।
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत। ११।
स मातामहदोषेण तेन मृत्योः सुतात्मजः।
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत। १२।
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः।
घोषयामास स तदा पृथिव्यां पृथिवीपतिः। १३।
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन।
भोक्ता यज्ञस्य कस्त्वन्योऽह्यहं यज्ञपतिः प्रभुः। १४।
ततस्तमृषयः पूर्वं संपूज्यं पृथिवीपतिम्।
ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः। १५।
ऋषय ऊचुः।
भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते।
राज्यं देहोपकाराय प्रजानां च हितं परम्। १६।
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम्।
पूजयिष्याम भद्रं। ते तस्यांशस्ते भविष्यति। १७
यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप।
अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति। १८।
यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम्। १९।
वेन उवाच
मत्तः कोऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः।
कोयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः। २०।
ब्रह्मा जनार्दनः शम्भुरिन्द्रो। वायुर्यमो रविः।
हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः। २१।
एते चान्ये च ये देवाः शापानुग्रहकारिणः।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः। २२।
एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा।
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः। २३।
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः। २४।
ऋषय ऊचुः
देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम्।
हविषां परिणामोऽयं यदेतदखिलं जगत्। २५।
श्रीपराशर उवाच
इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः।
यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः। २६।
ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम्। २७।
यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम्।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः। २८।
इत्युक्त्वा मंत्रपूतैस्तैः कुशैर्मुनिगणानृपम्।
निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना। २९।
ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज।
किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा। ३०।
आख्यातं च जनैस्तेषां चोरीभूतैरराजके।
राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः। ३१।
तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः।
सुमहद्दृश्यते रेणुः परवित्तापहारिणाम्। ३२।
ततः संमंत्र्! य ते सर्वे सुनयस्तस्य भूभृतः।
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः। ३३।
मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल।
दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः। ३४।
किं करोमीति तान्सर्वान्स विप्रानाह चातुरः।
निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत्। ३५।
ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः। ३६।
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः।
निषादास्ते ततो जाता वेनकल्मषनाशनाः। ३७।
तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः। ३८।
मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान्।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्। ३९
आद्यमाजगवं नाम खात्पपात ततो धनुः।
शराश्च दिव्या नभसः कवचं च पपात ह। ४०।
तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः। ४१।
सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययौ।
पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना। ४२।
तं समुद्रा श्च नद्यश्च रत्नान्यादाय सर्वशः।
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे। ४३।
पितामहश्च भगवान्देवैराङ्गिरसैः सह।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः।
समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम्। ४४।
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः।
विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ। ४५।
विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम्।
भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि। ४६।
महता राजराज्येन पृथुर्वैन्यः प्रतापवान्।
सोभिषिक्तो महातेजा विधिवद्धर्मको विदै। ४७।
पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्जिताः।
अनुरागात्ततस्तस्य नाम राजेत्यजायत। ४८।
आपस्तस्तंभिरे चास्य समुद्र मभियास्यतः।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्। ४९।
अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिंतया।
सर्वकामदुघा गावः पुटके पुटके मधु। ५०।
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः। ५१।
तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः।
प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ। ५२।
स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान्।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम्। ५३।
ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली।
अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः। ५४।
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः।
स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम्। ५५।
ऋषय ऊचुः।
करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः।
गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः। ५६।
श्रीपराशर उवाच
ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ।
सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम। ५७।
तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ।
करिष्येते करिष्यामि तदेवाहं समाहितः। ५८।
यदिमौ वर्जनीयं च किंचिदत्र वदिष्यतः।
तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः। ५९।
अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः।
भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ। ६०।
सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः।
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः। ६१।
धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः।
मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसम्मतः। ६२।
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः। ६३
सूतेनोक्तान् गुणानित्थं स तदा मागधेन च।
चकार हृदि तादृक् च कर्मणा कृतवानसौ। ६४।
ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम्।
इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः। ६५।
तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः।
ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके।
तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम्। ६६।
प्रजा ऊचुः
अराजके नृपश्रेष्ठ धरित्र्! या सकलौषधीः।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर। ६७।
त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः।
देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः। ६८।
श्रीपराशर उवाच
ततस्तु नपतिर्दिव्यमादायजगवं धनुः।
शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम्। ६९।
ततो ननाश त्वरिता गौर्भूत्वा च वसुन्धरा।
सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही। ७०।
यत्र यत्र ययौ देवी सा तदा भूतधारिणी।
तत्र तत्र तु सा वैन्यं ददृशो!ऽभ्युद्यतायुधम्। ७१।
ततस्तं प्राह वसुधा पृथुं राजपराक्रमम्।
प्रवेपमाना तद्बाणपरित्राणपरायणा। ७२।
पृथिव्युवाच
स्त्रीवधे त्वं महापापं किं नरेन्द्र। न पश्यसि।
येन मां हंतुमत्यर्थं प्रकरोषि नृपोद्यमम्। ७३।
पृथुरुवाच
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः। ७४
पृथिव्युवाच
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति। ७५।
पृथुरुवाच
त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम्।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः। ७६।
श्रीपराशर उवाच
ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम्।
प्रवेपिताङ्गी परमं साध्वसं समुपागता। ७७।
पृथिव्युवाच
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः।
तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि। ७८।
समस्ता या मया जीर्णा नरनाथ महौषधीः।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः। ७९।
तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर।
तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला। ८०।
समां च कुरु सर्वत्र येन क्षीरं समंततः।
वरौषधीबीजभूतं बीजं सर्वत्र भावये। ८१।
श्रीपराशर उवाच
तत उत्सारयामास शैलान् शतसहस्रशः।
धनुष्कोट्या पदा वैन्यस्तेन शैला विवर्द्धिताः। ८२।
न हि पूर्वविसर्गे वै विषमे पृथिवीतले।
प्रविभागः पुराणां वा ग्रामाणां वा पुराऽभवत्। ८३।
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः।
वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः। ८४।
यत्रयत्र समं त्वस्य भूमेरासीद्द्विजोत्तम।
तत्रतत्र प्रजाः सर्वा निवासं समरोचयत्। ८५।
आहारः फलमूलानि प्रजानामभवत्तदा।
कृच्छ्रेण महता सोपि प्रणष्टास्वौषदीषु वै। ८६।
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्।
स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः।
सस्यजातानि सर्वाणि प्रजानां हितकाम्यया। ८७।
तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः। ८८।
प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता।
ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी। ८९
ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रि भिः।
गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा। ९०।
तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः।
वत्सदोग्धृविश्षोआ!श्च तेषां तद्योनयोऽभवन्। ९१।
सैषा धात्री विधात्री च धारिणी पोषणी तथा।
सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा। ९२।
एवं प्रभावस्स पृथुः पुत्रो वैन्यस्य वीर्यवान्।
जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात्। ९३।
य इदं जन्म वैन्यस्य पृथोः संकीर्त्तरेन्नरः।
न तस्य दुष्कृतं किंचित्फलदायि प्रजायते। ९४।
दुस्स्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम्।
पृथोर्जन्म प्रभावश्च करोति सततं नृणाम्। ९५।
इति श्रीविष्णुपुराणे प्रथमेंशे त्रयोदशोध्यायः।। १३

ध्रुवाच्छिष्टिञ्च भव्यञ्च भव्याच्छम्भुर्व्यजायत ।
शिष्टरोधत्त सुच्छाया पञ्च पुत्रानकाल्मषान् ।। १ ।।

रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ।। २ ।।

अजीजनत् पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायामरणयस्य महात्मनः ।। ३ ।।

मनोरजायन्त दश नदूलायां मबौजसः ।
कन्यायां जगतां श्वेष्ठ वैराजस्य प्रजापतेः ।। ४ ।।

उरुः पुरुः शतद्यु म्नस्तपस्वी सत्यवाक् कविः ।
अग्निष्टोमोऽतिरात्रश्व सुद्युम्नश्चेति ते न व ।। ५ ।।

अबिमन्युश्च दशामो नदूलायां महौजसः ।
ऊरोरजनयत् पुत्रान् षड़ाग्नेयी महाप्रभान् ।। ६ ।।

अङ्ग समनसं स्वातिं क्रतुमह्किरसं शिवम् ।
अङ्गात् सुनीथापत्यं वै वेणमेकमजायत ।। ७ ।।

प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणां करम् ।
वेणस्य पाणौ मथिते सम्बबूव महामुने ।। ८ ।।

वैण्यो नाम महीपालो यछ पृथुः परिकीत्तिंतः ।
येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ।। ९ ।।
किमर्थं मथितः पाणिर्वेणास्य परमर्षिभिः ।
यत्र यज्ञे महावीर्य्यः स पृथुर्मुनिसत्तमः ।। १० ।।

सुनीथा नाम या कन्या मृत्योः प्रथमतोऽभवत् ।
अङ्गस्य भार्या सा दत्ता तस्यां वेणो व्यजायत ।। ११ ।।

समातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गदेव मैत्रेय दुष्ट एव व्यजायत ।। १२ ।।

अभिषिक्तो यदा राज्ये स वेणः परमर्षिभिः ।
घोषयामास तदा पृथिव्यां पृथिवीपतिः ।। १३ ।।

न यष्टव्यं न होतव्यं न दातव्यं कदाचन ।
भोक्ता यज्ञस्य कस्त्वन्यो ह्महं यज्ञपतिः प्रभुः ।। १४ ।।

ततस्तमृषयः पूर्व संपूज्य जगतीपतिम् ।
उचुः सामकलं सम्यङू मैत्रेय समुपस्थिताः ।। १५ ।।

भो भो राजन् श्वृणुष्व त्वं यदू वदामस्तव प्रभो ।
राज्यदेहोपकाराय प्रजानाञ्च हितं परम् ।। १६ ।।

दीर्घसत्रेण देवेशं सर्व्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ।। १७ ।।

यज्ञेन यज्ञपुरुषो हरिः संप्रीणितो नृप ।
अस्माभिर्भवतः कामान् सर्वानेव प्रदास्यति ।। १८ ।।

यज्ञैर्यज्ञश्वेरो येषां राष्टे संपूज्यते हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ।। १९ ।।

मत्तः कोऽभ्यधिकोऽन्योऽस्ति यश्वाराध्यो ममापरः ।
कोऽयं हरिरिति ख्यातो योऽयं यज्ञ श्वरो मतः ।। २० ।।

ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः ।
हुतभुग वरुणो धाता पूषा भूमिर्निशाकरः ।। २१ ।।

एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्व्वदेवमयो नृपः ।। २२ ।।

एतजूज्ञात्वा मयाज्ञप्तं यथावत् क्रियतां तथा ।
दातव्यं न होतव्यं न यष्टव्यञ्च वो द्रिजाः ।। २३ ।।

भर्दृ शुश्व षणां धर्म्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्म्मो भवताञ्च तथा द्रिजाः ।। २४ ।।

देह्मनुज्ञां महाराज मा धर्म्मो यातु संक्षयम् ।
हविषां परिणामोऽयं यदेतदखिलं जगत् ।। २५ ।।

इति वज्ञौप्यमानोऽपि स वेणः परमर्षिबिः ।
यदा ददाति नानज्ञां प्रोक्तः प्रोक्तः पुनः पुनः ।। २६ ।।

ततस्तु मुनयः सर्वे कोपामर्।समन्विताः ।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ।। २७ ।।

यो यज्ञापुरुषं देवमनादिनिधनं प्रबुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ।। २८ ।।

इत्युत्तवा मन्त्रपूतैस्तैः कुशैर्मुनिगणा नृपम् ।
निजध्नुर्निहतं पूर्वं भगावन्निन्दनादिना ।। २९ ।।

ततश्च मुनयोः रेणुं ददृशुः सर्वतो द्रिज ।
किमेतदिति चासन्नं पप्रच्छुस्ते जनं तदा ।। ३० ।।

अखायतञ्च जनैस्तेषां चैरीभूतैरराजके ।
राष्ट्र तु लोकैरारश्धं परस्वादानमातुरैः ।। ३१ ।।

तेषामुदीर्णावेगानां चौराणां मुनिसत्तमः ।
सुमहान् दृश्यते रेणुः परवित्तापहरिणाम् ।। ३२ ।।

ततः समंमन्त्र्य ते सर्व्वे मुनयस्तस्य भूभृतः ।
ममन्थुरूरुं पुत्रार्थम् अनपत्यस्य यत्नातः ।। ३३ ।।

मथ्यतश्व समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः सर्बटास्योऽतिह्नस्वकः ।। ३४ ।।

किं करोमीति तान् सर्व्वान् विप्रान् प्राह त्वरान्वितः ।
निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ।। ३५ ।।

ततस्ततूसम्भवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशाद्दूल पापकर्मोपलक्षणाः ।। ३६ ।।

तेन द्रारेणा पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास्ते ततो जाता वेणकल्मषनाशानाः ।। ३७ ।।

ततोऽस्य दक्षिणां हस्तं ममन्थुस्तस्य ते द्विजाः ।
मथ्यमाने च तत्राभूत् पृथुर्वैण्यः प्रतापवान् ।। ३८ ।।

दीप्यमानः स वपुषा साक्षादग्निरिव ज्वलन् ।
आद्यमाजगवं नाम खात् पपाग ततो धनुः ।। ३९ ।।

शराश्व दिव्या नभसः कवचञ्च पपात ह ।
तस्मिन् जाते तु भूतानि सम्प्रहृष्टानि सर्व्वशः ।। ४० ।।

सत्पुत्रेणा च जैतेन वैणोऽपि त्रिदिवं ययौ ।
पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना ।। ४१ ।।

तं समुद्राश्च नद्यश्च रत्रान्यादाय सर्व्वशः ।
तोयानि चाभिषेकार्थं सर्व्वाण्योवोपतस्थिरे ।। ४२ ।।

पितामहश्व भगवान् देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जंगमानि च सर्व्वशः ।। ४३ ।।

समागम्य तदा वैण्यमभ्यषिञ्चन् नराधिपम् ।
हस्ते तु दक्षिणो चक्रं दृष्टूवा तस्य पितामहः ।। ४४ ।।

विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ।
विष्णुचिह्नं करे चक्रं सर्व्वेषां चक्रवर्त्तिनाम् ।। ४५ ।।

भवत्यव्याहतो यस्य प्रभावस्त्रिदशौरपि ।
महता राजराज्येन पृथुर्व्वैण्यः प्रतापवान् ।। ४६ ।।

सोऽबिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः ।
पित्रा परञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।। ४७ ।।

अनुरागात् ततस्तस्य नाम राजेत्यजायत ।
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।। ४८ ।।

पर्व्वताश्व ददुर्मागं ध्वजभङ्गश्व नाभवत् ।
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया ।। ४९ ।।

सर्व्वकामदुधा गावः पृटके पुटके मधु ।
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।। ५० ।।

सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ।
तस्मिन्नेव महायज्ञे जज्ञ प्राज्ञोऽथ मागधः ।। ५१ ।।

प्रोक्तौ तदा मुनिवरैस्तावुभौ सुतमागधौ ।
स्तूयतामेष नृपतिः पृथुर्वैण्यः प्रतापवान् ।। ५२ ।।

कर्म्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ।
ततस्तावूचतुर्व्विप्रान् सर्व्वानेव कृताञ्जली ।। ५३ ।।

अद्य जातस्य नो कर्म ज्ञायतेऽस्य महीपतेः ।
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः ।
स्तोत्रं किमाश्वयञ्चास्य कार्य्यमस्माभिरुच्यताम् ।। ५४ ।।

करिष्यत्येष यत् कर्म्म चक्रवत्ती महाबलः ।
गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ।। ५५ ।।

ततः स नृपतिस्तोषं तधु त्वा परमं ययौ ।
सदुगुणौः श्लाध्यतामेति स्तव्याश्वाभ्यां गुणा मम ।। ५६ ।।

तस्माद् यदद्य स्तोत्रेण गुणनिर्व्वर्णनं त्विमौ ।
करिष्येते करिष्यामि तदेवाहं समाहितः ।। ५७ ।।

यदिमौ वर्ज्जनीयञ्चक्ते मतिं नृपः ।। ५८ ।।

अथ तौ चक्ततुः स्तोत्रं पृथोर्वैण्यस्य धीमतः ।
भविष्यैः कर्मभिः सम्यक् सुस्वरौ सूतमागधौ ।। ५९ ।।

पुत्यवाग् दामशीलोऽयं सत्यसन्धो नरेश्वरः ।
ह्रीमान् मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ।। ६० ।।

धर्मज्ञाश्व क्रतज्ञश्व दयावान् प्रियभाषकः ।
मान्यमानयिता यज्वा ब्रह्मण्यःसाधुसम्मतः ।। ६१ ।।

समः शत्रौ च मित्रे च व्यवहारे स्थितो नृपः ।
सूतेनोक्त नू गुणानित्थं स तदा मागधेन च ।। ६२ ।।

चकार ह्टदि तादृक् च कर्मणा कृतवानसौ ।
ततः स पृथिवीपालः पालयन् वसुधामिमाम् ।। ६३ ।।

इयाज विविधैर्य्यज्ञैर्महद्भिर्भूरिदक्षिणैः ।
तं प्रजाः पृप्वीनाथमुपतस्थुः क्षुधादिंताः ।। ६४ ।।

ओषदीषु प्रनष्टाषु तास्मिन् काले ह्मराजके ।
तमूचुस्तेन ताः पृष्टास्तत्रागमनकारणम् ।। ६५ ।।

अराजके नृपश्वेष्ठे धरिव्या सकलौषधीः ।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्व्वाः प्रजेश्वर ।। ६६ ।।

त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षु तूपरीतानां प्रजानां जीवनौषधीः ।। ६७ ।।

ततोऽथ नृपतिर्दिव्यमादायाजगवं धनुः ।
शरांश्व दिव्यान् कुपितः सोऽन्वधावद् वसुन्धराम् ।। ६८ ।।

ततो ननाश त्वरिता गौर्भूत्वा तु वसुन्धरा ।
सा लोकान् ब्रह्मलोकादीन् तत्वासादगमन्मही ।। ६९ ।।

यत्र यत्र ययौ देवी सा तदा भूतधारिणी ।
तत्र तत्र तु सा वैण्यं ददर्शाभ्युद्यतायुधम् ।। ७० ।।
ततस्तं प्राह वसुधा पृथुं पृथुपराक्रमम् ।
प्रवेपमाणा तदूवाणापरित्राणपरायणा ।। ७१ ।।

स्त्रीवधे त्व महापापं किं नरेन्द्र न पश्यसि ।
येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ।। ७२ ।।

एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तस्य पुणयप्रदौ वधः ।। ७३ ।।

प्रजानामुपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानां ते नपश्वेष्ठे भविष्यति ।। ७४ ।।

त्वं हत्वा वसुधे वाणौर्मच्छासनपराङूमुखीम् ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ।। ७५ ।।

ततः प्रणाम्य वसुधा तं भूयः प्राह पार्थिवम् ।
प्रवेपिताङ्गी परमं साध्वसं समुपागता ।। ७६ ।।

उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
तस्माद् वदाम्युपायं ते ततू कुरुष्व यदिच्छसि ।। ७७ ।।

समस्तास्ता मया जीर्णा नरनाथ महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ।। ७८ ।

तस्मात् प्रजाहितार्थाय मम धर्म्मबृतां वर ।
तं तु वतूसं प्रयच्छत्वं क्षरेयं येन वतूसला ।। ७९ ।।

समाञ्च कुरु सर्वत्र येन क्षीरं समन्ततः ।
वरोषधी बीजभूतं वीर सर्वत्र भावये ।। ८० ।।

तत उत्सारयामास शैलांञ् शतसहस्त्रशः ।
धनुः कोटया तदा वैरायस्ततः शैला विवर्ज्जिताः ।। ८१ ।।

न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत् ।। ८२ ।।

न शस्यानि न गोरक्षं न कृषिर्न वणिकूपथः ।
वैणयातूप्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ।। ८३ ।।

यत्र यत्र समं तस्या भूमेरासीनूनराधिपः ।
तत्र तत्र प्रजानां हि निवासं समरोचयते ।। ८४ ।।

आहारः फलमूलानि प्रजानामभवत् तदा ।
कृच्छ्रणे महता सोऽपि प्रनष्टास्वौषधीषु वै ।। ८५ ।।

स कल्पयित्वा वतूसं तुमनुं स्वायम्भुवं प्रभुः ।
स्वे पाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ।। ८६ ।।

शस्यजातानि सर्वाणि प्रजानां हितकाम्यया ।
तेनान्नेन प्रजास्तात वर्त्तन्तेऽद्यापि नित्यशः ।। ८७ ।।

प्राणाप्रदानात् स पृथु र्यस्मादू भूमेरभूत् पिता ।
ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ।। ८८ ।।

ततश्व देवैर्मुनिबिर्दैत्यैरक्षोभिरद्रिभिः ।
गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ।। ८९ ।।

तत ततू पात्रमुपादाय तत् तदू तुग्धा मुने पयः ।
वत्सदोग्धृविशेषाश्व तेषां तदूयोनयोऽभवन् ।। ९० ।।

सैषा धात्री विधात्री च धारिणी पोषिणी तथा ।
सर्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ।। ९१ ।।

एवं प्रभावः स पृथुः पुत्रो वेणस्य वीर्य्यवान् ।
जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्चनात् ।। ९२ ।।

य इदं जन्म वैण्यस्य पृथोः कीर्त्तयते नरः ।
न तस्य दुष्कृतं किञ्चित् फलदायी प्रजायते ।। ९३ ।।

दुःस्वप्नोपशामं नॄ णां श्वृणवतां चैतदुत्तमम् ।
पृथोर्जन्म प्रभावश्व करोति सततं नृणाम् ।। ९४ ।।