विष्णुपुराणम्/प्रथमांशः/अध्यायः ४

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीमैत्रेय उवाच ।
ब्रह्मानारायणाख्योऽसौ कल्पादौ भगवान्यथा ।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने १ ।
श्रीपराशर उवाच ।
प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः ।
प्रजापतिपतिर्देवो यथा तन्मे निशामय २ ।
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रि क्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ३ ।
नारायणः परोऽचिन्त्यः परोषामपि स प्रभुः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ४ ।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ५ ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ६ ।
तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते ।
अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ७ ।
अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा ।
सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः ८ ।
वेदयज्ञमयं रूपमश्षोजगतः स्थितौ ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ९ ।
जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः ।
प्रविवेश तदा तोयमात्माधारो धराधरः १० ।
निरीक्ष्य तं तदा देवी पातालातलमागतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ११ ।
श्रीपृथिव्युवाच ।
नमस्ते पुण्डरीकाक्ष शंखचक्रगदाधर ।
मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता १२ ।
त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादीन्यश्षोतः १३ ।
नमस्ते परमात्मात्मन्पुरुषात्मन्नमोस्तु ते ।
प्रधानव्यक्तभूताय कालभूताय ते नमः १४ ।
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रा त्मरूपधृक् १५ ।
सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।
श्षोए! त्वमेव गोविंद चिन्त्यमानो मनीषिभिः १६ ।
भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।
अवतारेषु यद्रू पं तदर्चन्ति दिवौकसः १७ ।
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवमनाराध्य को मोक्षं समवाप्स्यति १८ ।
यत्किंचिन्मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः ।
बुद्ध्या च यत्परिच्छेद्यं तद्रू पमखिलं तव १९ ।
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीमिति लोकोयमभिधत्ते ततो हि माम् २० ।
जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो २१ ।
परापरात्मन्विश्वात्मञ्जय यज्ञपतेऽनघ ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकारस्त्वमग्नयः २२ ।
त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।
सूर्यादयो ग्रहास्तारा नक्षत्राण्यखितं जगत् २३ ।
मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम ।
यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ।
तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः २४ ।
श्रीपराशर उवाच ।
एवं संस्तूयमानस्तु पृथिव्या धरणीधरः ।
सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम् २५ ।
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् २६ ।
उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् ।
प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान् मुनीन् २७ ।
प्रयान्ति तोयानि खुराग्रविक्षतरसातलेऽधः कृतशब्दसन्तति ।
श्वासानिलास्ताः परितः प्रयांति सिद्धा जने ये नियता वसन्ति २८ ।
उत्तिष्ठतस्तस्य जलार्द्र कुक्षेर्महावराहस्य महीं विगृह्य ।
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति २९ ।
तं तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः ।
सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ३० ।
जयेश्वराणां परमेश केशव प्रभो गदाशंखधरासिचक्रधृक् ।
प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ३१ ।
पादेषु वेदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे ।
हुताशजिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ३२ ।
विलोचने रात्र्! यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते ।
सूक्तान्यश्षोआ!णि सटाकलापो घ्राणं समस्तानि हवींषि देव ३३ ।
स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे ।
पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद ३४ ।
पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते ।
विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्य ३५ ।
दंष्ट्राग्रविन्यस्तमश्षोमेतद्भूमण्डलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपंकम् ३६ ।
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।
व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ३७ ।
परमार्थस्त्वमेवैको नान्योस्ति जगतः पते ।
तवैष महिमा येन व्याप्तमेतच्चराचरम् ३८ ।
यदेतदृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रू पमयोगिनः ३९ ।
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ४० ।
ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रू पं परमेश्वर ४१ ।
प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् ।
उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ४२ ।
सत्त्वोद्रि क्तोऽसि भगवन् गोविंद पृथिवीमिमाम् ।
समुद्धर भवायेश शन्नो देह्यब्जलोचन ४३ ।
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी ।
भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ४४ ।
श्रीपराशर उवाच।
एवं संस्तूयमानस्तु परमात्मा महीधरः ।
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ४५ ।
तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्त्वात्तु देहस्य न मही याति संप्लवम् ४६ ।
ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् ।
यथाविभागं भगवाननादिः परमेश्वरः ४७ ।
प्राक्यसर्गदग्धानखिलान्पर्वतान्पृथिवीतले ।
अमोघेन प्रभावेण ससर्जामोघवाञ्छितः ४८ ।
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् ।
भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ४९ ।
ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः ।
चकार सृष्टिं भगवांश्चतुर्वक्त्रधरो हरिः ५० ।
निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ५१ ।
निमित्तमात्रं मुक्त्वैवं नान्यत्किंचिदपेक्षते ।
नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ५२ ।
इति श्रीविष्णुपुराणे प्रथमेंशो! पृथिव्युद्धारश्चतुर्थोऽध्यायः ४ ।