विष्णुपुराणम्/प्रथमांशः/अध्यायः १४

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

पृथोः पुत्रौ महावीर्यौ जज्ञातोऽन्तर्द्धिपालिनौ
शिखण्डिनी हविर्द्धानमन्तर्द्धानाद् व्यजायत ।। १ ।।
हविर्द्धानात् षडाग्नेयी धिषणाजनयत् सुतान् ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।। २ ।।
प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः ।
हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ १,१४.३ ॥
प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ।
प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ १,१४.४ ॥
समुद्रतनयायां तु कृतदारो महीपतिः ।
महतस्तमसः पारे सवर्णायां महामते ॥ १,१४.५ ॥
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥ १,१४.६ ॥
अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयः ॥ १,१४.७ ॥
श्रीमैत्रेय उवाच
यदर्थं ते महात्मानस्तपस्तेपुर्महामुने ।
प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ १,१४.८ ॥
श्रीपराशर उवाच
पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना ।
प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ १,१४.९ ॥
प्राचीनबर्हिरुवाच
ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः ।
प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ १,१४.१० ॥
तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः ।
कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ १,१४.११ ॥
श्रीपराशर उवाच
ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः ।
तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ १,१४.१२ ॥
प्रचेतस ऊचुः
येन तात प्रजावृद्धौ समर्था कर्मणा वयम् ।
भवेम तत्समस्तं नः कर्म व्याख्यातुमर्हसि ॥ १,१४.१३ ॥
पितोवाच
आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् ।
समेति नान्यथा मर्त्यः किमन्यत्कथयामि वः ॥ १,१४.१४ ॥
तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् ।
आराधयत गोविन्दं यदि सिद्धिमभीप्सथः ॥ १,१४.१५ ॥
धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा ।
आराधनीयो भगवाननादिपुरुषोत्तमः ॥ १,१४.१६ ॥
यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः ।
तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ १,१४.१७ ॥
श्रीपराशर उवाच
इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश ।
मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः ॥ १,१४.१८ ॥
दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ ।
नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ १,१४.१९ ॥
तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् ।
तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ १,१४.२० ॥
श्रीमैत्रेय उवाच
स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः ।
चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ १,१४.२१ ॥
श्रीपराशर उवाच
शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः ।
तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ १,१४.२२ ॥
प्रचेतस ऊचुः
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती ।
तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ १,१४.२३ ॥
ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् ।
योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ १,१४.२४ ॥
यस्याहः प्रथमं रूपमरूपस्य तथा निशा ।
संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ १,१४.२५ ॥
भुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः ।
बीजभूतं समस्तस्य तस्मै सोमात्मने नमः ॥ १,१४.२६ ॥
यस्तमास्यत्ति तीव्रात्मा प्रभाभिर्भासयन्नभः ।
घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः ॥ १,१४.२७ ॥
काठिन्यवान् यो बिभर्ति जगदेतदशेषतः ।
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ १,१४.२८ ॥
यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् ।
तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ १,१४.२९ ॥
यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक्तथा ।
पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ १,१४.३० ॥
पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् ।
आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ १,१४.३१ ॥
अवकाशमशेषाणां भूतानां यः प्रयच्छति ।
अनन्तमूर्तिमाञ्छुद्धस्तस्मै व्योमात्मने नमः ॥ १,१४.३२ ॥
समस्तेन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् ।
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ १,१४.३३ ॥
गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः ।
यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे ॥ १,१४.३४ ॥
गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति ।
अन्तःकरणरूपाय तस्मै विश्वात्मने नमः ॥ १,१४.३५ ॥
यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् ।
लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ १,१४.३६ ॥
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः ।
तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ १,१४.३७ ॥
अविकारमजं शुद्धं निर्गुणं यन्निरजनम् ।
नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ १,१४.३८ ॥
अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् ।
अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ १,१४.३९ ॥
अनाकाशमसंस्पर्शमगन्धमरसं च यत् ।
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ १,१४.४० ॥
अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ १,१४.४१ ॥
अरजोशब्दममृतमप्लुतं यदसंवृतम् ।
पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ १,१४.४२ ॥
परमेशत्वगुणवत्सर्वभूतमसंशयम् ।
नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ १,१४.४३ ॥
श्रीपराशर उवाच
एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः ।
दशवर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ १,१४.४४ ॥
ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः ।
ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ १,१४.४५ ॥
पतत्रिराजमारूढमवलोक्य प्रचेतसः ।
प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ १,१४.४६ ॥
ततस्तानाह भगवान्व्रयतामीप्सतो वरः ।
प्रसादसुमुखोहं वो वरदः समुपस्थितः ॥ १,१४.४७ ॥
ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः ।
यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ १,१४.४८ ॥
स चापि देवस्तं दत्त्वा यथभिलषितं वरम् ।
अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ १,१४.४९ ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रचेतास्तवो नाम चतुर्दशोऽध्यायः (१४)