कूर्मपुराणम्-पूर्वभागः/एकत्रिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

ऋषय ऊचुः ।
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः ।
किमकार्षीन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ।। ३१.१

सूत उवाच ।
प्राप्य वाराणसीं दिव्यामुपस्पृश्य महामुनिः ।
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ।। ३१.२

तमागतं मुनिं दृष्ट्वा तत्र ये निवसन्ति वै ।
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुंगवम् ।। ३१.३

पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीम् ।
महादेवाश्रयाः पुण्यां मोक्षधर्मान् सनातनान् ।। ३९.४

स चापि कथयामास सर्वज्ञो भगवानृषिः ।
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ।। ३१.५

तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः ।
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ।। ३१.६

जैमिनिरुवाच ।
भगवन् संशयञ्चैकं छेत्तुमर्हसि तत्त्ववित् ।
न विद्यते ह्यविदितं भवता परमर्षिणः ।। ३१.७

केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः ।
अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ।। ३१.८

ब्रह्मचर्यमथो मौनमन्ये प्राहुर्महर्षयः ।
अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ।। ३१.९

केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा ।
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ।। ३१.१०

किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुंगव ।
यदि वा विद्यतेऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ।। ३१.११
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः ।
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ।। ३१.१२

साधु साधु महाभाग यत्पृष्टं भवता मुने ।
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ।। ३१.१३

ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् ।
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ।। ३१.१४

नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः ।
न वेदविदुषे देयं ज्ञानानां ज्ञानमुत्तमम् ।। ३१.१५

मेरुश्रृङ्गे महा देवंमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ।। ३१.१६

देव्युवाच ।
देवदेव महादेव भक्तानामार्त्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ।। ३१.१७

सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः ।
आयासबहुलान्याहुर्यानि चान्यानि शंकर ।। ३१.१८

येन विब्रान्तचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामपि देहिनाम् ।। ३१.१९

एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम ।
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ।। ३१.२०

ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृ ।
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ।। ३१.२१

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ।। ३१.२२

तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ।। ३१.२३

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ।। ३१.२४

स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानेसंस्थितान्येव दिव्यभूमिगतानि च ।। ३१.२५

भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् ।
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ।। ३१.२६

श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ।। ३१.२७

देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम ।
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्तते ।। ३१.२८

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ।। ३१.२९

जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। ३१.३१

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ।। ३१.३१

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने ।। ३१.३२

चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ।। ३१.३३

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषः।
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ।। ३१.३४
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ।। ३१.३५

दुर्लभा तपसा चापि पूतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ।। ३१.३६

प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ।। ३१.३७

अविमुक्तं न सेवन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये संवसन्ति पुनः पुनः ।। ३१.३८

हन्यमानोऽपि यो विद्वान् वसेद् विघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ।। ३१.३९

जन्ममृत्युजरामुक्तं परं याति शिवालयम् ।
अपुनर्मरणानां हि सा गतिर्मोक्षकाङिक्षणाम् ।३१.४०

यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डतः ।
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।३१.४१

प्राप्यते गतिरुत्कृष्टा याऽविमुक्ते तु लभ्यते ।
नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ।३१.४२

किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।। २९.४३

अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ।। ३१.४४

कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ।। ३१.४५

प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः ।
केदारं भद्रकर्णं च गया पुष्करमेव च ।। ३१.४६
कुरुक्षेत्रं रुद्रकोटिर्नर्मदाहाटकेश्वरम् ।
शालिग्रामं च पुष्पाग्रं वंशं कोकामुखं तथा।३१.४७

प्रभासं विजयेशानं गोकर्णं शङ्कुकर्णकम् ।
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।३१.४८

न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ।।
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ।३१.४९

प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ।
अन्यत्र सुलभा गङ्गा श्राद्धं दानं तथा जपः ।३१.५०

व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ।
यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ।३१.५१

वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ।।
यदि पापो यदि शठो यदि वाऽधार्मिको नरः ।३१.५२

वाराणसीं समासाद्य पुनाति सकुलत्रयं ।।
वाराणस्यां महादेवं येऽर्चयन्ति स्तुवन्ति वै ।३१.५३

सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ।
अन्यत्र यागज्ज्ञानाद्वा संन्यासादथवाऽन्यतः ।३१.५४

प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना ।।
ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ।३१.५५

ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ।
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।३१.५६

अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ।
यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ।३१.५७

तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ।
ज्ञानध्यानाभिनिष्ठानां परमानन्दमिच्छताम् ।३१.५८
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ।
यानि कान्यविमुक्तानि देवैरुक्तानि नित्यशः ।३१.५९

पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ।
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।३१.६०

व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ।
यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।३१.६१

एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ।
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ।३१.६२

यथाऽविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ।
वरणायास्तथा चास्या मध्ये वाराणसी पुरी ।३१.६३

तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ।
वाराणस्याः परं स्थानं न भूतं न भविष्यति ।३१.६४

यत्र नारायणो देवो महादेवादिवेश्वरात् ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।३१.६५

उपासते मां सततं देवदेवः पितामहः ।
महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ।३१.६६

वाराणसीं समासाद्य ते यान्ति परमां गतिम् ।
तस्मान्मुमुक्षुर्नियतो वसेच्चामरणान्तिकम् ।३१.६७

वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ।
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ।३१.६८

ततो नैव चरेत् पापं कायेन मनसा गिरा ।
एतद् रहस्यं वेदानां पुराणानां द्विजोत्तमाः ।३१.६९

अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ।
देवतानामृषीणां च श्रृण्वतां परमेष्ठिनाम् ।३१.७०
देव्यै देवेन कथितं सर्वपापविनाशनम् ।
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।३१.७१

यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ।
यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ।३१.७२

तं विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ।
कलिकल्मषसंभूता येषामुपहता मतिः ।३१.७३

न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ।
ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ।३१.७४

तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्।
यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ।३१.७५

नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ।
आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्‌क्षिणाम् ।३१.७६

मृतानां च पुनर्जनम् न भूयो भवसागरे ।
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।३१.७७

योगी वाप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ।
न वेदवचनात् पित्रोर्न चैव गुरुवादतः ।३१.७८

मतिरुत्क्रमणीया स्यादविमुक्तागतिं प्रति ।३१.७९

सूत उवाच
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः ।
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ।। ३१.८०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वंविभागे एकत्रिशोऽध्यायः ।।