कूर्मपुराणम्-पूर्वभागः/एकविंशतितमोऽध्यायः
सूत उवाच ।
त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् ।
तस्य पुत्रोऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ।। २१.१
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ।। २१.२
हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् ।
रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत।।२१.३
हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् ।
विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः ।
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् ।
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः ।
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।२१.४
ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् ।
एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।२१.५
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा ।
असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ।२१.६
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः ।
येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ।२१.७
प्रसादाद् देवदेवस्य महादेवस्य धीमतः ।
भगीरथस्य तपसा देवः प्रीतमना हरः ।२१.८
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ।
भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।२१.९
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् ।
अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ।२१.१०
ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः ।
सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ।। २१.११
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ।। २१.१२
अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः ।
स हि रामभयाद् राजा वनं प्राप सुदुः खितः ।। २१.१३
विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् ।
तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ।। २१.१४
तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ।। २१.१५
रघोरजः समुत्पन्नो राजा दशरथस्ततः ।
रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ।। २१.१६
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ।२१.१७
जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् ।
रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ।२१.१८
सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता ।
तपसा तोषिता देवी जनकेन गिरीन्द्रजा ।२१.१९
प्रायच्छज्जानकीं सीतां राममेवाश्रितां पतिम् ।
प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ।२१.२०
प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ।।
स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।२१.२१
अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुंगवाः ।
इदं धनुः समादातुं यः शक्नोति जगत्त्रये ।२१.२२
देवो वा दानवो वाऽपि स सीतां लब्धुमर्हति ।
विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ।२१.२३
भञ्जयामास चादाय गत्वाऽसौ लीलयैव हि ।
उद्ववाह च तां कन्यां पार्वतीमिव शंकरः ।२१.२४
रामः परमधर्मात्मा सेनामिव च षण्मुखः ।
ततो बहुतिथे काले राजा दशरथः स्वयम् ।२१.२५
रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् ।
तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी ।२१.२६
निवारयामास पतिं प्राह संभ्रान्तमानसा ।
मत्सुतं भरतं वीरं राजानं कर्त्तुमर्हसि ।२१.२७
पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः ।
स तस्या वचनं श्रुत्वा राजा दुःखितमानसः ।२१.२८
बाढमित्यब्रवीद् वाक्यं तथा रामोऽपि धर्मवित् ।
प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः ।२१.२९
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् ।
संवत्सराणां चत्वारि दश चैव महाबलः ।२१.३०
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः ।
कदाचिद् वसतोऽरण्ये रावणो नाम राक्षसः ।२१.३१
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् ।।
अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ।२१.३२
दुः खशोकाभिसंतप्तौ बभूवतुररिंदमौ ।
ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ।२१.३३
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः ।।
सुग्रीवस्यानुगो वीरो हनुमान्नाम वानरः ।२१.३४
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा ।
स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ।२१.३५
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह ।
महीं सागरपर्यन्तां सीतादर्शनतत्परः ।२१.३६
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् ।
तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ।२१.३७
अपश्यदमलां सीतां राक्षसीभिः समावृताम् ।
अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ।२१.३८
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् ।
निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ।२१.३९
असंशयाय प्रददावस्यै रामाङ्गुलीयकम् ।
दृष्ट्वाऽङ्गुलीयकं सीता पत्युः परमशोभनम् ।२१.४०
मेने समागतं रामं प्रीतिविस्फारितेक्षणा ।
समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ।२१.४१
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः ।
निवेदयित्वा रामाय सीतादर्शनमात्मवान् ।२१.४२
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः ।
ततः स रामो बलवान् सार्द्धं हनुमता स्वयम् ।२१.४३
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् ।
कृत्वाऽथ वानरशतैर्लङ्कामार्गं महोदधेः ।२१.४४
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ।
सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ।२१.४५
आनयामास तां सीतां वायुपुत्रसहायवान् ।
सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ।२१.४६
स्थापयामास लिङ्गस्थं पूजयामास राघवः ।
तस्य देवो महादेवः पार्वत्या सह शंकरः ।२१.४७
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ।
यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ।२१.४८
महापातकसंयुक्तास्तेषां पापं विनंक्ष्यति ।
अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ।२१.४९
दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः ।
यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ।२१.५०
यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः ।
स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं महत् ।२१.५१
स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ।
इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् ।२१.५२
सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत ।
रामोऽपि पालयामास राज्यं धर्मपरायणः ।२१.५३
अभिषिक्तो महातेजा भरतेन महाबलः ।
विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ।२१.५४
यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् ।
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।२१.५५
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ।२१.५६
नलस्तु निषधस्याभून्नभास्तमादजायत ।
नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ।२१.५७
तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् ।
अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ।२१.५८
तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः ।
तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ।२१.५९
श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः ।
सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ।। २१.६०
य इमं श्रृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् ।
सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ।। २१.६१
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः।।