कूर्मपुराणम्-पूर्वभागः/सप्तचत्वारिंशत्तमोऽध्यायः
सूत उवाच ।
केतुमाले नराः कालाः सर्वे पनसभोजनाः ।
स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ।। ४७.१
भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः ।
दश वर्षसहस्राणि जीवन्ते आम्रभोजनाः ।। ४७.२
रम्यके पुरुषा नार्यो रमन्ति रजतप्रभाः ।
दशवर्षसहस्राणि शतानि दश पञ्च च ।४७.३
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः ।
हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः ।४७.४
एकादशसहस्त्राणि शतानि दश पञ्च च ।
जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ।। ४७.५
त्रयोदशसहस्राणि शतानि दश पञ्च च ।
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ।। ४७.६
सर्वे मिथुनजाताश्च नित्यं सुखनिषेविताः ।
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ।। ४७.७
तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः ।
दशवर्षहस्राणि जीवन्ति प्लक्षभोजनाः ।। ४७.८
यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् ।
ध्याने मनः समाधाय सादरं भक्तिसंयुताः ।। ४७.९
तथा च हरिवर्षे तु महारजतसन्निभाः ।
दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ।। ४७.१०
तत्र नारायणं देवं विश्वयोनिं सनातनम् ।
उपासते सदा विष्णुं मानवा विष्णुभाविताः ।। ४७.११
तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकसन्निभम् ।
विमानं वासुदेवस्य पारिजातवनाश्रितम् ।। ४७.१२
चतुर्द्धारमनोपम्यं चतुस्तोरणसंयुतम् ।
प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ।। ४७.१३
स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् ।
स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलंकृतम् ।। ४७.१४
हेमसोपानसंयुक्तं नानारत्नोपशोभितम् ।
दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ।। ४७.१५
सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् ।
नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ।। ४७.१६
योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् ।
स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ।। ४७.१७
तत्र देवादिदेवस्य विष्णोरमिततेजसः ।
राजानः सर्वकालं तु महिमानं प्रकुर्वते ।। ४७.१८
गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः ।
स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ।। ४७.१९
इलावृते पद्मवर्णा जम्बूरसफालशिनः ।
त्रयोदशसहस्राणि वर्षाणां वै स्थिरायुषः ।। ४७.२०
भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्त्तिताः ।
नानादेवार्च्चने युक्ता नानाकर्माणि कुर्वते ।४७.२१
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः ।
नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ।४७.२२
कर्मभूमिरियं विप्रा नराणामधिकारिणाम् ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।४७.२३
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ।
इन्द्रद्वीपः कसेरुक्मान् ताम्रवर्णो गभस्तिमान् ।४७.२४
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।४७.२५
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ।
पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा ।४७.२६
ब्राह्मणाः क्षत्रिया वैश्याः मध्ये शूद्रास्तथैव च ।
इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः ।४७.२७
स्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः ।
शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा ।४७.२८
इरावती वितस्ता च विपाशा देविका कुहूः ।
गोमती धूतपापा च बाहुदा च दृषद्वती ।४७.२९
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः ।
वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा ।४७.३०
वर्णाशा वन्दना चैव सचर्मण्यवती सुरा ।
विदिशा वेत्रवत्यापि पारियात्राश्रयाः स्मृताः ।। ४७.३१
नर्मदा सुरसा शोण दशार्णा च महानदी ।
मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ।। ४७.३२
चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी ।
ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ।। ४७.३३
तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी ।
वेण्या वैतरणी चैव बलाका च कुमुद्वती ।। ४७.३४
तथा चैव महागैरी दुर्गा चान्तः शिला तथा ।
विन्ध्यपादप्रसूतास्तु सद्यः पुण्यजलाः शुभाः ।। ४७.३५
गोदावरी भीमरथी कृष्णा वेणा च वश्यता ।
तुङ्गभद्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ।४७.३६
दक्षिणापथनद्यस्तु सह्यपादाद्विनिः सृताः ।
ऋतुमाला ताम्रपर्णी पुष्पवत्युत्पलावती ।४७.३७
मलयान्निःसृता नद्यः सर्वाः शीतजलाः स्मृताः ।
ऋषिकुल्या त्रिसामा च गन्दमादनगामिनी ।४७.३८
रूपा पालासिनी चैव ऋषिका वंशधारिणी ।
शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ।। ४७.३९
आसां नद्युपनद्यश्च शतशो द्विजपुंगवाः ।
सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ।। ४७.४०
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ।। ४७.४१
पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः ।
तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ।। ४७.४२
मालका मालपाश्चैव पारियात्रनिवासिनः ।
सौवीराः सैन्धवा हूणा माल्याः बाल्यनिवासिनः ।। ४७.४३
माद्रा रामास्तथैवान्ध्राः पारसीकास्तथैव च ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।। ४७.४४
चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् ।
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ।। ४७.४५
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।
न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ।। ४७.४६
स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः ।
रमन्ते विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ।। ४७.४७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।