कूर्मपुराणम्-पूर्वभागः/त्रयस्त्रिंशत्तमोऽध्यायः
सूत उवाच ।
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः ।
जगाम लिङ्गं तद् द्रष्टुं कपर्दीश्वरमव्ययम् ।। ३३.१
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः ।
पिशाचमोचने तीर्थे पूजयामास शूलिनम् ।। ३३.२
तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह ।
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ।। ३३.३
कश्चिदभ्याजगामेमं शार्दूलो घोररूपधृक् ।
मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् ।। ३३.४
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ।
धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ।। ३३.५
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः ।
जगाम चान्यद्विजनं देशं दृष्ट्वा मुनीश्वरान् ।। ३३.६
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी ।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ।। ३३.७
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा ।
वृषाधिरूढा पुरुषैस्तादृशैरेव संयता ।। ३३.८
पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि ।
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ।। ३३.९
दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा तदा ।
कपर्दीश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ।। ३३.१०
तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः ।
कपर्दीशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ।। ३३.११
इदं देवस्य तल्लिङ्गं कपर्द्दीश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ।३३.१२
ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् ।
जायते योगसिद्धिःश्च षण्मासेन न संशयः ।। ३३.१३
ब्रह्महत्यादिपापानि विनश्यन्त्यस्य पूजनात् ।
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ।। ३३.१४
अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः ।
शङ्कुकर्ण इति ख्यातः पूजयामास शंकरम् ।३३.१५
जजाप रुद्रमनिशं प्रणवं रुद्ररूपिणम् ।
पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ।३३.१६
उवाच तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्।
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ।३३.१७
अस्थिचर्मपिनद्धाङ्गं निःश्वसन्तं मुहुर्मुहुः ।
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ।३३.१८
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंगतः ।
तस्मै पिशाच क्षुधया पीड्यमानोऽब्रवीद् वचः ।३३.१९
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ।। ३३.२०
न पूजिता मया देवा गावोऽप्यतिथयस्तथा ।
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ।। ३३.२१
एकदा भगवान् देवो गोवृषेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ।। ३३.२२
तदाऽचिरेण कालेन पञ्चत्वमहमागतः ।
न दृष्टं तन्महाघोरं यमस्य वदनं मुने ।। ३३.२३
ईदृशीं योनिमापन्नः पैशाचीं क्षुधयाऽन्वितः ।
पिपासयाऽधुनाक्रान्तो न जानामि हिताहितम् ।। ३३.२४
यदि कंचित् समुद्धर्तुमुपायं पश्यसि प्रभो ।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ।। ३३.२५
इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् ।
त्वादृशो न हि लोकेऽस्मिन् विद्यते पुण्यकृत्तमः ।। ३३.२६
यत्त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः ।
संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ।। ३३.२७
तेन कर्मविपाकेन देशमेतं समागतः ।
स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ।।३३.२८
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ।३३.२९
स एवमुक्तो मुनिना पिशाचो
दयालुना देववरं त्रिनेत्रम् ।
स्मृत्वा कपर्दीश्वरमीशितारं
चक्रे समाधाय मनोऽवगाहम् ।। ३३.३०
तदाऽवगाढो मुनिसंनिधाने
ममार दिव्याभरणोपपन्नः ।
अदृश्यतार्कप्रतिमे विमाने
शशाङ्कचिह्नाङ्कितचारुमौलिः ।। ३३.३१
विभाति रुद्रैरुदितो दिविस्थैः
समावृतो योगिभिरप्रमेयैः ।
सवालखिल्यादिभिरेष देवो
यथोदये भानुरशेषदेवः ।। ३३.३२
स्तुवन्ति सिद्धा दिवि देवसङ्घा
नृत्यन्ति दिव्याप्सरसोऽभिरामाः ।
मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां
गन्धर्वविद्याधरकिंनराद्याः ।। ३३.३३
संस्तूयमानोऽथ मुनीन्द्रसङ्घै-
रवाप्य बोधं भगवात्प्रसादात् ।
समाविशन्मण्डलमेतदग्र्यं
त्रयीमयं यत्र विभाति रुद्रः ।। ३३.३४
दृष्ट्वा विमुक्तं स पिशाचभूतं
मुनिः प्रहृष्टो मनसा महेशम् ।
विचिन्त्य रुद्रं कविमेवमग्र्यं
प्रणम्य तुष्टाव कपर्दिनं तम् ।। ३३.३५
शङ्कुकर्ण उवाच ।
कपर्दिनं त्वां परतः परस्ताद्
गोप्तारमेकं पुरुषं पुराणम् ।
व्रजामि योगेश्वरमीशितार-
मादित्यमग्निं कपिलाधिरूढम् ।। ३३.३६
त्वां ब्रह्मपारं हृदि सन्निविष्टं
हिरण्मयं योगिनमादिमन्तम् ।
व्रजामि रुद्रं शरणं दिविस्थं
महामुनिं ब्रह्ममयं पवित्रम् ।। ३३.३७
सहस्रपादाक्षिशिरोऽभियुक्तं
सहस्रबाहुं तमसः परस्तात् ।
त्वां ब्रह्मपारं प्रणमामि शंभुं
हिरण्यगर्भाधिपतिं त्रिनेत्रम् ।। ३३.३८
यतः प्रसूतिर्जगतो विनाशो
येनावृतं सर्वमिदं शिवेन ।
तं ब्रह्मपारं भगवन्तमीशं
प्रणम्य नित्यं शरणं प्रपद्ये ।। ३३.३९
अलिङ्गमालोकविहीनरूपं
स्वयंप्रभुं चित्पतिमैकरुद्रम् ।
तं ब्रह्मपारं परमेश्वरं त्वां
नमस्करिष्ये न यतोऽन्यदस्ति ।। ३३.४०
यं योगिनस्त्यक्तसबीजयोगा
लब्ध्वा समाधिं परमात्मभूताः ।
पश्यन्ति देवं प्रणतोऽस्मि नित्यं
तं ब्रह्मपारं भवतः स्वरूपम् ।। ३३.४१
न यत्र नामानिविशेषतृप्ति-
र्न संदृशे तिष्ठति यत्स्वरूपम् ।
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं
स्वयंभुवं त्वां शरणं प्रपद्ये ।। ३३.४२
यद् वेदवेदाभिरता विदेहं
सब्रह्मविज्ञानमभेदमेकम् ।
पश्यन्त्यनेकं भवतः स्वरूपं
तद्ब्रह्मपारं प्रणतोऽस्मि नित्यम् ।। ३३.४३
यतः प्रधानं पुरुषः पुराणो
विवर्त्तते यं प्रणमन्ति देवाः ।
नमामि तं ज्योतिषि संनिविष्टं
कालं बृहन्तं भवतः स्वरूपम् ।। ३३.४४
व्रजामि नित्यं शरणं गुहेशं
स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरमिन्दुमौलिं
पिनाकिनं त्वां शरणं व्रजामि ।। ३३.४५
स्तुत्वैवं शङ्कुकर्णोऽसौ भगवन्तं कपर्दिनम् ।
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ।। ३३.४६
तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ।। ३३.४७
शङ्कुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः ।
निनिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ।। ३३.४८
एतद् रहस्यमाख्यातं माहात्म्यं च कपर्दिनः ।
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ।। ३३.४९
य इमां श्रृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ।। ३३.५०
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ।। ३३.५१
इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् ।
द्रक्ष्यामः सततं देवं पूजयामोऽथ शूलिनम् ।। ३३.५२
इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः ।
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ।। ३३.५३
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रयस्त्रिंशोध्यायः ।।