कूर्मपुराणम्-पूर्वभागः/षड्चत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


सूत उवच ।
चतुर्दशसहस्रणि योजनानां महापुरी ।
मेरोरुपरि विख्याता देवदेवस्य वेधसः ।। ४६.१

तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः ।
उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशंकरैः ।। ४६.२

तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् ।
सनत्कुमारो भगवानुपास्ते नित्यमेव हि ।। ४६.३

स सिद्धऋषिगन्धर्वैः पूज्यमानः सुरैरपि ।
समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ।। ४६.४

तत्र देवादिदेवस्य शंभोरमिततेजसः ।
दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ।। ४६.५

दिव्यकान्तिसमायुक्तं चतुर्द्धारं सुशोभनम् ।
महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ।। ४६.६

देव्या सह महादेवः शशाङ्कार्काग्निलोचनः ।
रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ।। ४६.७

तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः ।
पूजयन्ति महादेवं तापसाः सत्यवादिनः ।। ४६.८

तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् ।
गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ।।४६.९

तत्रैव पर्वतवरे शक्रस्य परमा पुरी ।
नाम्नाऽमरावती पूर्वे सर्वशोभासमन्विता ।। ४६.१०

तत्र चाप्सरसः सर्वा गन्धर्वा गीततत्पराः ।
उपासते सहस्राक्षं देवास्तत्र सहस्रशः ।। ४६.११

ये धार्मिका वेदविदो यागहोमपरायणाः ।
तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ।। ४६.१२

तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः ।
तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ।। ४६.१३

तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा ।
जपिनां होमिनां स्थानं दानवानां दुरासदम् ।। ४६.१४

दक्षिणे पर्वतवरे यमस्यापि महापुरी ।
नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ।। ४६.१५

तत्र वैवस्वतं देवं देवाद्याः पर्युपासते ।
स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ।। ४६.१६

तस्यास्तु पश्चिमे भागे निर्ऋतेस्तु महात्मनः ।
रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ।। ४६.१७

तत्र ते निर्ऋतिं देवं राक्षसाः पर्युपासते ।
गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ।। ४६.१८

पश्चिमे पर्वतवरे वरुणस्य महापुरी ।
नाम्ना शुद्धवती पुण्या सर्वकामर्द्धिसंयुता ।। ४६.१९

तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः ।
आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः ।४६.२०

तस्या उत्तरदिग्भागे वायोरपि महापुरी ।
नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ।। ४६.२१

अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः ।
प्राणायामपरामर्त्यास्थानंतद्‌यान्ति शाश्वतम् ।। ४६.२२

तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी ।
नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ।। ४६.२३

तत्र ये भोगनिरता स्वधर्मं पुर्यपासते ।
तेषां तदुचितं स्थानं नानाभोगसमन्वितम् ।। ४६.२४

तस्याश्च पूर्वदिग्भागे शंकरस्य महापुरी ।
नाम्ना यशोवती पुण्या सर्वेषां सा दुरासदा ।। ४६.२५

तत्रेशानस्य भवनं रुद्रेणाधिष्टितं शुभम् ।
घमेश्वरस्य विपुलं तत्रास्ते स गणावृतः ।। ४६.२६

तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः ।
निवासः कल्पितः पूर्वं देवदेवेन शूलिना ।। ४६.२७

विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै ततः ।। ४६.२८

सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः ।
सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ।। ४६.२९

पूर्वेण शैवाच्छैलं तु सीता यात्यन्तरिक्षगा ।
ततश्च पूर्ववर्षेण भद्राश्वाद्याति चार्णवम् ।। ४६.३०

तथैवालकनन्दा च दक्षिणादेत्य भारतम् ।
प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ।। ४६.३१

सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा ।
पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ।। ४६.३२

भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ।। ४६.३३

आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।। ४६.३४

भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ।। ४६.३५
जठरो देवकूटश्च मर्यादापर्वतावुभौ ।
दक्षिणोत्तरमायातावानीलनिषधायतौ ।। ४६.३६

गन्धमादनकैलासौ पूर्वपश्चायतावुभौ ।
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।। ४६.३७

निषधः पारियात्रश्च मर्यादापर्वताविमौ ।
मेरोः पश्चिमदिग्भागे यथापूर्व व्यवस्थितौ ।। ४६.३८

त्रिश्रृङ्गो जारुधिस्तद्वदुत्तरे वर्षपर्वतौ ।
पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ।। ४६.३९

मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः ।
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ।। ४६.४०

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिंशोऽध्यायः ।।