कूर्मपुराणम्-पूर्वभागः/एकपञ्चाषत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

ऋषय ऊचुः ।
अतीतानागतानीह यानि मन्वन्तराणि तु ।
तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ।।५१.१

वेदशाखाप्रणयनं देवदेवस्य धीमतः ।
तथावतारान् धर्मार्थमीशानस्य कलौ युगे ।। ५१.२

कियन्तो देवदेवस्य शिष्याः कलियुगेऽपि वै ।
एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ।। ५१.३

सूत उवाच ।
मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।। ५१.४

षडेते मनवोऽतीताः सांप्रतं तु रवेः सुतः ।
वैवस्वतोऽयं यस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ।।५१.५

स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ।। ५१.६

पारावताश्च तुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ।। ५१.७

ऊर्ज्जस्तम्भस्तथा प्राणो दान्तोऽथ वृषभस्तथा ।
तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयोऽभवन् ।। ५१.८

चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमेतदाख्यातमन्तरं श्रृणु चोत्तमम् ।। ५१.९

तृतीयेऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः ।
सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ।। ५१.१०

सुधामानस्तथा सत्यः शिवाश्चाथ प्रतर्दनाः ।
वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ।। ५१.११

रजोर्ध्वश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सप्त सप्तर्षयोऽभवन् ।। ५१.१२

तामसस्यान्तरे देवाः सुरायासहरास्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ।। ५१.१३

शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः ।
बभूव शंकरे भक्तो महादेवार्चने रतः ।। ५१.१४

ज्योतिर्द्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा ।
पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ।। ५१.१५

पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः ।
मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ।। ५१.१६

अमिता भूतयस्तत्र वैकुण्ठाश्च सुरोत्तमाः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ।। ५१.१७

हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ।५१.१८

एते सप्तर्षयो विप्रास्तत्रासन् रैवतेऽन्तरे ।
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।५१.१९

प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ।
षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः ।५१.२०

मनोजवस्तथैवेन्द्रो देवानपि निबोधतः ।
आद्याः प्रसूता भाव्याश्च पृथुनाश्च दिवौकसः ।५१.२१

महानुभावा लेख्याश्च पञ्चैते हृष्टका गणाः ।
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।५१.२२

अतिनामा सविष्णुश्च सप्तासन्नृषयः शुभाः ।
विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः ।५१.२३

मनुः संवर्तनो विप्राः सांप्रतं सप्तमेऽन्तरे ।
आदित्या वसवो रुद्रा देवास्तत्र मरुद्‌गणाः ।५१.२४

पुरंदरस्तथैवेन्द्रो बभूव परवीरहा ।
वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ।५१.२५

विश्वामित्रो भरद्वाजः सप्त सप्तर्षयोऽभवन् ।
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ ।५१.२६

तदंशभूता राजानः सर्वे च त्रिदिवौकसः ।
स्वायंभुवेऽन्तरे पूर्वम् प्रकृत्यां मानसः सुतः ।५१.२७

रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः ।
ततः पुनरसौ देवः प्राप्ते स्वारोचिषेऽन्तरे ।५१.२८

तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः ।
उत्तमेऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः ।५१.२९

सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः ।
तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि ।५१.३०

हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः ।
रैवतेऽप्यन्तरे चैव संभूत्यां मानसोऽभवत् ।५१.३१

संभूतो मानसैः सार्द्धं देवैः सह महाद्युतिः ।
चाक्षुषेऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः ।५१.३२

विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ।
मन्वन्तरेऽच संप्राप्ते तथा वैवस्वतेऽन्तरे ।५१.३३

वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह ।
त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना ।५१.३४

पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम् ।
इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै ।५१.३५

सप्त चैवाभवन् विप्रा याभिः सङ्कर्षिताः प्रजाः ।
यस्माद् विश्वमिदं कृत्स्नं वामनेन महात्मना ।५१.३६

तस्मात् सर्वैः स्मृतो विष्णु र्विधेर्द्धातोः प्रवेशनात् ।
एष सर्वं सृजत्यादौ पाति हन्ति च केशवः ।५१.३७

भूतान्तरात्मा भगवान् नारायण इति श्रुतिः ।
एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः ।५१.३८

चतुर्द्धा संस्थितो व्यापी सगुणो निर्गुणोऽपि च ।
एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवाऽमला ।५१.३९

वासुदेवाभिधाना सा गुणातीता सुनिष्कला ।
द्वितीया कालसंज्ञाऽन्या तामसी शिवसंज्ञिता ।५१.४०

निहन्ति सकलं चान्ते वैष्णवी परमा तनुः ।
सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता ।५१.४१

जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा ।
चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मेति संज्ञिता ।५१.४२

राजसी चानिरुद्धस्य पुरषः सृष्टिकारिता ।
यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः ।५१.४३

नारायणाख्यो ब्रह्माऽसौ प्रजासर्गं करोति सः ।
या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वरः ।५१.४४

तया संमोहयेद् विश्वं सदेवासुरमानुषम् ।
सैव सर्वजगन्मूर्तिः प्रकृतिः परिकीर्त्तिता ।५१.४५

वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ।
प्रधानं पुरुषः कालसत्त्वत्रयमनुत्तमम् ।५१.४६

वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते ।
एकं चेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ।५१.४७

बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ।
कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ।५१.४८

अपान्तरतमाः पूर्वं स्वेच्छया भगवान्हरिः ।
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।५१.४९

एकोऽयं वेद भगवान् व्यासो नारायणः प्रभुः ।
इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुंगवाः ।
एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ।। ५१.५०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशोऽध्यायः ।।