भार्गवतन्त्रम्
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
भार्गवतन्त्रस्य अध्यायाः

।। भार्गवतन्त्रम् ।।
।। प्रथमोऽध्यायः ।।
[ भार्गवतन्त्रस्य प्रयोजनप्रतिपादनाध्यायः ]
[ मङ्गलाचरणम् ]

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। 1.1 ।।
  (A.M.आदौ अधोलिखितां पक्तिं निर्दिशति- "श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः।")
  (c:A, भूतानाम For विद्यानाम, M.कोशे प्रथमश्लोकानन्तरम् अधोलिखितः अधिकः पाठः उपलभ्यते-
"वन्दे लक्ष्मीपतिं देवं शङ्खचक्रगदाधरम्।
 विद्यामूर्तिं हयग्रीवं शब्दार्थज्ञानलब्धये।।
 अमृताध्मातमेघाभममृताभरणं विभुम्।
 पाञ्चरात्रगमाचार्यं वन्दे वैकुण्ठभूपतिम्।। श्री भार्गवसंहिताप्रारंभः।।")
 

[ प्रास्ताविकम् ]

अगस्त्यं मुनिशार्दूलं महेन्द्रशिखरे स्थितम्।
प्रणस्य प्रयताः भूत्वा पप्रच्छुर्मुनिपुंगवाः ।। 1.2 ।।
  (d:A.पपृच्छुः for पप्रच्छुः)

मुनयः
भगवन् मुनिशार्दूल सर्वशास्त्रविशारद।
कथमद्य वयं सर्वे तीर्णास्सम भवसागरात् ।। 1.3 ।।
अधीतान्यपि शास्त्राणि समधीता त्रयी पुनः।
तथापि निर्मलं नैव मनोऽस्माकं मुनीश्वर ।। 1.4 ।।
कथं वयं समुत्तीर्णा भविष्यामो भवाम्बुधेः।
उपायमद्य नो ब्रूहि येन यामोऽक्षयं पदम् ।। 1.5 ।।
एतच्छ्रुत्वा महातेजाः स्वयं स्वायंभुवो मुनिः।
ऋषिभ्यो वक्तुमारेभे स्वधीतं च स्वनुष्ठितम् ।। 1.6 ।।

अगस्त्यः
पुरा खलु मया रक्षो जीर्णितं श्राद्धभोजने।
वातापिरिल्वलः पश्चात् कुपितः सोऽपि मारितः ।। 1.7 ।।
  (d: A.मारुतः for मारितः;)
अहो रक्षोद्वयं नष्टं मया खलु तपस्यता।
ताभ्यां नष्टं तपोऽस्माकं किं कुर्म इति चिन्तयन् ।। 1.8 ।।
हिमवन्तमुपासाद्य देवगन्धर्वसेवितम्।
विसर्पिगाङ्गसलिलं सिद्धविद्याधरार्चितम् ।। 1.9 ।।
शङ्करज्योतिषाश्लिष्टं पार्वतीतोषकारिणम्।
नारायणमहायोगिचरणाम्बुजमुद्रितम् ।। 1.10 ।।
पुण्यगन्धवहोपेतं पुरुहूतादिवन्दितम्।
पुरत्रयोपसंहारे चापरूपधरं परम् ।। 1.11 ।।
फलपुष्पभरानम्रवृक्षषण्डसमाकुलम्।
अनेकाश्रमसंकीर्णममलं हरिमन्दिरम् ।। 1.12 ।।

[हिमालये अगस्त्यतपश्चर्या आकाशवाणीश्रवणं च]

अत्युग्रं तप अतिष्ठं निराहारो जितेन्द्रियः।
वर्धमाने तदा घोरे तपस्यघहरेऽद्‌भुते ।। 1.13 ।।
आकाशवाणीमश्रौषमतिगम्भीरवादिनीम्।
स्वल्पाक्षरां च बह्वर्थां परिणामसुखावहाम् ।। 1.14 ।।

[हरेः आराधनमहत्त्वं, मुनेः महेन्द्रगिरिगमनाय निर्देशश्च]

आराधितो यदि हरिस्तपसा किं प्रयोजनम्।
नाराधितो यदि हरिस्तपसा किं प्रयोजनम् ।। 1.15 ।।
  (श्लोकादुपरि `आकाशवाणी' इत्ययं अंशः M.T.कोशे अधिकः।)
  (A.om. c: d:;)
अन्तर्बहिर्यदि हरिस्तपसा किं प्रयोजनम्।
नान्तर्बहिर्यदि हरिस्तपसा किं प्रयोजनम् ।। 1.16 ।।
  (c:A. नाराधितो for नान्तर्बहिः)
तपसो विरम ब्रह्मन् मर्हेन्द्रं व्रज पर्वतम्।
तत्र रामं समासाद्य तस्मात् सुखमवाप्नुहि ।। 1.17 ।।
  (a: A. विरह for विरम;)

[अगस्त्यस्य महेन्द्रगिरिगमनम्]

एतच्छ्रुत्वाम्बराद्वाणीं मनःश्रुतिसुखप्रदाम्।
विरम्य तपसो भूयो दक्षिणां दिशमभ्यगाम् ।। 1.18 ।।
ततो महेन्द्रमासाद्य पुण्यगन्धर्वसेवितम्।
रामं कमलपत्राक्षमद्राक्षमृषिभिः सह ।। 1.19 ।।

[परशुरामस्य वर्णनम्]

तप्तचामीकरनिभं पिङ्गश्मश्रुजटाधरम्।
वल्कलाजिनसंवीतं ज्वलत्परशुधारिणम् ।। 1.20 ।।
तपन्तमिव चादित्यं शीतयन्तं मृगाङ्कवत्।
भासयन्तं जगत्सर्वं वासुदेवप्रभौघवत् ।। 1.21 ।।
  (b: A. प्रतांक; M. मृगाङ्ग for मृगाङ्क;)
भान्तं ब्रह्म श्रियातीव श्रिया नारायणो यथा।
भारत्या परमेष्ठीव शर्वो गिरिजया यथा ।। 1.22 ।।
  (a: T.A. श्रित्य for श्रिया;)

[अगस्त्यकृता परशुरामस्तुतिः]

जामदग्न्यं तमालोक्य रामं सर्वाङ्गसुन्दरम्।
मुदा परमयोपेतः शिरसा समवन्दिषम् ।। 1.23 ।।
  (d: A. समवादिषम् for समवन्दिषम्;)
कृत्तो वनस्पतिरिव पातितो धरणीतले।
विग्रहो मे मुनिश्रेष्ठाः रामस्य पदपद्मयोः ।। 1.24 ।।
अनुज्ञातः समुत्थाय तोषयामास तं प्रभुम्।
उच्चैः स्वरं समासाद्य पुण्डरीकाक्षविद्यया ।। 1.25 ।।
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।। 1.26 ।।
नमस्ते वासुदेवाय शान्तानन्दचिदात्मने।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधये नमः ।। 1.27 ।।
  (b:M. शान्तोनन्त for शान्तानन्द;)
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ।। 1.28 ।।
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ।। 1.29 ।।
अनेकमूर्तये तुभ्यमक्षराय च ते नमः।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ।। 1.30 ।।
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ।। 1.31 ।।
  (a: A. मन्त्र for मात्र;)
  (b: M. त्रय्य for त्रैय;)
  (c: A. अन्विष्ठाय for अणिष्ठाय;)
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः।
वरिष्ठाय वसिष्ठाय कनिष्ठाय च ते नमः ।। 1.32 ।।
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः।
कल्पनाक्रोडरूपाय सृष्टिस्थित्यन्तहेतवे ।। 1.33 ।।
नमस्ते गुणरूपाय गुणरूपानुवर्तिने।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ।। 1.34 ।।
  (b:A. अनुवृत्तिने for अनुवर्तिने;)
आदिमध्यान्तशून्याय तद्वते च नमो नमः।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ।। 1.35 ।।
लोकयात्राप्रसिद्ध्यर्थं स्रष्टुब्रह्मादिरूपिणे।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ।। 1.36 ।।
  (A.om a:b:,)
  (b: M. सृष्टृ for स्रष्टु;)
विपाकैः कर्मणां क्लेशैरस्पृष्टवपुषे नमः।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ।। 1.37 ।।
  (b: A. आधुष्ट for अस्पृष्ट;)
नित्यासाधारणानेकलोकरक्षापरिच्छदे।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ।। 1.38 ।।
यजमानाय यज्ञाय यष्टव्याय नमो नमः।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ।। 1.39 ।।
  (a: A. यज्याय for यज्ञाय;)
नमः परमहंसाय नमः सर्वगुणाय ते।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ।। 1.40 ।।

[अगस्त्यस्यागमनहेतुकः प्रश्नः अभयप्रदानं च]

एवं स्तुतो जगन्नाथो रामः कमललोचनः।
अवेक्ष्य कृपया देवो मामुवाच जगत्प्रभुः ।। 1.41 ।।

रामः
किमर्थं कुंभतनय महेन्द्रं समुपागतः।
भीतिवद्भासि योगीन्द्र कुतस्ते भयमागतम् ।। 1.42 ।।
इन्द्राद्वा वरुणाद्वापि ब्रह्मणो वा त्रिलोचनात्।
साक्षान्नारायणाद्वापि न ते भूयादितो भयम् ।। 1.43 ।।
वैवस्वतो वा रक्षांसि दानवा वा सपन्नगाः।
विप्रियं यदि कुर्युस्ते गतिस्तेषां परश्वधः ।। 1.44 ।।
तस्मादभीतवत्स्थित्वा ब्रूहि कार्यं ससंभ्रमम्।
साधयाम्यहमद्यैव दर्शनं मे शुभोदयम् ।। 1.45 ।।

[अगस्त्येन स्वागमनहेतुनिवेदनम्]

इत्युक्तो जामदग्न्येन भीतवत् कुंभसंभवः।
यथावद्वक्तुमारेभे रामायामिततेजसे ।। 1.46 ।।
न भीतिः ब्रह्मणो देव न विष्णोर्न च शङ्करात्।
नापि जिष्णोर्जन च यमात् वरुणाद्वापि राक्षसात् ।। 1.47 ।।
  (c: A. T. om. च,)
राक्षसेभ्योऽपि न भयं न देवेभ्यो न चासुरात्।
नान्येभ्यश्च भयं मेऽद्य भीतः पापादिहागतः ।। 1.48 ।।
वातापिरिल्वलश्चोभौ राक्षसौ ऋषिकण्टकौ।
तौ हन्तुमर्थितो देवैः ऋषिभिश्च महात्मभिः ।। 1.49 ।।
दत्तं मयाभयं तेभ्यो वधे राक्षसयोस्तयोः।
निश्चितं मे मनः पश्चाद्रक्षसापि निमन्त्रितः ।। 1.50 ।।
  (d: T. विo for oपि;)
राक्षसस्य पितुः श्राद्धे सम्पन्नमपि पृष्टवान्।
उक्तं मयास्तु सम्पन्नं जठरे पिण्डतां गतः ।। 1.51 ।।
जीर्णोऽभून्मम वातापिस्ततः कुपित इल्वलः।
मुष्टिना हन्तुमारेभे मां मया हुंकृतिः कृता ।। 1.52 ।।
तेन दग्धोऽभवद्रक्षः सर्वं तेन हृतं तपः।
तेन खिन्नोऽगमं शैलं तपसे हिमभूषितम् ।। 1.53 ।।
अत्युग्रं तप आतिष्ठं वाणी काप्यशरीरिणी।
तपसानेन किं ते स्यात् रामेण भव निर्भरः ।। 1.54 ।।
तत उत्थाय तपसः त्वामद्य शरणं गतः।
अनागसं मां भगवन् कृत्वा समवलोकय ।। 1.55 ।।
  (c:M. ममां for मां;)

[भगवदाराधनतन्त्रश्रवणस्य पापनाशकत्वम्]

एतच्छ्रुत्वा वचो देवो भगवान् भार्गवो मुनिः।
प्रत्युवाच ततः प्रीतो मैत्रावरुणये प्रभुः ।। 1.56 ।।
  (a: T.M. ततो for वचो;)
  (d: T.M. भृगुः for प्रभुः;)
रामः
ऋषीणामग्निकल्पानां देवानां प्रीतये त्वया।
वातापिरिल्वलश्चोभौ नाशितौ ते तपो बलात् ।। 1.57 ।।
निश्शल्या ऋषयश्चापि देवाश्चासन् त्वयानघ।
तदर्थं च तपस्तप्तं भवता हिमवत्तटे ।। 1.58 ।।
अस्मादालोकनेनैव पूतोऽभूर्मुनिपुङ्गव।
तपोधनक्षयभयं न ते भवति दारुणम्।। 59 ।।
  (b:M. अभूत् for अभूः;)
या चासीद्धृदये शङ्का रक्षो नाशनिमित्तजा।
तां च हर्यर्चनातन्त्रं श्रुत्वा नाशय कुम्भज ।। 1.60 ।।
  (a: A.M. यदासीत् हृदये for या चासीद्धृदये;)
  (c: A. तं तां M. तत्तां for तां च;)

[हर्यर्चनातन्त्रविषये अगस्त्योत्थापितजिज्ञासा]

अगस्त्यः
किं तद्धर्यर्चनातन्त्रं तन्त्रं तत्कथमागतम्।
सर्वं निरवसेषेण उपदेष्टुं त्वमर्हसि ।। 1.61 ।।

।। इति श्रीभार्गवतन्त्रे प्रथमोऽध्यायः ।।